________________ उसम 1172- अभिधानराजेन्द्रः - भाग 2 उसभ लिङ्ग विशिष्टम् / तस्य हितास्तद्धिता: तद्धिताश्च हेतवश्चेति समास: तैः सुछ युक्त श्लिष्टमित्यर्थः / परिव्राजामिदं परिव्राजं प्रवर्तयति शास्त्रकारवचनात् वर्तमाननिर्देशोऽप्यविरुद्ध एव पाठान्तरं वा (पारिट्वज ततो कारित्ति) पारिवाजं तत: कृतवानिति गाथार्थः / / भगवता च सह विजहार।तंच साधुमध्ये विजातीयं दृष्ट्वा कौतुकाल्लोक: पृष्टवान्। तथा चाह। अह तं पागडरूवं, दळु पुच्छेइ बहुजणो धम्मं / कहेइ जईणं तो सो, वियालणे तस्स परिकहणा // 50 // गमनिका / अथ तं प्रकटरूपं विजातीयत्वात् दृष्ट्वा पृच्छति बहुजनो धर्म कथयति यतीनां संबन्धिभूतं क्षान्त्यदिलक्षणं ततोऽसविति लोका भणन्ति यद्ययं श्रेष्ठो भवता किं नाङ्गीकृत इति विचारेण तस्य परि समन्तात्कथना परिकथना श्रमणास्त्रिदण्डविरता इत्यादिलक्षणा पृच्छतीति त्रिकालगोचरस्तत्र प्रदर्शनार्थत्वादेवं निर्देशः / पाठान्तरम् / "अहतं पागडरूवं, दटुं पुच्छिसुबहुजणो धम्म। कहती सजतीणं सो, वियालणे तस्स परिकहणा" प्रवर्तत इति गाथार्थः / आ० म०प्र० आव०१ अ०। (23) ब्राह्मणानामुत्पत्तिप्रकारमाह। धम्मकहा अक्खित्ते, उवट्ठिए देइ सामिणो सीसे। गामनगराई विह रइ सो सामिणा सद्धं / / 51 // धर्मकथाक्षिप्तान उपस्थितान् ददाति भगवतः शिष्यान ग्रामनगरादीन् विहरति स स्वामिना सार्द्धम् / भावार्थ: सुगम इत्थं निर्देशप्रयोजन पूर्ववद्ग्रन्थकारवचनत्वाद्वा अदोष इति गाथार्थ: / / अन्यदा भगवान्विहरमाणोऽष्टापदमनुप्राप्तवांस्तत्र च समवसृतः भरतोऽपि भ्रातृप्रव्रज्याकर्णनात्संजातमनस्तापोऽधृतिं चक्रे / कदाचिद्भोगान् दीयमानान् पुनरपि गृहन्तीत्यालोच्य भगवत्समिपं चागम्य निमन्त्रयंश्च तान् भोगैर्निराकृतश्च चिन्तयामास / एतेषामेवेदानी परित्सक्तसङ्गानामाहारदोनेनापि तावद्धर्मानुष्ठानं करोमीति पञ्चभिः शकटैर्विचित्रमाहारमानाय्योपनिमन्त्र्य आधाकाहृतं च न कल्पते यतीनामिति प्रतिषिद्धेऽकृतकारितेनान्येन निमन्त्रितवान् राजपिण्डोऽप्यकल्पनीय इति प्रतिषिद्धः सर्वप्रकारैरहं भगवता परित्यक्त इति सुतरामुन्माथितो बभूव / तमुन्माथितं विज्ञाय देवराट् तच्छोकोपशान्तये भगवन्तमवग्रह पप्रच्छ। कतिविधोऽवग्रह इति भगवानाह / पञ्चविधोऽवग्रहस्तद्यथा / देवेन्द्रावग्रहो राजावग्रहो गृहपत्यवग्रह: सागारिकावग्रह: साधर्मिकावग्रहश्च / राजावग्रहो भरताधिपो गृह्यते / गृहपतिमण्डिलिको राजा। सागारिक: शय्यातर: साधर्मिक: संयत इत्येतेषां चोत्तरोत्तरेण पूर्व: पूर्वो बाधितो द्रष्टव्य इति / यथा राजावग्रहेण देवेन्द्रावग्रहो बाधित इत्यादिप्ररूपिते देवराडहं भगवन् ! य एते श्रमणा मदीयावग्रहे विहरन्ति तेषां मयाऽवग्रहोऽनुज्ञात इत्येवमभिधायाभिवन्द्य च भगवन्तं तस्थौ / भरतोऽचिन्तयदहमपि स्वकीयमवग्रहमनुजानामीत्येतावताऽपि न कृतार्थता भवतु भगवत्समीपेऽनुज्ञातावग्रहः शक्रं पृष्टवान् भक्तपानमिदमानीतमनेन किं कार्यमिति देवराडाह / गुणोत्तरान् पूजयस्व सोऽचिन्तयत् के मम साधुव्यतिरेकेण जांत्यादिभिरुत्तरा: पर्यालोचयता ज्ञातं श्रावका विरता विरतत्वाद्गुणोत्तरास्तेभ्यो दत्तमिति / पुनर्भरतो देवेन्द्ररूपं भास्वरमाकृतिमत् दृष्ट्वा पृष्टवान् किं यूयमेवभूतेन रूपेण | देवलोके तिष्ठत उत नेति देवराडाह नेति / तन्मानुषैर्द्रष्टुमपि न पार्यते भास्वरत्वात्। पुनरप्याह भरतस्तस्याकृतिमात्रेणास्माकं कौतुकं तन्निदर्श्यताम् / देवराजआह / त्वमुत्तमपुरुष इति कृत्वैकमगावयवं दर्शयामीत्यभिधाय योग्यालङ्कारविभूषितामङ्गुली मत्यन्तभास्वरामदर्शयत् / दृष्ट्वा च तां भारतोऽतीव मुमुदे शक्राङ्गुली च स्थापयित्वा महिमामष्टाहिकां चक्रे / ततः प्रभृति शक्रोत्सवः प्रवृत्त इति / भरतश्च श्रावकानाहूयोक्तवान। भवद्भिः प्रतिदिनं मदीयं भोक्तव्यं कृष्यादिच न कार्य स्वाध्यायपरैरासितव्यं भुक्ते च मदीयगृहद्वारासन्नव्यवस्थितैर्वतव्यम्। जितो भवान् वर्द्धते भयं तस्मान्माहनेति। ते तथैव कृतवन्तः / भरतश्च रतिसागरावगाढत्वात्प्रमत्तत्वात्तच्छन्दाकर्णनोत्तरकालमेव केनाहं जित इति। आम् ज्ञातं कषायैस्तेभ्य एव वर्द्धते भयमित्यालोचनापूर्वकं संवेगं यातवानिति / अत्रान्तरे लोकबाहुल्यात् सूपकारा: पाकं कर्तुमशक्नुवन्तो भरताय निवेदितवन्तः नेह ज्ञायते कः श्रावक: को वा नेतीतिलोकस्य प्रचुरत्वात्। आह भरत: पृच्छापूर्वकं देयमिति। ततस्तान् पृष्टवन्तस्ते को भवान् श्रावकाणां कति व्रतानि स आह श्रावकाणां न सन्तिब्रतानि कित्वस्माकंपञ्चाणुव्रतानि। कति शिक्षाव्रतानि के उक्तवन्त: सप्त शिक्षाव्रतानि / य एवंभूतास्ते राज्ञो निवेदिता: स च ककणीरत्नेन तान लाञ्छितवान्। पुन: षण्मासेनये योग्या भवन्तितानपिलञ्छितवान् षण्मासकालादनुयोगं कृतवानेवं ब्राह्मणा: संजाता इति। ते चस्वसुतान् साधुभ्यो दत्तवन्तस्ते च प्रव्रज्यां जगृहुः / परीषहभीरवस्तु श्रावका एवासन्निति। इयं च भरतराज्यस्थितिः। आदित्ययशसस्तुकाकणीरत्न नासीत्। सुवर्णमयानि यज्ञोपवीतानि कृतवान्महायश: प्रभृतयस्तु केचन रूप्यमयानि केचन विचित्रपट्टसूत्रमयानीत्येवं यज्ञोपवीतप्रसिद्धिः अमुमेवार्थ समुसरणेत्यादिगाथया प्रतिपादयति। समुसरणभत्तउग्गह मंगुलियस क्कसावया अहिया। जेया वड्डइ कागिणि लंछणअणुसजणा अट्ट / / 52 // गमनिका / समवसरणं भगवतोऽष्टापदे खल्वासीत् / भक्तं भरतेनानीत तदग्रहणोन्माथितेसति भरते देवेशो भगवन्तमवग्रहं पृष्टवान भगवांश्च तस्मै प्रतिपादितवान् (अंगुलियत्ति) भरतनृपतिना देवलोकनिवासिरूपपृच्छायां कृतायामिन्द्रेणाङ्कुलिदर्शिता। तत एवारभ्य ध्वजोत्सव: प्रवृत्त (सव्वुत्ति) भरतनृपतिना कि मनेनाहारेण कार्यमिति पृष्टः शक्रोऽभिहितवान् / त्वदधिकेभ्यो दीयतामिति पर्यालोचयता ज्ञातं श्रावका अधिका इति (जेया वड्डइत्ति) प्राकृतशैल्या जितो भवान् वर्द्धत भयं भुक्त्वोत्तर कालं च ते उक्तवन्त: (कगणिलंछणत्ति) प्रचुरत्वात् काकणीरत्नेन लाञ्छनं चिह्नं तेषां कृतमासीत् (अमुसज्जणअट्ठत्ति)अष्टौ पुरुषान् यावदयं धर्मः प्रवृत्त: अष्टौ वा तीर्थकरान् यावदिति गाथार्थः / अत ऊर्द्ध मिथ्यात्वमुपगता इति। राया आइचजसे, महाबले अइबले ग्रअ वलभद्दे / बलवीरियकतविरिण, जलविविरिए दंडविरिए अ।। 53 / / अस्या भावार्थ: सुगत एवेति गाथार्थः। एएहि अद्धभरह, सयलं भुत्तं सिरेण धरिओ अ। जिणसत्तिओ अमउडो, सेसेहिं चाइओ वोढुं / / 54 / / गमनिका / एभिरर्द्धभरतं सकलं भुक्तं शिरसा धृतश्च / कोऽसावित्याह। प्रवरो जिनेन्द्रमुकुटो देवेन्द्रोपनीत: शेषैर्नरपतिभिर्नशकितो वोद् महाप्रमाणत्वादिति गाथार्थः।