________________ उसभ ११७१-अभिधानराजेन्द्रः - भाग 2 उसभ संवच्छरेण धूअं, अमूढलक्खो उ पेसए अरहा। हत्थीओ ओअर त्तिअ, बुत्ते चिंता पए नाणं // 36 // उप्पन्नाणरयणा, तिन्नपइन्नो जिणस्स पामूले। गंतुं तित्थं नमिउं, केवलिपरिसाइ आसीणो / / 37 // काऊण एगछतं, भरहो वि अ भुंजए विउलभोए। मरिई वि सामिपासे, विहरइ तवसंजमसमग्गो॥३८॥ सामाइअमाईअं, इक्कारसमाउ जाव अंगाओ। उजुत्तो भत्तिगओ, अहिजिओ सो गुरुसगासे // 36 // भरतसंदेशाकर्णने सति बाहुबलिन: कोपकरणं तन्निवेदनं च क्रवर्तिभरताय दूतेन कृतं (देवयत्ति) युद्ध जीयमानेन किमयं चक्रवर्ती न त्वहमिति चिन्तिते / देवता आगतेति (कहणंति) बाहुबलिना परिणामदारुणान् भोगान् पर्यालोच्य कथनं कृतमलं मे राज्येनेति। तथा चाह। नाधर्मेण युध्यामीति। दीक्षा तेन गृहीता अनुत्पन्नज्ञान: कथमहं ज्यायान् लगीससो द्रक्ष्यामीत्यभिधानात् प्रतिमा अङ्गीकृता प्रतिज्ञा च कृता / नास्मादनुपपन्नज्ञानो यास्यामीति नियुक्तिगाथा। शेषास्तु भाष्यगाथा: / तयोश्च भरतबाहुबलिनो: प्रथम दृष्टियुद्धं, पुनर्वाग्युद्धं, तथैव बाहुभ्यां मुष्टिभिश्च दण्डैश्च सर्वत्रापि सर्वेषु जीयते भरतः। स एवं जीयमानो विधुरोऽथ नरपतिर्विचिन्तितवान् अर्हन्नादितीर्थकर: हस्तिन: अवतर इति चोक्ते चिन्ता तस्य जाता यामीति संप्रधार्य (पए) इति पदोत्क्षेपे ज्ञानमुत्पन्नमिति / उत्पन्नज्ञानस्तीर्णप्रतिज्ञो जिनस्य पादमूले गत्वा केवलिपर्णदं गत्वा तीर्थं नत्वा आसीन: अत्रान्तरे कृत्या एकच्छत्रं भुवनमिति वाक्यशेष: भरतोऽपि च भुङ्क्ते विपुलभोगान् / मरीचिरपि स्वामिपार्थे विहरति तप:संयमसमग्र: सच सामायिकादिकमेकादशमङ्ग यावत् / उद्युक्त: क्रियायां भक्तिगतो भगवति श्रुते वा अधीतवान् / स गुरुसकाश इत्युपन्यस्तगाथार्थः। अह अन्नया कयाई, गिझे उण्हेण परिगयसरीरो। अण्हाणएण चइओ, इमं कुलिंग विचिंतेइ॥ 40 // गमनिका / अथेत्यानन्तर्ये कदाचिदेकस्मिन् काले ग्रीष्मे उष्णेन परि गतशरीरः / अस्नानेनेत्यस्नानपरीषहेण त्याजित: संयमात् एतत्कुलिङ्ग वक्ष्यमाणं विचिन्तयतीति गाथार्थः / मेरुगिरीसमभारे,न हुमि समत्थो मुहुत्तमवि वोढुं / सामन्नए गुणे गुण रहिओ संसारमणुकंखी // 41 // कान् श्रमणनामेते श्रमणा: के ते गुणा: विशिष्टक्षान्त्यादयस्तान् कुतो यतो धृत्यादिगुणरहितोऽहं संसारानुकाङ्क्षीति गाथार्थः / ततश्च किं मम युज्यते / गृहस्थत्वं तावदनुचितं श्रमणगुणानुपालनमप्य शक्यम्॥ एवमणुचिंतयंतस्स, तस्स नियया मई समुप्पन्ना। लद्धो मए उवाओ, जाया मे सासया बुद्धी / / 42 / / एवमुक्तेन प्रकारेणानुचिन्तयतस्तस्य निजा मति: समुत्पन्ना न परोपदेशेन स ह्येवं चिन्तयामाप्त / लब्धो मया वर्तमानकालोचित: खलूपायो जाता मम शाश्वती बुद्धिः शाश्वतीत्याकालिकी प्रायोनिरवद्यजीविकाहेतुत्वादिति गाथार्थः / / यदुक्तमिदं कुलिङ्गमचिन्तयत्तत्प्रदर्शनायाहा समणा तिदंडविरया, भगवंतो निहुअसंकुचिअगत्ता। अजिइंदिअदंडस्स, ओहो उतिदंडं ममं चिन्हं / / 43|| गमनिका / श्रमणा मनोवाकायलक्षणत्रिदण्डविरता: एश्वर्यादिभगयोगाद्भगवन्त: निभृतान्यन्त:करणाशुभव्यापारपरित्यागात् संकुचितान्यशुभाकायव्यापारपरित्यागादङ्गानियेषां तेतथोच्यन्ते अहं तु नैवंविधो यत: अजितेन्द्रियेत्यादि न जितानीन्द्रियाणि चक्षुरादीनि दण्डाश्च मनोवाकायलक्षणा येन सतथोच्यते। तस्याजितेन्द्रियदण्डस्यतुत्रिदण्ड मम चिहमविस्मरणार्थमिति // लोइंदियमुंडा संजया उ अह यं खुरेण ससिहाओ। थूलगयाणि वहाओ, विरमणं से सया होउ।।४४ / / मुण्डो हि द्विधा भवति द्रव्यतो भावतश्च। तत्रैते श्रमणा द्रव्यभावमुण्डा: कथं लोचनेन्द्रियैश्च मुण्डा: संयता: सन्ति अहं पुनर्नेन्द्रियमुण्डो यत: अतोऽलं द्रव्यमुण्डतया तस्मादहं क्षुरेण मुण्ड: सशिखश्च भवामि / तथा सर्वप्राणिवधविरता:श्रमणा वर्तन्ते अहं तु नैवंविधो यत: अतः स्थूलप्राणातिपाताद्विरमणं मे सदा भवत्विति गाथार्थः // निकिंचणा य समणा, अकिंचणा मज्झ किंचणा हॉउ सीलसुगंधा समणा, अहयं सीलेण दुग्गंधो // 45 / / गमनिका / निर्गतं किंचनं हिरण्यादि येभ्यस्ते निष्किं चनाश्च श्रमणास्तथाऽविद्यमानं किंचनमल्पमपि येषां ते अकिशना जिनकल्पिकादय: अहं तु नैवंविधो यतो मार्गाविस्मृत्यर्थं मम किंचन भवतु पवित्रिकादि।तथा शीलेन शोभना गन्धो येषां ते तथाविधाः / अहं तु शीलेन दुर्गन्ध: अतो गन्धचन्दनग्रहणं मे युक्तमिति गाथार्थः / ववगयमोहा समणा, मोहच्छन्नस्स छत्तयं होउ। अणुवाणहा य समणा, मज्झं च उवाणाहा हुंतु // 46 // गमनिका / व्यपगतो मोहो येषां ते व्यपगतमोहा: श्रमणा: अहं तु नेत्थं यत: अतो मोहाच्छादितस्य च्छत्रकं भवतु अनुपानत्काश्च श्रमणा: मम चोपानहाँ भवतामिति गाथाक्षरार्थः॥ सुक्कंवरा य समणा, निरंबरा मब्भ धाउरत्ताई। हुंतु अ मे वत्थाई, अरिहोमि कसायकलुसमई / / 7 / गमनिका / शुक्लाम्बरा: श्रमणास्तथा निर्गतमम्बरं येभ्यस्ते निरम्बरा जिनकल्पिकादयः (मब्भत्ति) मम य एते श्रमणा इत्यनेन तत्कालोत्पन्नतापसश्रमणव्युदासः धातुरक्तानि भवन्तु मम वस्त्राणि किमित्य) योग्याऽस्मि तेषामेव कषायै: कलुषा मतिर्यस्यासावहं कषायकलुषमतिरिति गाथार्थः॥ वजंति वज्जभीरुओ, बहुजीवसमाउलं जलारंभ। होउ मम परिमिएणं, जलेण ण्हाणं च पियणं च / / 48 // गमनिका वर्जयन्त्यवद्यभीरवो बहुजीवावद्यभीरवो बहुजीव समाकुलं जलारम्भंतत्रैव वनस्पतेरवस्थानात्। अवयं पापं अहं तु नेत्थ यत: अतो भवतु मे परिमितेन जलेन स्नानं च पानं चेति गाथार्थः / एवं सो राइअमई, निहगमइविगप्पि इमं लिगं / तद्धियहेउसु जुत्तं, परिवजं पवत्तेइ / / 46 / / स्थूलमृषावादादिनिवृत्तः एवमसौ रूचिता मतिर्यस्य असौ रुचितमति: अतो निजमत्या विकल्पिकं निजमतिविकल्पितमिदं