________________ आगमववहार 94 अभिधानराजेन्द्रः भाग 2 आगमववहार प्राप्तोऽपि रोगवशादमुखो जातः / अथवा-तस्याप्राप्तवत एव स आलोचनार्ह आचार्यः कालगतः, यदि वा- प्राप्तवतोऽष्यमुखो जात: ततः स एवमालोचनापरिणत: आलोचनाया: असंभवेऽपि कालं कुर्वन्नाराधकः, यदि पुनर्न सम्यगालोचनापरिणामपरिणतस्तदा सोऽनाराधकः, स च तथाकालगतो दीर्घसंसारी भवति / एवमाराधना आलोचना हि प्राप्ते अप्राप्ते वा भजनया भवति। संप्रत्यागमव्यवहारिणामपि पुरत आलोच नायां गुणानुपदर्शयतिअवराह बियाणंति, तस्स सोहिं च जद्दवि। तहावि आलोयणावुत्ता, आलोयंते बहू गुणा / / 226 / / यद्यप्यागमव्यवहारिणस्तथाप्यालोचकस्यापराधं विजानन्ति शोधिं च तथाऽपि तेषामपि पुरत आलोचमा दातव्या उक्ता तीर्थकरगणधरैर्यत आलोचयति (सति) बहवो गुणास्तथा ह्यालोचनाऽऽचार्येण स आलोचक: प्रोत्साह्यते यथा वत्स! त्वं धन्यस्त्वं सभाग्यः। यदेवं मानं निहत्याऽऽत्महितार्थतया स्वर- हस्यानि प्रकटयसि महादुष्करमेतत्, एवं स प्रोत्साहित: सन् प्रवर्द्धमानपरिणाम: सम्यग् निःशल्यो भूत्वा यथावस्थितमालो- चयति। शोधिं च सम्यक् प्रतिपद्यते / तत: पर्यन्ते आराधना स्तोककालेन च मोक्षगमनमिति। अथ च कथभागामनो व्यवहारं प्रयुञ्जते, तत आहदव्वेहि पज्जवेहि य, कम-खेत्त-काल-भावपरिसुद्धं / आलोयणं सुणेत्ता, तो ववहारं पउंजति / / 227 / / द्रव्यैः सचित्तादिभिः, पर्याय:- तेषामेव सचित्तादिद्रव्याणामेव स्थानविशेषैः- परिणामविशेषैः, तथा क्रमत:, क्षेत्रतः, कालतो, भावतश्च परिशुद्धामालोचनां श्रुत्वा ततस्तदनन्तरं व्यवहारशोधिव्यवहारं प्रयुञ्जते, नान्यथा, तत्र यदि सचित्तं सेवित्वा सचित्तमे वालोचयति तदा द्रव्यशुद्धा सा आलोचना, यदा तु सचित्तं प्रतिसेव्य अचित्तमालोचयति तदा द्रव्याऽशुद्धा / तथा यामवस्थामुपगतं सचित्तं प्रतिसेव्यतामेवावस्थागतं तदालोचयति तदा सा आलोचना पर्यायशुद्धा; यदा त्वन्यामवस्थामुपगतं प्रतिसेव्यान्यामवस्थामालोचयति तदा पर्यायाऽशुद्धा। तथा यदि प्रतिसेवनानुलोममालोचयति तदासा क्रमशुद्धा, उत्क्रमेणाऽऽ-लोचयत: क्रमाऽशुद्धा तथा यद्यत्र जनपदे अध्वनि वा प्रतिसेवितं तत्तथैवालोचयत: क्षेत्रशुद्धा आलोचना, जनपदे प्रतिसेवितमध्वनि कथयत: क्षेत्राऽशुद्धा। यथा यत् यदा दुर्भिक्षे सुभिक्षे वा दिवा रात्री वा प्रतिसे वितं तत्तदाऽऽलोचयत: कालशुद्धा, सुभिक्षे प्रतिसेव्य दुर्भिक्षे कथयतो रात्रौ वा प्रतितिसेव्य दिवसे कथयत: काला-ऽशुद्धा, तथा-येन अनाभोगादिना सेवितं तं भावं कथयतो भाव-शुद्धा, उपेत्य प्रतिसेव्याऽनाभोगादिना कथयतो भावाऽशुद्धा। संप्रति भावमेवोपदर्शयतिसहसा अन्नाणेण व, भीएण व पेल्लिएण व परेण / वसणेण पमादेण व, मूढेण व रागदोसेहिं / / 22 / / तेन-प्रतिसेयकेन सहसा अज्ञानेन वा परेण वा प्रेरितेन वा व्य-सनेन / वाधूतादिना प्रमादेन वा मूढेन वा रागद्वेषाभ्यां वा प्रतिसेव्य यदि तथैवाऽऽलोच्यते प्रायश्चित्ताय मे ददाति नान्यथेति वाक्यशेषः / संप्रति "सहसे" (228) त्यस्य व्याख्यानमाहपुटवं अपासिऊणं, (उ) च्छूढे पायमिजं पुणो पासे। नयतरह नियत्तेउं, पायं सहसाकरणमेयं / / 229 / / पूर्वम्-अग्रतनप्रदेशे कुलिङ्गिनमदृष्ट्वा उत्क्षिप्ते-उत्पादिते पादेयत्पुन: पश्यति कुलिङ्गिनं समापतितं न पादं निवर्तयितुं शक्नोति। तत एवं यस्तस्य व्यापादनमेतत्सहसाकरणम्। सांप्रतमज्ञानमाहअन्नयरपमाएणं, असंपउत्तस्स नोवउत्तस्य। इरियाइसुं भूयत्थे, अवट्टतो एयमण्णाणं / / 230 / / पश्चानां प्रमादानाम् अन्यतरेणाऽपि प्रमादेनाऽसं प्रयुक्तस्याऽऽक्रोडीकृत: स्यात्, एवम् ईर्यादिषु समतिषु भूतार्थन तत्त्वतो वर्तमानस्य यद्भवनम् एतदज्ञानम्॥ अधुना "भीएण व पेल्लिएण व परण' (2284) इत्यस्य व्याख्यानमाहभीतो पलायमाणो, अभियोगमएण वाऽवि जं कुज्जा। पडितो वाऽपडितो वा, पेल्लिज्जउपेल्लिओ पाणे / / 23 / अभियोगभयेन भीत: पलायमानो यत् कुर्यात्प्राणव्यपरोपणादि तत् भीतेनेति द्रष्टव्यं, तथा परेण प्रेरित: सन्पतितोऽपतितो वा प्राणान् द्वीन्द्रियाऽऽदीन् एकेन्द्रियादीन् वा प्रेरयेत। संप्रति व्यसनाऽऽदिपदानि व्याचष्टेजूयादि होइ वसणं, पंचविहो खलु भावपमादो उ। मिच्छत्तभावणा उ, मोहो तहरागदोसाय // 232 / / द्यूताऽऽदि भवति व्यसनं प्रमाद: खलु मद्यादिभेदाद्भवति पञ्चविध: मिथ्यात्वभावना मोह: रागद्वेषा: सुप्रतीताः / एएसिं ठाणाणं, अन्नयरे कारणे समुप्पन्ने / तो आगमवीमंसं, करेंति अत्ता तदुभयेणं / / 233|| एतेषामन्तरोदितानां सहसा प्रभृतीनां स्थानानामन्यतरस्मिन्कारणे समुत्पन्नं सति आलोचनायां प्रदत्तायामागमविमर्शमाप्ता उभयेन सूत्रार्थलक्षणेन कुर्वन्ति। यथाऽयं सहोऽयमसह: अयमेतावताशोत्स्यति अयं नेति। अथवा-किमनेन सम्य-गालोचितं, किंवा नेति। सांप्रतमागमविमर्शमेव व्याख्यानयतिजइ आगमो य आलो-यणा द दोणि वि समं तु निवयंति। एसा खलु वीमंसा, जो व सहो जेण वा सुज्जे // 234 / / यद्यागमश्चालोचना च एते द्वे अपि समकं- परस्परमविसंवादि- तया निपततो यथैव तस्याऽऽवमस्तथैवेतरस्याऽऽलोचना। यथैव तस्याऽऽलोचना तथैवागमिन आगमः। एष खलु आगमविमर्श उच्यते, अस्मिन् सति शोधिंददति नाऽन्यथा, यदिवा-यः सहोऽसहोवा येन वा य: शुद्ध्यति। एतत् परिभावनमागमविमर्श:। व्य. 10 उ०। ("नाणमादीणि अत्ताणि' (235) गाथा 'अत्त' शब्दे 1 प्रथमभागे गता तत्रैव व्याख्याता च)