________________ आगमववहार 93 अभिधानराजेन्द्रः भाग 2 आगमववहार यामल्पां राग-द्वेषहानिमुपलभ्य पञ्चकहान्या मासिकं ददति; पञ्चविंशति दिनानि ददतीत्यर्थः। तथा एकाहं नाम- अभक्तार्थ प्रतिसेविते पञ्चाई ददति; पञ्चाहे वा प्रतिसेविते एकाहम्; उपलक्षणत्वाद्दाचाम्लम् एकाशनं पूर्वार्द्ध निर्विकृतं पौरुषीं नमस्कारसहितां वा प्रयच्छन्तिा एवं चतुर्दशपूर्वा दयोऽपि 'हु' निश्चितं रागद्वेषहानिवृद्धी उपलभ्य हीनमधिकं वा प्रायश्चित्तं ददति। अत्र परस्य प्रश्रमुदीरयतिचोयगपुच्छा पञ्च-क्खनाणिणो थोवं कह बहुं देंति। दिलुतो वाणियए, जिणचोदसपुट्विए धमए / / 214|| चोदकस्यात्र पृच्छा-प्रत्यक्षज्ञानिनो जिनादय: स्तोकेअपराधे कथं बहु प्रयच्छन्ति प्रायश्चित्तम् उपलक्षणमेतत् भूयसि वा अपराधे स्तोकम् ? अत्र सूरिराह- दृष्टान्तोऽत्र वणिजा द्रष्टव्य:, तथा भूय: परस्य पृच्छा ?जिनादयः केवलज्ञानादिवलेन परस्यभावंजानते चतुर्दशपूर्विणस्तुकथं येन स्तोकेऽपि बहु बलपि-स्तोकं ददतिा सूरिराह-अत्रधमको दृष्टान्तः / तत्र प्रथमतो वणिग्दृष्टान्तं भावयतिजंजह मोल्लं रयणं, तं जाणइ रयणवाणितो निउणो। थोवं तु महल्लस्य वि, कासइ अप्पस्स वि बहुं तु ||25|| यथा निपुणो रत्नवणिक् यत् रत्नं यथामूल्यं तत्तथा सम्मक् जानाति, ज्ञात्वा च कस्यचित् महतोऽपि रत्नस्य स्तोकं मूल्यं ददांति, कस्यचिदल्पस्याऽप्यद्भुतगुणोपेतस्य बहु। इमामेव तदृष्टान्तभावनां प्रकारान्तरेणाहअहवा कायमणिस्स उ, सुमहल्लस्स वि उ कागणी मोल्लं। वइरस्स उ अप्पस्स वि, मोल्लं होती सयसहस्सं // 216 अथवेति- प्रकारान्तरे रत्नपरीक्षको वणिक् काचमणे: सुमहतोऽपि मूल्यम् काकिनी करोति, वज्रस्य तु-रत्नस्याल्प- स्यापि मूल्यं तेन क्रियमाणं शतसहस्रं भवति। अत्रोपनयमाहइय मासाण बहूण वि, रागद्दोसप्पयाएँ थोवं तु। रागद्दोसोवचया, पणगे वि उ तो बहुं देंति / / 217 / / इति'-अमुना दृष्टान्तप्रकारेण बहूनामपि-मासानां योग्ये अपराधे वैराग्यभावनाछलतो रागद्वेषाल्पतया स्तोकं प्रायश्चित्तं ददति। सिंहव्यापादकस्येव रागद्वेषोपचयात् पञ्चके ऽप्यपराधे बहु प्रायश्चित्तं पदति। अधुना "जिनचोद्दसपुविए धमए'' (214) इत्यस्य व्याख्यानमाहपञ्चक्खी पचक्खं, पासइ पडिसेवगस्स सो भावं। किह जाणइ पारोक्खी, नायमिणं तत्थ धमएणं / / 21 / / प्रत्यक्षी-जिनादि: प्रत्यक्ष प्रतिसेवकस्य भावं जानाति, परोक्षीचतुर्दशपूर्वादिः कथं जानाति येन सोऽपि तथैव व्यवहरति, सूरिराह-तत्र तस्मिन्विषये ज्ञातम्-उदाहरणमिदंवक्ष्यमाणं धमकेन-शङ्खध्मात्रा। तदेवदर्शयति नालीधमएण जिणा, उवसंहारं करेंति पारोक्खं / जह सो कालं जाणइ, सुएण सोहिं तहा सोउं ||21|| जिना:-तीर्थकृत: परोक्षे आगमे उपसंहारं नालीधमकेन- कुर्वन्ति, इयमत्र भावना-नाडिकायां गलन्त्यामुदकगलन- परिमाणतो जानाति एतावत्युदके गलितयामो दिवसस्य रात्रेर्वा गत इति ततोऽन्यस्य परिज्ञानाय शङ्ख धमति तत्र यथा सोऽन्यो जन: शङ्कस्य शब्देन श्रुतेन कालं यामलक्षणं जानाति, तथा परोक्षागमज्ञानिनोऽपि शोधिम्आलोचनां श्रुत्वा तस्य यथाऽवस्थितं भावं जानन्ति; ज्ञात्वा च तदनुसारेण प्रायश्चित्तं ददति / व्य०१० उ०। आगमतो ववहारं, परसोया संकियंमि उचरित्ते। आलोइयंमि आरा-हणा अणालोइए भयणा / / 22 / / आगमत: प्रत्यक्षज्ञानी वा परे-परस्मिन व्यवहारं करोतिा परस्यालोचनां श्रुत्वा नान्यथा तत्र यदि कलुषितचारित्रतया नसम्यगालोचयति, किंतु आलोचनामर्यादामतिक्रम्य वर्तत तदा शङ्कितमिति वा भिन्नमिति वा कलुषितमिति वा एकार्थ, चारित्रे सतिन सम्यगनेनालोचितमिति ज्ञात्वा तं ब्रूते- अन्यत्र गत्वा शोधिं कुरु, यदि पुन: सम्यगालोचयति तदा ददाति प्रायश्चित्तम्। अथ यदि प्रत्यक्षागमज्ञानिन: परोक्षाऽऽज्ञानिनोवा सर्वभावविषयपरिज्ञानात् ततः कस्मात्तस्य पुरत आलोच्यते। किंतुतस्य समीपमुपगम्य वक्तव्यम्- अपराधं से भवन्तो जानते तस्य शोधिं प्रयच्छत, तत आह-'आलोई त्यादि, आलोचिते बहुगुणसंभवत: सम्यगाराधना भवति, अनालोचिते आराधनाया भजना-विकल्पना कदाचिद्भवति कदाचिन्नेति एतच्चाग्र भावयिष्यते। तत्र"आगमतो ववहारं, परसोचा" (222) इति व्याख्यानयतिआगमववहारी छ-विहो वि आलोयणं निसामेत्ता। देति ततो पच्छित्तं, पडिवज्जइ सारिओ जइय // 223|| आगमव्यवहारी षड्विधोऽपि परस्यालोचनां निशम्य तत: प्रायश्चित्तं ददाति, यदिच-कमप्यपराधं विस्मृतं स्मारित: सन् सम्यक् प्रतिपद्यते तदा स्मारयति चा अन्यथा तस्याऽऽलोचनामेव न ददाति। सांप्रतमुत्तरार्द्ध (222) व्याख्यानयतिआलोइय पडिक्कंत-स्स होइ आराहणा सुनियमेणं / अणालोइयंमि भयणा, किह पुण भयणा हवइ तस्स / / 224|| पूर्वमपराधजातमालोचितं ततस्तस्मात्प्रतिक्रान्तस्य अपुन: कारणतया प्रतिनिवृत्तस्य नियमेन पर्यन्ते सम्यगाराधना भवति / अनालोचिते पुनर्भजना / आहकथं पुनरनालोचिते तस्याराधनाविषये भजना भवति। अत्राऽऽह-- कालं कुवेज्ज सयं, अमुहो वा हुज्ज अहव आयरियो। अप्पत्ते पत्ते वा, आराहणों तह वि भयणेवं / / 22 / / कोऽपि आलोचनां ग्रहीष्यामीत्यालोचनापरिणामपरिणत आलोचनाग्रहणाय संप्रस्थित आलोचनाह समीपं, सच तमप्राप्त एवापान्तराले स्वयं कालं कु यात्, यदि वा