________________ उसम 1158 - अभिधानराजेन्द्रः - भाग 2 उसभ पुव्वसयसहस्साईमहारायवासमज्झे वसई" इति पूर्वग्रन्थविरोधो नेति उषित्वा (जे सेत्ति) य. स (गिहाणंति) आर्षे ग्रीष्मशब्द: स्त्रीलिङ्गबहुवचनान्तश्च ततो ग्रीष्मस्येत्यर्थः प्रथमो मासो यथा ग्रीष्माणामवयवे समुदायोपचारादुष्णकालमासानां मध्ये प्रथमो मास: प्रथम: पक्षश्चैत्रबहुलश्चात्रान्धकारपक्षस्तस्य नवम्यास्तिथे: पक्षो गेहो यस्य तिथिमेलपातादिषु दर्शनात् तिथिपाते तत्कृत्यस्याष्टम्यामेव क्रियमाणत्वात् स नवमी पक्षोऽष्टमीदिवसस्तत्रानेन व्याख्यानेन "चित्तबहुलट्ठमीए' इत्याद्यागमविरोधात् / वाचनान्तरेण नवमीपक्षो नवमो दिवसः दिवस्याष्टमीदिवसस्य मध्यन्दिवादुत्तरकाले यद्यपि दिवसशब्दास्याहोरात्रवाचकत्वमन्यत्र प्रसिद्ध तथाऽप्यत्र प्रस्तावादिवसे गतो रजनीरजनि: इत्यादाविव सूर्यचारविशिष्टकालविशेषग्रहणमन्यथा दिवसपाश्चात्यभागस्यानुपपत्ते: त्यक्त्वा हिरण्यमघटितसुवर्ण रजतं वा सुवर्ण घटितं हैमं हेम वा कोशं भाण्डागारं कोष्ठागारं धान्याश्रयगृहं बलं चतुरङ्गवाहनं वेसरादिपुरान्त: पुरव्यक्ते विपुलंधनंगवादि कनकं सुवर्ण येभ्यस्सल्लक्षणेभ्यस्तानि रत्नानि मणयश्च प्राग्वत् मौक्तिकानि शुक्त्याकाशादिप्रभवानि शङ्खाश्च दक्षिणावर्ता:ततः पूर्वपदेन कर्मधारयः शिला: पट्टादिरूपा: प्रवालानि विद्रुमाणि रक्तरत्नानि पद्मरागा: पृथग्ग्रहणमेषां प्राधान्यख्यापनार्थमुक्तस्वरूपं यत्ससारं सारातिसारं स्वापतेयं द्रव्यं त्यक्त्वा ममत्वत्यागेन विच्छz पुनर्ममत्वाकरणेन। कुतो ममत्वत्याग इत्याह। विगोप्यं जुगुप्सनीयमेतत् अस्थिरत्वादिति कथनेन कथं च निश्रात्यजनमित्याह / दायकानां गोत्रिकानां दायधनविभागं परिभाज्य विभागशो दत्त्वा तदाऽवनौ नाथपान्थादियाचकानामभावाद्गोत्रिकग्रहणं तेऽपिच भगवत्प्रेरिता निर्ममा: सन्त: शेषमात्रं जगृहुः / इदमेव हि जगद्गुरोर्जीतं यदीच्छावधि दानं दीयते तेषां च इयतैव इच्छापूर्ते: / ननुयदीच्छावधिकं प्रभो न तर्हि एदंयुगीनो जनएकदिनदेयं संवत्सरदेयं वा एक एव जिघृक्षेत् इच्छाया अपरिमितत्वात् / सत्यं प्रभुप्रभावेणैतादृशेच्छाया असंभवात्। सुदर्शनानाम्न्यां शिविकायामारूढमिति गम्यं किं विशिष्ट भगवन्तं सदेवमनुजासुरया स्वर्गभूपातालवासिजनसहितया पर्षदा समुदायेन समनुगम्यमानम् अग्रे अग्रतनभागे शाखिकादयोऽभिनन्दयन्तोऽभिष्टु वन्तश्च एवं वक्ष्यमाणमवादिषुरित्यन्वयः। तत्रशाखिकाश्चन्दन गर्भशङ्खहस्ता माङ्गल्यकारिण: शङ्खध्मा वा चाक्रिकाश्च चक्रभ्रामका: कुम्भकारतैलिकादयो वा लाङ्गलिकां गलावलम्बितसुवर्णादिमयहलधारिणो भट्टविशेषाः / मुखमाङ्गलिकाश्चाटुकारिण: पुष्टमाणा वा / मागधा वर्द्धमानका: स्कन्धारोपितनरा: आख्यापका: शुभाशुभकथका: लङ्का वंशाग्रलेखका: मङ्खाश्चित्रफलकहस्ता भिक्षाका गौरीपुत्रा इति रूढा: घाण्टिका घण्टावादकास्तेषां गणा: सूत्रेच आर्षत्वाद्प्रथमार्थे तृतीया अथाश्रुतव्याख्यानेच शाटिकादिगणैः परिवृतमिति पदं कुलमहत्तरा इति पदंचान्वययोजनार्थमध्याहार्यं स्यात्। साध्याहारव्याख्यातोऽनध्या हारव्याख्यालाघवमिति पञ्चमाङ्गेजमालिचरित्रे निष्क्रमणमहवर्णने शाटिकादीनां प्रथमान्ततया निर्देश एतस्यैवाशयस्य सूचकः। यदि च प्राय: सूत्राणि सोपस्काराणि भवन्तीति न्यायोऽनुप्रियते तदा साध्याहारव्याख्यानेऽप्यदोष: ताभिर्विवक्षिताभिरित्यर्थः / वा भिरभिनन्दयन्तश्चाभिष्ट्र वन्तश्चेति योजना। विवक्षितत्वमेवाह / इष्यन्ते स्मेतीष्टास्ताभिः प्रयोजनवशादिष्टमपि किं चित्स्वरुपतः कान्तं स्यादकान्त चेत्यत आह कान्ताभिः कमनीयशब्दाभिः प्रियाभि:प्रियार्थाभि: मनसा ज्ञायन्ते सुन्दरतया | यास्ता मनोज्ञा भावत: सुन्दग इत्यर्थस्ताभिर्मनसा अम्यन्ते गम्यन्ते पुन:पुनः याः सुन्दरत्वातिशयात्ता: मनोमास्ताभिरुदाराभिः शब्दतोऽर्थतश्च कल्याणाप्तिसूचिकाभिः / शिवाभिर्निरुपद्रवाभि: शब्दार्थदूषणोज्झिताभिरित्यर्थः धन्याभिर्धनलम्भिकाभि: माइल्याभिः मङ्गले-ऽनर्थप्रतिधाते साध्वीभिः सश्रीकाभिः / अनुप्रासाद्यलकारोपेतत्वात् सशोभाभिः / हृदयगमनीयाभि: अर्थप्राकट्यचातुरीसचिवत्वात् सुबोधाभिः / हृदयप्रह्लादनीयाभि: हृदयगतकोपशोकादि - ग्रन्थिविद्रावणीभि: उभयत्र कर्तर्यनट् प्रत्ययः कर्णमनसोर्निर्वृत्तिकरीभिः अपुनरुक्ताभिरिति च स्पष्टमर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभिः अथवाऽर्थानामिष्टकार्याणां शतानि याभ्यस्ता अर्थशतास्ता एवार्थशतिका: स्वार्थे कप्रत्ययस्ताभिर्वाग्भिर्गीर्भिरेकार्थिकानि वा प्राय इष्टादीनि वाग्विशेषणानीति / अनवरतं विश्रामाभावात् अभिनन्दयन्तश्च जयजयेत्यादिभणनसमृद्धिमन्तं भगवन्तमाचक्षाणा: अभिष्टु वन्तश्च भगवन्तमेवमवादिषु रिति / किमवादिषुरित्याह / जयजयेति भक्तिसंभ्रमे द्विर्व चनं नन्द ति समृद्धो भवतीतिनन्द: तस्यामन्त्रणमिदमिह च दीर्घत्वं प्राकृतत्वात् / अथवा जयत्वं जगत्समृद्धिकरत्वाज्जय जय भद्रेति प्राग्वत् / नवरं भद्रः कल्याणवान् कल्याणकारी वा कथं शोभते स्मेत्याह / धर्मेण करणभूतेन न त्वभिमानलज्जादिना अभितो भवपरीषहोप सर्गेभ्यः / प्राकृतत्वात्पञ्चम्यर्थे पष्ठी परीषहोपसर्गाणांजेता भवेत्यर्थः। तथा क्षान्त्या नत्वसामादिना क्षम: सोढा भव भयमाकस्मिकं भैरवसिंहादिसमुच्छ तयो: प्राकृतत्वात् पदव्यत्यये भैरवभयानां वा भयङ्करभयानां क्षान्ता भवेत्यर्थः / नानावक्तृणां नानाविधवाग्भागीति न पूर्वविशेषणान्त: पातेन पौनरुक्त्यं धर्मे प्रस्तुते चारित्रधर्मे अविघ्नं विघ्नाभावस्ते तव भवतु इति कृत्वा धातूनामनेकार्थत्वादुपचार्य पुनः पुनरभिनन्दयन्ति वाचाऽभिष्टुवन्ति चेति / अथ येन प्रकारेण निर्गच्छति तमेवाह। "त एएणमित्यादि" ततस्तदनन्तरमृषभोऽर्हन् कौशलिको नयनमालासहसै: श्रेणिस्थितभगवद्दिदृक्षमाणनागरनेत्रवृन्दै: प्रेक्ष्यमाण: पुन: पुनरवलोक्य मान: आभीक्ष्ण्याद् द्विवचनमेवं सर्वत्र एवं तावद्वक्तव्यं यावनिर्गच्छति यथोपपातिके यथा प्रथमोपाङ्गे च पाठो भम्भासारसूत्रस्य निर्गमगम उक्तस्तथाऽत्र वाच्यो वाचनान्तरेण यावदाकुलवोलबहुनभ: कुन्निति पूर्यन्त इति / तत्र च यो विशेषस्तमाह / विनीताया रायधान्या मध्यं मध्येन भागेन इत्यर्थः / निर्गच्छति सुखं सुखेनेत्यादिवन्मध्यं मध्येनेति निपात: औपपातिकममश्चायं "हिययमालासहस्सेहिं अभिणंदिज्जमाणे 2 मणोमालासह स्सेहिं विच्छिप्पमाणे 2 वयणमालासहस्सेहि अभिथुध्वमाणे 2 कांतिरूवसोहग्गगुणे हिं पिच्छिजमाणे 2 अंगुलिमालासहस्सेहिं दायिज्जमाणे 2 दाहित्थेणं बहूणं णरणारिसहस्साणं अंजलिमालासहस्साइं पडिच्छमाणे 2 मंजुमंजुणा घोसेण आपडिपुच्छेमाणे 2 भवणपतिसहस्साई समइच्छमाणे 2 तंती तलतालतुडियगीयवाइयरवेण महुरेण य मणहरेण जयसग्धोसविसरण मंजुणा घोसेणं पडिवुज्झेमाणे कंदरगिरिवियरकुहरगिरिवरपासा उद्धघणभवणदेवकुलसिंघाडगतिगचउ कचचर आरामुजाणकाणणसहापवाएसदेसभागे पडिसुं आसयसंकुल करें ति हयहेसिअहत्थिगुलगुलाइ अरहघणघणाइ सद्दमीसिएणं महया कलकलरवेण जणस्स महुरेण पूरयंते सुगंधवरकुसुमचुण्णउविट्ठवासरेणुकविलं नभं करेंति कला गरुकंदुरुक्कतुरुक्कधूवनिवहेण जीवलोगमिव वासयंते समत