________________ उसम ११५६-अभिधानराजेन्द्रः - भाग 2 उसभ उक्खत्तिअचक्कवालंपउरजणवालवड्डपमुइअतुरीअप हाविअ विउलत्ति आउलपदमारभ्य निर्गच्छति पदपर्यन्तं तु सूत्रे साक्षादेवास्ति / अत्र | व्याख्या हृदयमालासहस्रैर्जनमनः समूहैरभिनन्धमानः 2 समृद्धिमुपनीयमानो जयजीवानन्देत्याद्याशीर्दानेन मनोरथमालासहसौरेतस्यैवाज्ञापरा भवाम इत्यादिजनतविकल्पैर्विशेषेण स्पृश्यमान: 2 इत्यर्थः / वदनमालासहस्रैर्वच नमालासहस्रैर्वा अमिष्ट्रयमान: 2 कान्त्यादिगुण हे तुभिः प्राय॑मानः २भर्तृतया खामितया वा स्त्रीपुरुषजनैरभिलष्यमाण: 2 दक्षिणहस्तेन बहूनां नरनारीसहस्राणामञ्जलिमालासंयुतकरमुद्राविशेषवृन्दानि प्रतीच्छन् रगृह्णन् २किमुक्त भवति त्रैलोक्यनाथेनापि प्रभुणा पौराणामस्माकमञ्जलिरूपा भक्तिर्मनस्यवतारितेति दक्षिणहस्तदर्शनम्।तथा महाप्रमोदाय भवतीति कुर्वन् मञ्जुमञ्जुनातिकोमलेन घोषेण स्वरेण प्रतिपृच्छन् रप्रश्नयन् प्रणमतां स्वरूपादिवार्ताभवनानां विनीता नगरी गृहणां पङ्क्तया समश्रेणिस्थित्या सहस्राणि न तु पुष्यावकीर्णस्थित्या समतिक्रामन् 2 तन्त्रीतलताला: प्रसिद्धाः त्रुटितानि शेषवाद्यानि तेषां वादितं यादनं प्राकृतत्वात्पदव्यत्यय: गीतं च तयोः रेवेण / यद्वा तन्त्र्यादीनां त्रुटितान्तानांगीते गीतमध्ये यदादितं वादनं तेन यो रव: शब्दस्तेन मधुरेण मनोहरेण तथा जयशब्दस्य उद्घोष: उद्घोषणं विशदं स्पष्टतया प्रतिभासमानं यत्र तेन मञ्जुमञ्जुना घोषेण पौरजनरवेण च प्रतिबुद्ध्यभान: 2 सावधानीभवन् कन्दराणि दर्य: गिरीणां विवरकुहराणि | गुहापर्वतान्तराणि च गिरिवरा: प्रधानपर्वता: प्रासादा: सप्त भूमिकादय: ऊर्द्धघनभवनानि ऊर्ध्वविस्तृतगृहाणि देवकुलानि प्रतीतानि श्रृङ्गटकं त्रिकोणस्थानं त्रिकं यत्र रथ्यात्रयं मिलति चतुष्कं यत्र रथ्याचतुष्टयं चत्वरं बहुमार्गा आरामा: पुष्पजातिप्रधानवनखण्डा: उद्यानानिपुष्पादिमवृक्षयुक्तानि काननानि नगरासन्नानि सभा आस्थापिकाः प्रपा जलदानस्थानमेतेषां ये प्रदेशरूपा भागातान् तत्र प्रदेशा लघुतरा भागादेशास्तु लघवः प्रतिश्रुताः प्रतिशब्दास्तेषां शतसहस्राणि लक्षास्तै:संकुलान् कुर्वन् अत्र बहुवचनार्थे एकवचनं प्राकृतत्वात् हयानां हेषितेन हेषारवरूपेण हस्तिनां गुलगुलायितेन गुलगलायितरूपेण रथानां घनघनायितेन घणघणायितरूपेण शब्देन मिश्रितेन जनस्य महता कलकलरवेण आनन्दशब्दत्वान्मधुरेणाकरेण पूरयन् 2 अत्र नभ इति उत्तरग्रन्धवर्तिना पदेन योग: सुगन्धानांवरकुसुमानांच उद्वेध ऊर्द्ध गतो वासरेणुर्वासकरजस्तेन कपिलं नभः कुर्वन् कालागुरु: कन्दुरुक्कश्चीडाभिधं द्रव्यं तुरुष्कं सिह्नकं धूपश्च दशागादिर्गन्धद्रव्यसंयोगजः एषां निवहेन जीवलोकं वासयन्निव अत्रोत्प्रेक्षातु जीवलोकवासनस्यावास्तवत्वेन सर्वत: क्षुभितानिताश्च तया ससंभ्रमाणि चक्रवालानि जनमण्डलानियत्र निर्गमेतद्यथा भवतीत्येवं निर्गच्छन्तीति। प्रचुरजनाश्च अथवा पौरजनाश्च बालवृद्धाश्च ये प्रमुदितास्त्वरितप्रधाविताश्च शीघ्रं गच्छन्तस्तेषांव्याकुलाकुलानां यो वोल: शब्द: स बहुलो यत्र तत्तथा एवं भूतं नमः कुर्वन् विशेषाणानां व्यस्ततया निपात: प्राकृतत्वादिति निर्गत्य च यत्रागच्छति तदाह / आसी इत्यादि आसिक्तमीषसिक्तं गन्धोदकानि प्रमार्जितं कचवशोधनेन सिक्तं तनैव विशेषतोऽत एव शुचिकं पवित्र पुष्पैर्य उपचार: पूजातेन कलितंयुक्तमिदं च विशेषणं प्रमार्जितासिक्तशुचिकमित्येवं दृश्यं प्रभार्जिताद्यनन्तरभावित्वाच्छुचिकत्वस्य एवंविधसिद्धार्थवनविपुलराजमार्ग कुर्वन् तथा हयगजरथानां (पहकरत्ति) देशीशब्दोऽयं समूहवाची तेन हयादिसेनयेत्यर्थः / तथा पदातीनां च टंकारेण वृन्देन च मन्दं च यथा भवति तथा क्रियाविशेषणं यथा हयादिसेना पाश्चात्यसमेति तथा बहुतरबहुतमकमित्यर्थः / उद्धतरेणुकमूर्ध्वगतरजस्कं कुर्वन् यत्रैव सिद्धार्थवनमुद्यानं यत्रैवाशोकवरपादपस्तत्रैवोपागच्छतीति उपागत्य यत्करोति तदाह उपागत्याशोकवरपादपस्याध: शिविकां स्थापयति स्थापयित्वा च शिविकाया: प्रत्यारोहति अवतरतीत्यर्थः / प्रत्यवरुह्य च स्यमेवाभरणालङ्कारान् तत्राभरणानि मुकुटानि अलङ्कारान् वस्त्रादीन् सूत्रे एकवचनं प्राकृतत्वात् आभरणानि च अलङ्काराश्चेति समाहारद्वन्द्वक रणाद्वा अवमुशति त्यजति कुलमहत्तारिकायां हंसलक्षणपदे अवमुच्य च स्वयमेव चतसृभिः (अट्ठाहिति) मुष्टिभिः करणभूताभिलुचनीयकेशानां पञ्चमभागलुचिकाभिरित्यर्थ: लोचं करोति अपराङ्गालङ्कारादिमोचनपूर्वकमेव शिरोऽलङ्कारादिमोचनं विधिक्रमायेति पर्यन्ते मस्तकालङ्कारकेशविमोचनं तीर्थकृत: पञ्चमुष्टिकलोचसंभवेऽपि अस्य भगवश्चतुर्मुष्टिकलोचगोचर: श्री हेमाचार्यकृतऋषभदेवचरित्राभिप्रायोऽयं प्रथममेकया मुष्ट्या श्मश्रुकूर्चयो: लोचे तिसृभिश्च शिरोलोचे कृते एकां मुष्टिमयशिष्यमाणां पवनान्दोलितां कनकाववदातयोः प्रभुस्कन्धयोरुपरि लुण्ठन्ती भरकतोपमानमाविभ्रती परमरमणीयां वीक्ष्य प्रमोदमानेन शक्रेण भगवन्मय्यनुग्रहं विधाय ध्रियतामेवमित्थमेवेति विज्ञप्ते भगवताऽपि सा तथैव रक्षितेति न ह्ये कन्तभक्तानां याञ्चामनुग्रहीतार: खण्डयन्तीत्येवेदानीमपि श्रीऋषभमूर्ती स्कन्धोपरि वेलरिका: क्रियन्ते इतिलुञ्चिताश्च केशा : शक्रेण हंसलक्षणपटे श्रीरोदधौ क्षिप्ता इति / षष्ठेनभक्तेन उपवासत्रयरूपेण अपानके चतुर्विधाहारेण आषाढाभिरित्यत्र "तेलुग्वे" त्यनेन उत्तरापदलोपे उत्तराषाढाभिर्वचन वैषम्यमार्षत्वात् नक्षत्रेण योगमुपागतेनार्थाचन्द्रेणेति गम्यम् / उग्राणामनेनैव प्रभुणा आरक्षकत्वेन नियुक्तानां भोगानां गुरुत्वेन व्यवहृतानां राजन्यानां क्षत्रियाणां शेषप्रकृतितया विकल्पितानां चतुर्भिः पुरुषसहरौः सार्द्धमते च बन्धुभिः सुहृद्भिः भरतेन च निषिद्धा अपि कृतज्ञत्वेन स्वाम्युपकारं स्मरन्त: स्वामिविरहभीरवो वान्तान्न इर राज्यसुखे विमुखा यत्स्वामिनाऽनुष्ठेयं तदस्माभिरपीतिकृतनिश्चयाः स्वामिनमनुगच्छन्ति स्म। एकं देवदूप्यं शक्रेण वामस्कन्धे जीतमित्यर्पितमुपादाय न तु रजोहरणादिकं लिङ्ग कल्पावीतत्वाजिनेन्द्राणाम् / मुण्डो द्रव्यत: शिर: कूर्चलोचेन भावत: कोपाद्यपासनेन भूत्वा अगाराद् गृहवासान्निष्क्रम्येति गम्यमनगारिताभग्राहीत / गृही असंयतस्तत्प्रतिषेधादनगारी संयतस्तद्भावस्तत्ता तांसाधुताभित्यर्थ: प्रग्रजित: प्रगत: प्राप्त: इति यावत् / अथवा विभक्तिपरिणामादनगारितया निम्रन्थतया प्रव्रजित: प्रव्रजित: प्रव्रज्यां प्रतिपन्नः / जं०२ वक्ष०। अत्रैव वक्तव्यशेषं चूर्णिकृदाह। ये स उसभे कोसलिए पढमराया पढमभिक्खायरिए पढमतित्थयरे वीसं पुव्वसयस्साई कुमारवासे वसित्ता तेवष्टुिं पुटवसयसहस्साई रजमणुपालेमाणे लेहाइयातो सउणरतपञ्जवसाणातो वायत्तरि कलातो चोसदि महिलागुणे सिप्पाणमेगंसयमेए तिन्नि पयाहियट्ठाए उवदिसइ उवदिसित्ता पुत्तसयं रज्जे सए अभिसिंचइ ततो लोगंतिएहिं देवोहिं जीयम्मि तिकटु संवोहिए संवच्छरियं दाणं दाऊण भरहं विणीयाए बाहुबलि बहलीए कच्छमहाकच्छाणं सहस्सपरिवारा भयवया सह अणु