________________ उसभ 1156 - अमिधानराजेन्द्रः - भाग 2 उसभ च प्रथमं त्रिदशैः कृत: पश्चाल्लोकेऽपि संजातः। तथा भगवदेहादिदग्धस्थानेषु भरतेन स्तूपा कृता: ततोलोकेऽपितत आरभ्य मृतकदाहस्थानेषु स्तूपाः प्रावर्तन्त / तथा शब्दो नाम रुदितशब्दः स च भगवत्यपवर्ग गते भरतदु: खमसाधारणमवबुद्धय तदपसरणाय शक्रेण कृतस्ततो लोकेऽपि तत: कालादारभ्य रुदितशब्दाः प्रवृत्तास्तथा चाह लोकोऽपि / तथा भरतवत् शक्रवत्वा रुदितशब्दं प्रवृत्त: कर्तुमारब्धवान्। संप्रति छेलापनकद्वारं पृच्छाद्वारं चाह। छेलावणमुक्किट्ठाइ, वालकीलावणं च सेंटाइ। इंखिणियादिरुयं वा, पुच्छा पुण किं कहिं कजं / / 62 / / अहव निमित्ताईणं सुह-सइयाइ सुहदुक्खपुच्छा वा। इचेवमाइयाई, उप्पन्नं उसमकालम्मि।। 63 / / छेलापनकमिति देशीवचनं तच्चानेकार्थ तथाचाह / उक्किट्ठाइ इत्यादि उत्कर्ष नाम हर्षवशादुत्कर्षण नर्दनमादिशब्दात् सिंहनादिता-दिपरिग्रहः / यदि वा वालक्रीडनं छेलापनकम् / अथवा शेंटितादि / तथा प्रच्छनं पृच्छा सा इंखिणिकादिरुदितलक्षणा। इंखिणिका हि कर्णमूले घण्टिकां चालयन्ति ततो यक्षा: खल्वागम्य तासां कर्णेषु किमपि प्रष्टुर्विवक्षितं कथयन्ति / आदिशब्दात् इंखिणिकासद्दश-परिग्रहः / अथवा किं कार्य कथं वा कार्यमित्येवं लक्षणा या लोके प्रसिद्धा पृच्छा सा प्रच्छना। यदि वा निमित्तादीनामादिशब्दात्स्वप्न फलाफलादिपरिग्रहः / पृच्छा प्रच्छना / अथवा सुखशयितादिरूपा सुखदुः खपृच्छा प्रच्छना इत्येवमादितया सर्वमुत्पन्नमृषभस्वामिकाले / उपलक्षणमेतत् / किञ्चिद्भरतकाले किञ्चित्कुलकरकाले च / तथाचाह। किंचिच भरहकाले, कुलगरकाले वि किंचि उप्पन्नं / पहुणा उदेसियाई, सव्वकला सिप्पकम्माइं॥६॥ किञ्चिन्निगडादिभिर्घात इत्यादिभरतकालोत्पन्नं किंचित् हकारितं कुलकरकालेऽप्युत्पन्नं प्रभुणा तु भगवता ऋणभस्वामिना सर्वा गणितप्रभृतयः कला: सर्वाणि घटशिल्पप्रभृतीनि शिल्पानि सर्वाणि च कृष्यादीनि कर्माणि देशितानि। आ० म०प्र०। आव०। (13) श्रीऋषभदेवस्य वास: / तओ णं उसमे अरिहा कोसलिए वीसं पुटवसयसहस्साई कु मारवासमज्झे वसइ वसइत्ता तेवहिं पुटवसयसहस्साई महारायवासमज्झे वसइ तेवहिं पुटवसयसहस्साई महारायवासमज्झे वसमाणे लेहाइआओ गणिअप्पहाणाओ सउणरुअपज्जवसाणाओ वाबत्तरि कलाओ चोसहिं महिलागुणे सिप्पसयं च कम्माणं तिण्णि विपयाहिआए उवदिसइति।। ततो जन्मकल्याणकानन्तरमित्यर्थः। ऋषभोऽर्हन् कौशलिक: विंशति पूर्वशतसहस्राणि पूर्वलक्षाणि भावप्रधानत्वान्निर्देशस्य कुमारत्वेनाकृता- 1 भिषेकराजसुतत्वेन वासोऽवस्थानं तन्मध्ये वसति। "कुमारवासमज्झावसई'' इति पाठे तु कुमारवासमध्यावसति आश्रयतीत्यर्थः / उषित्वा च त्रिषष्टिपूर्वलक्षाणि अत्रापि भावप्रधानो निर्देश इतिमहाराजत्वेन | साम्राज्येन वासोऽवस्थानंतन्मध्ये वसति। तत्र वसतश्च कथं प्रजाउपचक्रे इत्याह "तेवढिं इत्यादि'' त्रिषष्टिं पूर्वलक्षाणि यावन्महाराजवासमध्ये वसन् लिपिविधानादिका गणितमङ्कविद्या धर्मकर्मव्यवस्थितौ / बहुप्रकारत्वात्प्रधाना यासुताः। शकुनरुतं पक्षिभाषितं पर्यवसाने प्रान्ते यासां तास्तथा द्वासप्ततिकला: कलनानि कलाविज्ञानानीत्यर्थस्ता: कलनीयभेदात् द्वासप्ततिः अर्थात् प्रायः पुरुषोपयोगिनी: / चतुषष्टि महिलागुणान् स्त्रीगुणान कर्मणां जीवनोपायानां मध्ये शिल्पशतं च विज्ञानशतं च कुम्भकारशिल्पादिकं त्रीण्यप्येतानि वस्तूनि प्रजाहिताय लोकोपकारायोपदिशति / अपिशब्द: एकोपदेशकपुरुषतासूचनार्थः / वर्तमाननिर्देशश्चात्र सर्वेषामाद्यतीर्थकराणामयमेवोपदेशविधिरिति ज्ञापनार्थम् / यद्यपि कृषिवाणिज्यादयो बहवो जीवनोपायास्तथापि ते पाश्चात्यकाले प्रादुर्बभूवुः / भगवता तु शिल्पशतमेवोपदिष्ट मत एवाचार्योपदेशजं शिल्पमनाचार्योपदेशं तुकर्मेति शिल्पकर्मणोर्विशेषमामनन्तीति। श्री हेमसूरिकृतादिदेवचरित्रे तु। "तृणहारकाष्ठहारकृषिवाणिज्यकान्यपि। कर्माण्यासूत्रयामास,लोकानांजीविकाकृते॥१॥" इत्युक्तमस्तितदाशयेन तुकम्माणमित्यत्र द्वितीयार्थे षष्ठी ज्ञेया। तथा च कर्माणिजधन्यमध्यमोत्कृष्टभेदात् त्रीण्यप्युपदिशति इत्यपि व्याख्येयम् / शिल्पशतं च पृथगेवोपदिशति इति ज्ञेयमिति जं०२ गक्ष० / (अथात्र सूत्रसंक्षेपतः प्रोक्ता विस्तरस्तु राजप्रश्नीयादशेषु दृश्यमाना द्वासप्ततिकलास्ताश्च कालशब्दे दर्शयिष्यन्ते) शिल्पशतं चेदं कुम्भकृल्लोहकृच्चित्रतन्तुवायनापितलक्षणनि पञ्च मूलशिल्पानि तानि च प्रत्येकं विंशतिभेदानीति / तथा चार्षम् पंचेव य सिप्पाइं, घडलोहचित्तणंतकासाए। इक्किक्कस्य य पत्तो, वीसं वीसं भवे भेआ / / १॥"इति। नन्वत्रैषां पञ्च मूलशिल्पानामुत्पत्तौ किं निमित्तमित्युच्यते युग्मिनामामौषध्योदरे मन्दाग्नितया अपच्यमाने हुतभुजि प्राक्षिप्यमाने तुसमकालमेव दह्यमाने युगलिकनरैर्विज्ञप्तेन हस्तिस्कन्धारूढेन भगवता प्रथमं घटशिल्पमुपदर्शितं क्षत्रिया:शस्त्रपाणय एव दुष्टभ्य: प्रजारक्षेयुरिति लोहशिल्पं, चित्राङ्गेषु कल्पद्र मेषुहीयमानेषु चित्रकृच्छिल्पं, वस्त्रकल्प द्रुमेषु हीयमानेषु तन्तुवायशिल्पं, बहुले युग्मिधर्मे पूर्वमवर्द्धिष्णु रोमनख मा मनुजान्तुदत्विति नापितशिल्पमिति / श्री हेमाचार्यकृऋभचरित्रे तु गृहादिनिमित्तं वर्द्धक्ययस्कारयुग्मरूपं द्वितीयं शिल्पमुक्तं शेषं तत्तथैवेति। ननु भोग्यसत्कर्माण एवार्हन्तो भगवन्त: समुत्पन्नव्याधिप्रतीकारकल्पस्त्यादिपरिग्रहं कुर्वते नेतरत्तत: किमसौ निरवद्यैकरुचिर्भगवान् सायद्यानुसंबन्धिकलाद्युपदर्शने प्रववृते ? उच्यते समयानुभावतो वृत्तिहीनेषु दीनेषु मनुजेषु दु:स्थाविभाव्यसंजातकरुणैकरसत्वात् / समुत्पन्नविवक्षितरसो हि नान्यरससापेक्षो भवतीति वीर इव द्विजस्य चीवरदाने / अथैवं तर्हि कथमधिकलिप्सोस्तस्य सति सकलेंऽशुके शकलकदानं सत्यं भगवतश्चतुनिधारकत्वेन तस्य तावन्मात्रस्येव लाभस्यावधारणेनाधिक योगस्य क्षे मानिर्वाहक त्वदर्शनात् / कथमन्यथा भगवदंशस्थलस्तच्छकलग्रहणेऽपि तदुच्छत्कृितार्द्ध विभाजक स्तन्तु वाय; समजायत / किं च फलाद्युपाये न प्राप्तसुखवृत्तिकस्य चौर्यादिव्यसनाशक्तिरपि न स्यात् / ननु भवतु नामोक्तसुखहेतोर्जगद्भर्तुः कलाद्युपदर्शकत्वं परं'राजधर्मप्रवर्तकत्वं कथमुचितमुच्यतें / शिष्टानुग्रहाय दुष्टनिग्रहाय धर्मस्थिति संग्रहाय च / ते च राज्यस्थितिनिश्रयाः सम्यक्प्रवर्तमाना: कमेण परेषा महापुरुषमार्गोपदर्शकतया चौर्यादिव्यसननिवर्तनतो नारकातिथेयीनिवारकतया ऐहिकामुष्मिकसुखसाधकतया च प्रशस्ता एवेति /