________________ उसम 1155 - अभिधानराजेन्द्रः - भाग 2 उसभ गत्वा निजनिजभाषालेखापनलक्षण; कार्यपरिच्छे दनार्थ वा | पणमुक्तिलक्षण: स उभयरूपोऽपि तदा प्रवृत्त: कालदोषतो लोकानां प्राय: स्वस्वभावापगमात्। अधुना नीतियुद्धरूपं द्वारद्वयमभिधित्सुराह / नीई हकाराई, सत्तविहा अहव सामभेयाई। जुद्धाई बाहुजुद्धाइ, यइ वट्टयाईणं च // 50 // नीतिहक्कारादिलक्षणा सप्तविधा / तद्यथा हक्कारो मकरो धिक्कार: परिभाषणा मण्डलीबन्धश्चारके प्रक्षेपो महापराधे छविच्छेद इति / एषा सप्तविधापि नीतिस्तदा विमलवाहनकुलकरादारभ्य भरतकालं पर्यन्तं कृत्वा यथायोगं प्रवृत्ता। तथा च वक्ष्यति "किंचिच्च भरहकाले' इत्यादि। अथवा नीति म सामभेदादिका चतुष्प्रकारा। तद्यथा सामभोदो दण्ड; उपप्रदानमिति एषा। चतुविधाऽपि भगवत्काले समुत्पन्नेति। तथा युद्धानि नाम बाहुयुद्धादीनि / यदि वा वर्तकादीनां तानि उभयान्यपि तदा प्रवृत्तानि। सांप्रतमिषुशास्त्रोपासनारूपं द्वारद्वयमाह / ईसत्थं धणुवेदो, उवासणा मंसुकम्ममाईया। गुरुरायाईणं वा, उचासणापञ्जुवासणया।॥५१॥ इषुशास्त्रं नाम धनुर्वेदः स च राजधर्मे सति प्रावर्तत उपासना नाम श्मश्रुकर्तनादिरूपं नापितकर्म तदपि तदैव जातं पूर्वे ह्यनवस्थितनखरोमानस्तथा कालमाहात्म्यत: प्राणिनोऽभवन्निति। एषा च शिल्पान्तर्गततया प्रागभिहिताऽपि पुनः पृथग्द्वारतयोपन्यस्ता भगवत्काल एव नखरोमाण्यतिरेकेण प्रवर्द्धितुं लग्नानि तत्पूर्वमिति ख्यापनार्थम् / यदि वा उपासना नाम गुरुराजादीनां पर्युपासना सापि तदैव प्रवृत्ता। अधुना चिकित्सार्थशास्त्रबन्धघातरूपद्वारचतुष्टय प्रतिपादनार्थमाह। रोगहरणं तिगिच्छा, अत्थागमसत्थमत्थसस्थिति। निगडाइजमो बंधो, घातो दंडादितालणया / / 52 // चिकित्सा नाम रोगापहारक्रिया साऽपि तदैव भगवदुपदेशात्प्रवृत्ता। अर्थागमनिमित्तं शास्त्रमर्थशास्त्रम् बन्धो निगडादिभिर्यम: संयमनं धातो दण्डादिभिस्ताडना / एतेऽपि अर्थशास्त्रबन्धघातास्तत्काले यथायोगं प्रवृत्ताः। अधुना मारणयक्षोत्सवरूपद्वारत्रयप्रतिपादनार्थमाह / मारणया जीववहो,जन्नानागाइयाण पूयातो। इंदाइमहापूया, पइनियया ऊसवा होति / / 53 / / मारणं जीववधो जीवस्य जीविताद् व्यपरोपणं तच भरतेश्वरकाले समुत्पन्नम्।यज्ञा नागादीनां पूजा: उत्सवाः प्राय: प्रतिनियता: वर्षमध्ये प्रतिनियतदिवसभाविन: इन्द्रादिमहापूजास्त्वनियतकालभाविन्य इति महोत्सवानां प्रतिविशेषः / एतेऽपि तत्काले प्रवृत्ताः / संप्रति समवायमङ्गलरूपद्वारद्वयमभिधित्सुराहसमवाओ गोट्ठीणं,गामाईणं व संपसारो वा। तह मंगलाइसोत्थिय, सुवण्णसिद्धत्थगाईणि // 54|| समवायो नाम गोष्ठिनां मेलापकः / यदि वा ग्रामादीनामादिशब्दात् खेटवाटनगरादिपरिग्रहः / स एकीभावेन किमप्युद्दिश्य एकत्र मीलनं संप्रसारः समवायः / किमुक्तं भवति ग्रामादिजनानां किंचित्प्रयोजनमुद्दिश्य यदेकत्र मीलनं स वा समवाय इति / तथा मङ्गलानि नाम स्वस्तिकसुवर्णसिद्धार्थकादीनि पूर्वं देवैर्भगवतो मङ्गलवुद्ध्या प्रयुक्तानि ततो लोकेऽपि तथा प्रवृत्तानि। संप्रति कौतुकादिद्वारपञ्चकमाह। पुवं कयाई पहुणो, सुरेहिं रक्खादिकोउयाइंच। तह वत्थगंधमल्लालंकारकेसभूसाइ॥ 55 // तं दहण पवत्तो, लंकारे उजणो असेसो वि। पूर्व प्रवृत्तो भगवत: ऋषभस्वामिन: सूरैः कृतानि कौतुकानि रक्षादीनि ततो लोकेऽपि तानि जातानि। तथा वस्त्रं चीनांशुकादिभेदभिन्नं गन्ध: कुष्टपुटादिलक्षण: माल्यं पुष्पदाम / एतानि तदैव जातानि। अलङ्कार: केशभूषादिः तं चालङ्कारं भगवतो देवैः कृतं दृष्ट्वा अवशेषोऽपि स्वं स्वमलंकर्तु प्रवृत्तः। संप्रति चूलाद्वारमाह॥ विहिणा चूलाकम्म, वालाणं चोलयं नाम / / 56 // चूडा नाम विधिना शुभनक्षत्रतिथिमुहूर्तादौ धवलमङ्गलेष्ट - देवतापूजास्वजनभोजनादिलक्षणेन बालानां चूडाकर्म तदपि तदा प्रवृत्तम्। संप्रत्युपनयनद्वारमाह। उवनयणं तु कलाणं, गुरुमूले साहुणो तवोकम्म। घेत्तुं हवंति सडा, कोई दिक्खं पवजांति // 57 / / उपनयनं नाम तेषामेव वालानां कलानां ग्रहणाय गुरोः कलाचार्यस्य मूले समीपेनयनम् / यदि वा धर्मश्रवण निमित्तं साधोः सकाशं नयनमुपनयनं तस्माच साधोधर्म गृहीत्वा के चित् श्राद्धा भवत्यपरे लघुकर्माणो दीक्षां प्रपद्यन्ते। एतच्चोभयमपि तदा प्रवृत्तम् अधुना विवाहद्वारं दत्तिद्वारमाह। दढे कायं विवाह, जिणस्य लोगो विकाउमारद्धो। गुरुदत्तिया य कन्ना, परिणिज्जते ततो पायं / / 58 / / दत्तिव्य दाणमुसभ, दित्तं दटुंजणम्मि विपयत्तं। जिणमिक्खादाणं पिय, दट्ट भिक्खा पवत्ताओ॥ 56 // जिनस्य भगवत ऋषभस्वामिनो कृतं विवाह दृष्ट्वा लोकोऽपि स्वापत्यानां विवाह कर्तुमारब्धवान्। गतं विवाहद्वारम्। दत्तिद्वारमाह। भगवता युगलधर्मव्यवच्छेदाय भरतेन सह जाता ब्राझी बाहुबलिने दत्ता बाहुबलिना सह जाता सुन्दरी भरतायेति दृष्ट्वा तत आरभ्य प्रायो लोकेऽपि कन्या पित्रादिना दत्ता सती परिणीयते इति प्रवृत्तम्। अथवा दत्तिनाम दानं तच भगवन्तमृषभस्वामिनं सांवत्सरिकं दानं ददतं दृष्ट्वा लोकेऽपि प्रवृत्तम। यदि वा दत्तिनाम भिक्षादानं तच जिनस्य भिक्षादानं प्रपौत्रेण कृतं दृष्ट्वा लोकेऽपि भिक्षा प्रवृत्ता। लोका अपि भिक्षां दातुं प्रवृत्ता इति भावः। अधुना मृतकपूजाध्यापनास्तूपशब्दद्वाराण्याह। मडयं मयस्स देहो, तं मरुदेवीए पढमसिद्धो त्ति। देवेहिं पुरा महियं, झावणया अग्गिसक्कारो॥६॥ सो जिणदेहाईणं, देवेहिं कतो चितासु थूभा य। सद्दो य रुण्णसहो,लोगो वि ततो तहाय कतो / / 61 / / मृतकं नाम मृतस्य देहस्तच मृतकं मरुदेव्याः प्रथमसिद्ध इति कृत्वा देवैः पुरा महितं पूजितम् / तत आरभ्य लो के ऽपि मृतक पूजा प्रसिद्धि गता। ध्यापना नामाग्निसंस्कार: स च भगवतो निर्वाणप्राप्तस्यान्येषां च साधूनामिक्ष्वाकूनामितरेषां