________________ उसभ 1154 - अभिधानराजेन्द्रः - भाग 2 उसभ अमुमेवार्थमुपसंहरन्नाह। घंसेऊणं तिम्मण, घंसणतिम्मणपवालपुडमोई। घंसियतिम्मपवाले, हत्थउडे कक्खसेए अ।। 40 // भावार्थ उक्त एव नवरमुक्तार्थाक्षरयोजना / घृष्ट्वा तीमितं कृतवन्त इत्यनेन प्रागभिहितप्रत्येकभङ्गकाक्षेप: कृतो वेदितव्यः / घृष्ट्वा प्रवालपुटतीमितभोजिन इत्यनने द्वितीययोजनाक्षेपः। घृष्ट्वेति घृष्ट्वा तीमनं प्रवाल इति प्रवाले तीमित्वा हस्तपुटेषु कियन्तमपि कालं विधाय भुक्तवन्त इति वाक्यशेष: इत्यनेन तृतीययोजनाक्षेप: / तथा कक्षास्वेदे च कृते सति भुक्तवन्त: इत्यनेनानन्तराभिहितत्रययुक्तेन चतुर्भङ्गकयोजनाक्षेप इति गाथार्थः। अत्रान्तरे। अगणिस्य य उट्ठाणं, दुमघसा दट्ठ भीअपरिगहणं। पासेसु परिच्छिंदह, गिण्हह पागं तओ कुण्हह / / 41|| आह सर्वं तीमनादि ते मिथुनकास्तीर्थकरोपदेशात्कृतवन्त: स च भगवान्जातिस्मर: सन् किमित्यन्युत्पादोपदेशनदत्तवानित्युच्यते तदा कालस्यैकान्तस्निग्धत्वात् असत्यपि यत्ने वस्तूस्पत्तेरिति स च भगवान् विजानति न ह्येकान्तस्निग्धरूक्षयो: कालयोर्वयुत्पाद: किं त्वनतिस्निग्धरूक्षकाल इत्यतो नादिष्टवानिति तेषां च चतुर्भङ्गविकल्पितमप्याहारं कालदोषान्न जीर्णवत्: इत्यस्मिन् प्रस्तावे अग्नेश्वोत्थानं संवृत्तमिति / कुत: द्रुमघर्षात्तं चोत्थितं प्रवृज्वालावलीसनाथं भूप्राप्तं तृणादिदहन्तं दृष्ट्वा अपूर्वरत्नवुद्धया ग्रहणंप्रति प्रवृत्तवन्त: दह्यमानास्तु भीतपरिकथनमृषभाय कृतवन्त: इति। भीतानां परिकथनं भीतपरिकथनम्। भीत्या वा परिकथन भीतिपरिकथनं पाठान्तरमिति। भगवानाह पावेत्यादि सुगम ते हि अजानाना वहावेवौषधी: प्रक्षिप्तवन्त: ताश्च दाहमापुः पुनस्ते भगवतो हस्तिकन्धगतस्य निवेदयन्ति ।स हि स्वयमेवौषधी क्षयतीति / भगवानाह न तत्राभिरोहितानां प्रक्षेपः / / 41 // इत्थं तावत्प्रथमं कुम्भकारशिल्पमुत्पन्नममुमेवार्थमुपसंहरन्नाह। पक्खेवदहणमोसहि,कहणं निग्गमणहत्थिसीसम्मि। पयणारंभपवित्ता, ताहे कासी य ते मणुआ।। 42 // मिंठेण हत्थिसीसे, मट्टियपिंडं गहाय कुडगं तु / निव्वत्ते सिअ तह आइजिणोवइटेण मग्गेण / / 43 / / निव्वत्तिए समाणे, जणई राया तओ बहुजणस्स। एवइआ मे कुय्वह, पथट्टि पढमसिप्पं तु / / 44 // भावार्थ उक्त एव किं तु क्रियाध्याहारकरणेनाक्षरगमनिका स्वबुद्ध्या कार्या / यथा प्रक्षेपं कृतव तो दहनौषधीनां बभूवेत्यादि उक्तमाहारद्वारम् / आव०१ अ०। शिलाद्वारावयवार्थाभिधित्सयाऽऽह / पंचेव य सिप्पाइं,घडलोहे चित्तणंतकासवए एकेकस्य य पत्तो, वीसं वीसं भवे भेया।। 45 // पञ्चैव मूलभूतानि शिल्पानि। तद्यथा (घडलोहे चित्तणंतकासवएइति) तत्र घट इति कुम्भकारशिल्पस्योपलक्षणं (लोहेत्ति) लोहकारशिल्पस्य (चित्तेत्ति) चित्रकारशिल्पस्य "तमिति" देशीवचनं वस्त्रवाचकं ततोऽनेन वस्त्रशिल्पस्य ग्रहणं काश्यप इति नापितशिल्पस्य / इयमत्र | भावना। वस्त्रवृक्षेषु परिहीयमानेषु भगवता वस्त्रोत्पादनिमित्तवस्त्रशिल्पमुत्पादितं तदनन्तरं गृहाकारेष्वपि कल्पद्रुमेषु हानिमुपगच्छत्सु गृहकरणनिमित्तं लोहकारादिशिल्पमुत्पादितं पश्चात्प्राणिनां कालदोषानखरोमाणि अपि वर्द्धितुं प्रवृत्तानीति नापितशिल्पोत्पादना। गृहाण्यपि च चित्ररहितानि विशोभानि भान्तीति चित्रकारशिल्पोत्पादना कुम्भकारशिल्पोत्पाद-कारण प्रागेव भावितम्। एक्केकस्स येत्यादि एभ्य पञ्चभ्य एकैकस्य विंशतिर्विशतिर्भेदा: अभूवन्निति सर्वसंख्यया तदा शिल्पशतस्यो-त्पत्तिरभवदिति // 45 // संप्रति कर्ममामणाविभूषणाद्वारप्रतिपादनार्थमाह। कम्म किसिवाणिज्जाइ मामणा जा परिग्गहे ममता। पुव्व देवेहिं कया, विभूसणा मंडणा गुरुणो / / 46 / / कर्म नाम कृषिवाणिज्यादि / तचाग्नावुत्पन्ने संजातमिति (मामणेत्ति) ममीकारार्थे देशीवचनमेतत् / ततो योऽपरिग्रहे ममता सा मामणा ज्ञातव्यासा च तत्काल एव प्रवृत्तेति। तथा विभूषणा मण्डना सा च पूर्व देवेन्द्रैर्गुरोर्भगवत: आदितीर्थकृत: कृता पश्चाल्लोकेऽपि प्रवृत्तेति। संप्रति लेखगणितरूपद्वारद्वयप्रतिपादनार्थमाह। लेह लिवीविहाणं, जिणेण बंभीए दाहिणकरेण। गणिय संखाणं सुंदरीए वामेण उवइटुं / / 47 // लेखनं लेखो नाम सूत्रे नपुंसकता प्राकृतत्वाल्लिपिविधानं तच्च जिनेन भगवता ऋणभस्वामिना ब्राहम्या दक्षिणकरेण प्रदर्शितमत एव तदादित आरभ्य वाच्येत। गणितं नाम एकद्वित्र्यादिसंख्यानं तच्च भगवता सुन्दा वामकरेणोपदिष्टमत एव तत्पर्यन्तादारभ्य गण्यते। अधुना रूपलक्षणमानरूपद्वारत्रय प्रतिपादनार्थमाह। मरहस्स रूवकम्म, नराइलक्खणमहोइयं वलिणो। माणुम्माणुवमाणं, पमाणग णमा य वत्थूणं // 48 / / रूपं नाम काष्ठ कर्म पुस्तककर्मे त्येवमादि / तच्च भगवता भरतस्योपदिष्टम् / तथा नरादिलक्षणं पुरुषलक्षणादितच अथ भरतस्य काष्ठकर्माधुपदेशानन्तरं भगवता बाहुबलिन उदितं कथितम्। तथा मानं नाम वस्तूनां मानोन्मानावमानप्रमाणगणितानि तत्र मानं द्विधा धान्यमानं रसमानं च / धान्यमानम् "दो अ सतीए सइया दो य सईतो सेइया चत्तारि सेइया कुलवो चत्तारि कुलवो पत्थओ इत्यादि / रसमानं चउसट्ठिया चउतिसिया सोलसिया" इत्यादि। उन्मानं येनोन्मीयतेतच तुलागतं कर्ष: पलमित्यादि। अवमानं येनावमीयते तद्यथा हस्तो दण्डो युगमित्यादि। प्रमाणं प्रतिमानं तच सुवर्णपरिमाणहेतु: गुञ्जादि गणिम यदेकादिसंख्यया परिच्छिद्यते। यत्तु गणित तत्प्रागेव पृथग्द्वारतयाऽभिहितमेतत्पञ्चप्रकारमपि मानं भगवति राज्यमनुशासति भगवदुपदेशेन प्रवृत्तमिति (पोयए) इतिद्वारगाथायां यदुक्तं तस्य संस्कार: प्रोतकमिति। पोतक इति वा / तथाचाह! मणियाई दोराइसु. पोता तह सागरम्मि वहणाई। ववहारो लेहवणं, कज्जपरिच्छेयणत्थं वा // 46 // ये मणिकादय: आदिशब्दान्मुक्ताफलादिपरिग्रहः / दवरकादिषु लोके न प्रोता: क्रि यन्ते तदेतत्प्रकर्षेण ऊतनं तदा प्रवृत्तम्। अथवा पोता नाम सागरे समुद्रे प्रवहणानि तान्यपि तदैव प्रवृत्तानि / तथा व्यवहारो नाम विसंवादे सति राजकुलकरणे