________________ उसभ 1152 - अभिधानराजेन्द्रः - भाग 2 उसभ (छप्पुटवगाहा'') निगदसिद्धैवेयं नवरमनुत्तरविमानादवतीय सुमङ्गलायाः पुन: बाहुपीठश्च भरतब्राझीमिथुनकं जातं तथा सुबाहुमहापीठश्च सुनन्दाया: बाहुबली सुन्दरीमिथुन कमिति / 124 / अमुमेवार्थं प्रतिपादयन्नाह मूलभाप्यकार: (देवीगाहा 625) सुगमत्वान्न विवियते आह / किमेतावन्त्येव भगवतोऽपत्यानि उत नेति। उच्यते। अउणापन्नं जुअले, पुत्ताण सुमंगला पुणो पसवे। नीईणमइक्कमणे, निवेअणं उसमसामिस्स !! 126 // गमनिका / एकोनपञ्चाशतयुग्मानि पुत्राणां सुमङ्गला पुन:प्रसूतवती। अत्रान्तरे प्राग्निरूपितानां हक्कारादिप्रभृतीनां दण्डनीतीनां ते लोका: प्रचुरतरकषायसंभवात् अतिक्रमणं कृतवन्तः / ततश्च नीतीनामतिक्रमणे सति तल्लोका अभ्यधिक ज्ञानादिगुणसमन्वितं भगवन्तं विज्ञाय निवेदनं कथनमृषभस्वामिने आदितीर्थंकराय कृतवन्त इति क्रियाऽयं गाथार्थः। एवं निवेदिते सति भगवानाह। राया करंइदंडं, सिढे ते विंति अम्ह विसहो उ। मग्गह य कुलगरं सो, वेइ उसभो अ भे राया॥१२७ / / गमनिका। मिथुनकैर्निवेदिते सति भगवानाह। नीत्यतिक्रमणकारिणां राजा सर्वनरश्वरः करोति दण्ड स चामात्यारक्षिकादिबलयुक्तः कृताभिषेक: अनतिक्रमणीयाज्ञश्च भवति।एवं शिष्ट कथिते सति भगवता ते मिथुनका ब्रुवते भणन्ति अस्माकमपि राजा भवतुवर्तमानकालनिर्देश: खल्वन्यास्ववस प्पिणीषु प्राय: समानन्यायप्रदर्शनार्थः / त्रिकालगोचरसूत्र प्रदर्शनार्थों वा / अथवा प्राकृत शैल्या छान्दसत्वाच (विंतीति) उक्तवन्त: / भगवानाह यद्येवं (मग्गहयकुलगरंति याचयध्वे कुलकरं राजानं स च कुलकरस्तैर्याचित: सन् (वेत्तेति) पूर्ववदुक्तवान् ऋषभो (भे) भवतां राजेति गाथार्थः। ततश्च ते मिथुनका राज्याभिषेकनिर्वर्तनार्थमुदकानयनाय पद्मिनीसरो गतवन्तः / अत्रान्तरे देवराजस्य खल्वासनकम्पो बभूव विभाषा पूर्ववत्यावदिहागत्याभिषेकं कृतवानिति / (10) ऋषभस्वामिनो राज्याभिषेक: / आभोएउं सको, उवागओ तस्स कुणइ अमिसे। मउडाइ अलंकारं, नरिंदजोगं च से कुणइ / / 128 / / गमनिका आभोगयित्वा उपयोगपूर्वकनावधिना विज्ञाय शक्रो देवराज उपागतस्तस्य भगवत: करोति अभिषेकम्। राज्याभिषेकमिति / तथा मुकुटाद्यलङ्कारंच आदिशब्दात्कटककुण्डलकेयूरादिपरिग्रहः / चशब्दस्य व्यवहित: संबन्धो नरेन्द्रयोग्यं (से) तस्य करोति अत्रापि वर्तमानकालनिर्देशप्रयोजनं पूर्ववदवसेयम् / पाठान्तरम् "आभोएउं सक्को, आगंतुं तस्स कासिअभिसेयं / मउडादिअलंकार, नरिंदजोगंच से कासी भावार्थः पूर्ववदेवेति गाथार्थ: / अत्रान्तरे ते मिथुन कनरास्तस्मात्पद्मसरस: खलु नलिनीपत्रैरुदकमादाय भगवत्समीपमागत्य तं चालंकृतविभूषितं दृष्ट्वा विस्मयोत्फुल्लनयनाः किंकर्तव्यताव्याकुलीकृतचेतसः कियन्तमपि काल स्थित्वा भगवत्पादयो: तदुदकं निक्षिप्तवन्त इति तानेवंविधक्रियोपेतान दृष्ट्वा देवराडचिन्तयत् अहो खलु विनीता एते पुरुषा इति वेश्रमणं यक्षराजमाज्ञापितवानिह द्वादशयोजनदीर्घा नवयोजनविष्फाम्भां विनीता नगरी निष्पादयेति।स चाज्ञासमनन्तरमेव दिव्यभवनप्राकारमालोपशोभितां नगरी चक्रे। अमुमेवार्थमुपसंहरन्नाह। भिसिणीपत्तेहिरे, उदयं धित्तुं छुहंति पाएसु / साहुविणीया पुरिसा, विणीयनयरी अह निविट्ठा।।१२६ / / गमनिका विसिनीपत्रैरुदकं गृहीत्वा छु भन्तीति प्रक्षिपन्ति वर्तमाननिर्देश: प्राग्वत्पादयोरुपरि। देवराडभिहृतवान्। साधु विनीता. पुरुषा: विनीतनगरी अथ निविष्टति गाथार्थ: / 126 / (11) सांप्रतं राज्यसंग्रहद्वारमभिधित्सयाऽऽह। आसा हत्थी गावो, गहिया एएय रजसंगहनिमित्तं / चित्तूण एवमाई, चउट्विहं संगई कुणइ॥ 130 // गमनिका अश्वा हस्तिनो गावएतानिचतुष्पदानितदा गृहीतानि भगवता राज्ये संग्रह: तन्निमित्तं गृहीत्वा एवमादिचतुष्पदजातमसौ भगवान् चतुर्विधंवक्ष्यमाणलक्षणं संग्रहणं करोति। वर्तमाननिर्देशप्रयोजन पूर्ववत्। पाठान्तरं वा चतुर्विधं संग्रहं कासी इत्ययं गाथार्थः / / 130 / / स चायम्। उग्गा भोगा रायन्न खत्तिया संगहो भवे चउहा। आरक्खिगुरुवयं सा, सेसा जे खत्तिया ते उ॥ 131 / / स चायम् / उग्गहगाहा / गमनिका उग्रा भोगा राजन्या क्षत्रिया एवं समुदायरूप: संग्रहो भवेचतुर्धा : एतेषामेव यथासंख्यं रूवरूपमाह / (आरक्खेत्यादि) आरक्षका उग्रदण्डकारित्वात उग्रा गुर्विति गुरुस्थानीया भोगा: वयस्या इति राजन्या: समानवयस इति कृत्या वयस्याः शेषा उक्तव्यतिरिक्ता वे क्षत्रियास्ते तुशब्द: पुनश्शब्दार्थस्तेपुनः क्षत्रिया इति गाथार्थः। (12) लोकस्थितिनिबन्धनप्रतिपादनाय गाथाचतुष्टयमाह। आहारे सिप्पकम्मे, मामणाय विभूसणा। लेहे गणिए अरुवे अ, लक्खणे माणपोयए।। 132 / / ववहारे नीइजुद्धे अ, ईसत्थे उवासणा। तिगिच्छा अत्थसत्थे अ, बंधे घाए अमारणा / / 133 / / जत्तूसवसमावाए, मंगले कोडए इअ। वत्थे गंधे अमल्ले अ, अलंकारे तहेव य / / 134 / / चोलोवणविवाहे अ, दत्तिया मडयपूयणा। कावणा थूभसद्दे अ, छेलावणयपुच्छणा / / 135 / / एताश्चतस्रोऽपि द्वारगाथा: / एताश्च भाष्यकार: प्रतिद्वार व्याख्यास्यत्येव तथाप्यक्षरगमनिकामात्रमुच्यते तत्रापि प्रथमगाथामधिकृत्याहा तत्राहार इति आहारविषयो विधिवक्तव्यः कथं कल्पतरुफलाहाराभावः संवृत्त: कथं वा पक्काहार: संवृत्त इति तथा शिल्प इति शिल्पविषयो विधिर्वक्तव्यः / कुतः कथं कि यन्ति वा शिल्पान्युपजातानीति / कर्मणीति कर्मविषयो विधिर्वाच्यः यथा कृषिवाणिज्यादिकर्म संजातमिति तच्चाग्नावृत्पन्ने संजातमिति / च: समुचये (भामणेत्ति) ममीकारार्थे देशी वचनम् ततश्च परिग्रहममीकारो वक्तव्य: स य तत्काल एव प्रवृत्त: च: पूर्ववत् / विभूषणं विभूषणा मण्डनभित्यर्थः / सा वक्तव्या सा च भगवतः प्रथमं देवेन्द्रः कृता पश्चाल्लोकेऽपि प्रवृत्ता। लेख इति लेखनं लेख: लिपिविधानमित्यर्थः / तद्विपयो विधिवक्तव्यः तच जिनेन ब्राह्या दक्षिणकरेण प्रदर्शितमिति / गणितविषयो विधिर्वाच्यः एवमन्यत्रापि क्रिया योज्या / गणित संख्यानं तय भगवता सुन्दर्या बामकरणोदिष्टमिति / च: समुच्चये