________________ उसम 1144 - अभिधानराजेन्द्रः - भाग 2 उसभ गन्धाराख्ये जनपदे, पुरे गन्धसमृद्धके। राज्ञःशतबलस्याभू-चन्द्रकान्ता तनूद्रवः / / 67|| महाबलो धनस्यात्मा, महाबल इवापरः। वर्द्धमानः क्रमात्प्राप, यौवनं केलिभाजनम्॥६८|| कन्यां विनयवत्याख्या, भूभुजा पर्यणाय्यत। राज्ये तमथ संस्थाप्य, स्वयं राजाऽग्रहीहतम्॥६६।। सद्यःसोऽथ महाराजो, दुरमात्यप्रतारितः। यथेष्ट चेष्टते धर्म-विमुखो विषयोन्मुखः / / 7 / / प्रमादमदिरामत्तो, निर्गलशिरोमणिः / कृत्याकृत्यमजानाना, शिक्षाहीनो बनेऽभवत् / / 71 / / सङ्गीतकेऽन्यदा जाय-माने मन्त्रिमतल्लिका। स्वयं बुद्धः प्रबोधाय, भूभुजः प्रोचिवानिति / / 72 / / सर्वं गीतं विलपित, सर्व नाट्यं विडम्बना। सर्वेऽप्याभरणा भाराः, कामाः सर्वेऽपि दुःखदाः // 73 // सम्भिन्नमतिरूचे तं, किमप्रस्तावमुच्यते। वीणायां वाद्यमानायां, वेदोदारो न रोचते॥७४|| स्वयम्बुद्धस्तमाह स्म, नाऽहितोऽस्मि प्रभुं प्रति। ऐहिकस्यैव वक्ताऽसि, नामुष्मिकविधौ पुनः // 75 / / देव ! कारणमत्रास्ति, यत्त्वामभिदधेऽधुना। अद्योद्याने मयाऽदर्शि, चारणश्रमणद्वयम् // 76|| तत्समीपे मयाऽप्रच्छि, कियदायुमंदीशितुः। तेनाख्यायि मासमेकं, ततो भीतोऽभ्यधामिदम् // 77 // राजोचेऽमात्य ! सुप्तोऽहं, साधुजागरितस्त्वया। तदानीमेव सङ्गीतं, विससर्ज भयद्रुतः॥७८|| कथयामात्य ! को धर्मः, कर्तव्योऽल्पीयसाऽऽयुषा। लग्ने प्रदीपने विष्वक् कः कूपखननोद्यमः // 76|| मन्त्र्यूचे देव! मा भैषी-दिनमेकमपि व्रतम्। नस्याद्यद्यपवर्गाय, स्वर्गाय स्यान्न संशयः।।५०|| ततो राज्ये निजं पुत्र-मभिषिच्यानुशिष्य च। सप्तक्षेत्र्यां धनं प्राज्य-मप्त्वा मुक्त्वा परिग्रहम्॥१॥ ततः प्रव्रज्य राजर्षिाविंशतिदिनानि सः। कृत्वाऽनशनमीशाने, विमाने श्रीप्रभाभिधे // 8 // ललिताङ्गाभिधो जज्ञे, शक्रसामानिकः सुरः। देवी स्वयंप्रभा तस्य, तत्र दिव्यप्रभा प्रिया / / 3 / / क्रीडतोरपृथक्त्वेन, मनसोरिव देहयोः। तयोः कालो ययौ भूया-म्युताऽन्येधुः स्वयंप्रभा / / 84 // मुमूर्छ ललिताङ्गोऽपि, वजेणेवाभिताडितः। मनोभिरामरामाया, विगमे कस्य नासुखम् / / 8 / / मूच्छन्तेि विललापोचै-मुक्तकण्ठं रुरोद च। अज्ञानस्त्रीव शोकार्तः, शोकमाविश्वकार सः॥८६॥ स्वयंबुद्धोऽपि तन्मन्त्री, पश्चादादाय संयमम्। ईशानेऽजनि पूर्णायुः, सोऽपि शक्रसमः सुरः / / 87|| सोऽवधेः स्वामिनं मत्या, ललिताङ्गमुपागमत्। प्राग्वत्प्राबोधयद्वर्मा-ख्यानैःशाकापनोदवित् / / 88|| उपयुज्यावधि ज्ञात्वा, पुनस्तं स्माह मा मुह। भाविनी भवतो भार्या, मया ज्ञाताऽस्ति तत् शृणु।।८६॥ द्वीपेऽत्र धातकीखण्डे, प्राग्विदेहावनावभूत्। नन्दिग्रामे गृहपति-नागिलोऽतीव दुर्गतः / / 6 / / नागश्रीस्तस्य भार्याभू-त्कन्याः षड् जनितास्तया। प्रायेण हि दरिद्राः स्यु-बहुकन्या बहुक्षुधः / / 1 / / तत्प्रियाऽऽसीत्पुनर्गुर्वी, नागिलोऽथ व्यचिन्तयत्। स्थायद्यस्याः सुतैवातो, यास्याभ्यूर्ध्वमुखः क्वचित्।।१२ जाता सुताऽथ ताभ्यः स, राक्षसोभ्य इवानशत्। नागश्रीर्दुःखिता दुःस्था, तस्या नामापि न व्यधात्।।६३॥ लोकैर्निनामिकेत्युक्ता, दुर्भागा दुःखसेवधिः। परगेहेषु दुष्कर्म-करणाजीवति स्म सा॥६४|| अथान्यदाऽद्यडिग्भानां, हस्तेष्वालोक्य मोदकान्। ययाचे मातरं साऽपि, मातोचे पुत्रि! मोदकान्॥६५|| गतोऽस्त्यानेतुं त्वद्धेतो-स्त्वज्जन्मन्येव ते पिता। शैलादम्बरतिलका-तावद्दारूण्युपानय // 66 // दह्यमानतया मातुः, कालकूटकिरा गिरा। रज्जुमादाय याति स्म, मुञ्चन्त्यश्रूणि तं गिरिम् / / 6.7 / / युगन्धरमुनिस्तत्र, तदा केवलमासदत्। व्यन्तरैर्महिमा चक्रे, लोकास्तं नन्तुमाययुः / / 68|| निर्नामिकाऽपि तत्रागा-त्केवली धर्ममादिशत् / निर्नामिका गुरूनूचे, प्रभोऽहं कथमीदृशी / / 66) गुरुः स्माह पुरा धर्म-स्त्वया नाकरितत्फलम्। ततोऽधुनाऽपि तम्भद्रे! कुरु स्या येन सौख्यभाक् / / 10 / / सम्यक्त्वं गृहिधर्म च, साऽथ गुर्वन्तिकेऽग्रहीत्। साधर्मिकीति लोकेना-नुगृहीता सुखं स्थिता / / 101 / / तेपे तपांसि भूयांसि, स्यात्कर्मप्रलयो यतः। युगन्धरगुरोः पार्थे, साऽस्त्यात्तानशनाऽधुना / / 10 / / ततो मन्त्रिगिरा तस्याः, ससुरः स्वमदर्शयत्। निदानं साध्यधात्ती, दष्टा स्यामस्य पल्ल्यहम् / / 103|| मृत्वा सा तस्य भार्याऽभू-देवी स्वयं प्रभाभिधा। नवीभूतामिवायाता, तां रेमेऽथ स पूर्ववत्॥१०४।। कियत्यपि गते काले,ललिताङ्गस्ततश्चयुतः। जम्बूद्वीपे प्राग्विदेहा-ऽभ्यनते सीतोत्तरे तटे।।१०।। विजये पुष्कलावत्यां, लोहार्गलमहापुरे। सुवर्णजडलक्ष्मीभू-वैज्रजङ्घः सुतोऽभवत्।।१०६।। स्वयंप्रभाप्यथ च्युत्वा, विजयेऽत्रैव सा भवत्। चक्रिणः पुण्डरीकिण्या, वज्रसेनस्य पुत्रिका / / 107 / / यौवने चन्द्रशालास्था, श्रीमती सुस्थितस्य सा। उद्याने केवलोत्पत्ती, विलोक्यागच्छतः सुरान् / / 108 / / जातजातिस्मृतिर्दध्यौ, ललिताङ्गः क्व मे पतिः। तदज्ञानात्तदप्राप्तौ, मौनमेवास्तु मेऽधुना / / 106 / / कृतैरप्युपधारौधैः, सामुमोचन मूकताम्। धात्र्या पृष्टा रहः प्राह,पटमालिख्य चार्पयत्॥११॥ चक्रिणो वज्रसेनस्य, वर्षग्रन्थौ नृपागमे। तं पट पण्डिता धात्री, धृत्वा राजपथे स्थिता।।१११।। तत्रागाराजजनोऽपि, तं दृष्ट्वा जातिमस्मरत्। उवाचेदं चरित्रं मेऽ-लिखन्नूनं स्वयंप्रभा॥११२।। अभिज्ञानानि सर्वाणि, पण्डिताया अपूरयत्। श्रीमत्यै साऽथ गत्वाऽख्य-तदैव मुमुदे च सा / / 113 / / पितुर्व्यज्ञपयत्तन, श्रीमती पण्डितामुखात्। पिताऽपि तत्क्षणाद्वज्र-जङ्घमाजूहवत्ततः // 114|| ऊचे राजा वजजड्य! तव प्राग्भवपल्यसौ। अस्मिन्नपि भवे ते स्या-दिति तां पर्यणाययत्॥११५|| सह श्रियैव श्रीमत्या, वजडो मुकुन्दवत्। जगाम राज्ञाऽनुज्ञातो, लोहार्गलपुरं निजम्॥११६।।