________________ उसम 1143 - अभिधानराजेन्द्रः - भाग 2 उसभ सार्थवाहोऽवदत्पूज्या, विधायानुग्रहम्परम्। स्त्यानीभूतसुधाभानि, गृह्णीताम्राण्यमूनि मे / / 17 / / सार्थपैतानि कल्पन्ते, नाशस्त्रोपहतानि नः। धनोऽवादीद् व्रतं पूज्या-यौष्माकमतिदुष्करम्॥१८|| कल्प्यमन्नादिवः सर्व, पूज्याः सम्पादयिष्यते। प्रातः प्रयाणम्भावीतस्तदागत्यात्र तिष्ठत // 16 // चक्रे प्रयाणं सार्थेशो, गुरवोऽपि सहाचलन्। सजातेषु प्रयाणेषु, ततः कतिपयेष्वपि।।२०।। उज्जजम्भे तदा ग्रीष्मः, कालः कलितयौवनः। स्वकीयेनोष्मणा ज्वाला-जिह्वामप्यवहेलयन् // 21 / / नृपस्येव निदाघस्य, महायोध इवार्यमा / करैः शरैरिवाशेषान्, जनानाहन्त्यरीनिव।।२२।। तदा तापादिवोष्णांशु-स्तृष्णातिशयविह्वलः। पिवन करसहस्रेण, जलस्थानान्यशोषयत्॥२३॥ प्रस्वेदप्लुतसर्वाङ्ग-स्तदा धातुमयो जनः। ग्रीष्मनाडिन्धमध्नानाद्, द्रवरूप इवाभवत्॥२४|| निदाघदहनोत्तप्त-वालुका वसुमत्यपि। भ्राष्ट्रीभूताध्वगान् जन्तून, पचते चणकानिव॥२५॥ सत्यप्येवंविधे काले, यान्तःकान्तारमापतन्। प्रावृट्कालक्षमापाल-स्तत्राध्वनि रुरोध तान्।।२६।। सेनान्यस्तस्य गर्जन्तः, पर्जन्याः श्याममूर्तयः। पुरस्कृतेन्द्रधन्वान स्तडिद्दण्डासिधेनवः / / 27 / / वारिधाराशरासारै-रुपर्युपरिपातिभिः / नश्यतोऽपिजनान्घ्नन्ति, क्षेत्रधर्मानभिज्ञवत्।।२८।। (युग्मम्) कोऽपि श्रेयांसि वासांसि,पर्यधत्त न तद्भयात्। श्रीमन्तोऽपि जरद्वस्त्रा, संचरन्ति पुरेऽपि हि // 26 / / मार्गास्तदा जडैलब्धा-प्रसरैरवहाः कृताः! गन्तुं कोऽपि न शक्नोति, पदात् पदमपि क्वचित्॥३०॥ प्राज्यस्वर्णश्रियो मत्ता-स्तदानीन्निम्नगा अपि। लोकात्सर्वस्वमादाय, हदेषु प्रक्षिपन्यथा / / 31 / / स्थाने स्थाने ग्राहयन्ति, लोकेभ्यो वहका अपि। वर्त्मरक्षा धनमिव, तारकैरातलच्छलात् // 32 // पादमाकृप्य पङ्कस्तु, तद्वश्च इव दुईमः। क्षिप्रं पातयते भूमौ, प्रधानमपि मानुषम // 33 / / ईदृश्यभ्रागमे याते, प्रारम्भेऽप्यतिभैरवे। दुर्गान्मार्गान् धनो ज्ञात्वा, तत्रैवावासमाददे॥३४॥ कृत्वोटजान जनोऽप्यस्था-द्वेशमनीव निजे सुखम्। शुद्धोटजेऽस्थुराचार्या, माणिभद्रोपदर्शिते / / 3 / / प्राप्तोत्कर्षासु वर्षासु, निष्ठिते भोजने नृणाम्। कन्दमूलफलाशित्वं, तापसानामिवाभवत् // 36 // दुःखिताः साधवस्तत्र, कथञ्चित्कस्यचिद् गृहे। चेल्लभन्तेऽनवद्यानि, फलान्याददते तदा // 37 // एवं व्रजति काले च, स्तोकशेषे तपात्यये। निशायाः पश्चिमे यामे, चिन्ता सार्थपतेरभुत्॥३८|| दुःखितःकोऽस्ति मे सार्थे , स्मृतं सन्ति मुनीश्वराः। ते हि कन्दादि नानन्ति, निरवद्यान्नभोजिनः / / 3 / / तस्य तचिन्तयैकोऽपि, यामोऽगात् शतयामताम सार्थपः प्रातरायासीन्- मुनीनामाश्रये धनः॥४०।। ददर्श विस्मितः साधून, विविधासनसंस्थितान्। अध्यायाध्यापनपरान्, सुहितान् जिमितानिव / / 41 / / वन्दित्वा तान् गुरून् भक्त्या, विधत्ते स्म स्वगर्हणम्। पूज्याः सह मया नीताः कृता साराऽपि न क्वचित्॥४२॥ तदहं निष्फलो जज्ञे, ऽवकेशिरिव पादपः। क्षमध्वं मेऽपराधं तत्, यूयं सर्वसहा यतः॥४३॥ ऊचे गुरुस्ते साहय्यात्, क्षेमेण वयमागताः। दत्तं त्वयैव नः सर्व-मधृतिं भद्र ! मा कृथाः॥४४॥ सोऽवदचन्दनं धृष्ट-मपि सद्गन्धबन्धुरम्। अगुरुर्दह्यमनोऽपि, सदोद्रिरति सौरभम्।।४५।। पुनरूचे ध्रुवं पूज्या, अमृतेनैव निर्मिताः। अमन्तोर्वा समन्तोर्वा, यूयं समदृशस्ततः॥४६|| न्यमन्त्रयदथो पूज्यान, साधन प्रेषयताधना। यच्छामि प्रासुकाहार-माधारं देहवेश्मनः / / 47|| ययौ स्वावासमित्युक्त्वा, पश्चात्प्रैषि मुनिद्वयम्। तदर्हामन्यदन्नाद्य-मपश्यन् किञ्चनापि सः॥४८|| स्त्यानीभूतं घृतं दृष्ट्वा, स्माहेदं गृह्यतां प्रभो!। साधुः शुद्धमिति ज्ञात्वा, पतद्ग्रहमधारयत्॥४६॥ हिमस्त्यानं प्राज्यमाज्यं, निर्मलं निर्मलात्मकः / स्वयं यथेष्टं दत्ते स्मा-नन्यसामान्यभावतः॥५०॥ स्वयं ददत्तदा दानं, वीजं मोक्षमहातरोः। तीर्थकृत्कर्माचलनं, सम्यग्दर्शनमासदत्॥५१|| संग्रहमाह "धणसत्थवाहघोसण, जइगमणं अडविवासु ठाणं च। बहुवोलीणे वासे, चिंताघयदाणमासि तया" / / 5 / / धन्यमन्यो धनोऽनंसीद्, वनान्ते तन्मुनिद्वयम्। तदप्यात्माशिष दत्वा, धनायागान्निजाश्रयम्॥५३|| रजन्यामथ सार्थेशो, गुरून्नन्तुमुपागमत्। गुरवो धर्ममादिक्षन, मोक्षसोपानपद्धतिम् / / 54|| गुरूपदेशपीयुष-प्रवाहेण प्रसप्ता। पूरितं सार्थपस्याभू-मानसं मानसोपमम्॥५५॥ गुरून्नत्वा महासत्वान्, भावनां भावयन्नथ। कृतार्थ मन्यमानः स्वं, सौवं धाम जगाम सः॥५६।। लब्धाधिकारप्राप्तोऽथ, शरत्कालो महीतले / यदच्युताः पलायन्त, वारिदाःसपरिच्छदाः॥५७|| सरितः पदेषु लग्ना, वहन्ति निरहंकृताः। जीवनाशं प्रणेशुश्च, मार्गरोधकृतो वहाः / / 58|| वक्षः पुस्फोट पङ्कस्य,स्वामिनो विरहे सति। कमलान्युल्लसन्ति स्म, गते वैरिणि वारिदे // 56 // मेघागमे निलीयास्था-दधुनार्कः प्रकट्यभूत्। नाप्रस्ताव स्फुरत्यत्र, तेजस्तेजस्विनामपि // 60 / / सार्थवाहश्वचालाथ, गुरवोऽपि सहाचलन्। महावटी समुत्तीर्णा, दुष्करं किं महीयसाम् // 61 / / अनुज्ञाप्याथ सार्थेशं, गुरवो ययुरन्यतः। सार्थवाहः पुनर्गच्छन्, वसन्तपुरमासदत्।।६।। क्रयविक्रयमाधाय, दिनैः कतिपयैर्धनः। प्रत्यावृत्त्यागमभूरि-लाभः स्वं नगरं पुनः॥६३|| चिरं प्रपाल्य सम्यक्त्वं, पूर्णायुः शुद्धभावनः / इहोत्तरकुरुक्षेत्रे, सविपद्योदपद्यत॥६४|| धनजीवो युग्मधा , तत्र वैषयिकं सुखम्। आस्वाद्य पुण्यशेषेण, सौधर्मे त्रिदशोऽभवत्॥६५॥ ततश्चयुतो धनजीवो, विदेहाः सपश्चिमे। विजये गन्धिलाक्त्यां , वैतादयगिरिमूर्द्धनि।।६६।।