________________ उसम 1142 - अभिधानराजेन्द्रः - भाग 2 उसम (7) ऋषभस्वामिनो विवाहः / (8) ऋषभस्वामिनो ऽपत्यानि। (8) ऋषभस्वामिनो नीतिव्यवस्था। (10) ऋषभस्वामिनो राज्याभिषेकः / (11) ऋषभस्वामिनो राज्यसंग्रहः। (12) ऋषभस्वामिनो लोकस्थितिनिबन्धनं शिल्पादिशिक्षणं च। (13) ऋषभस्वामिनो वासः। (14) ऋषभस्वामिपुत्रराज्याभिषेकः। (15) ऋषभस्वामिनो दीक्षाकल्याणकम् / (16) ऋषभस्वामिनश्चीवरधारित्वकालमानम् / (17) ऋषभस्वामिनो भिक्षाकालमानम्। (18) ऋषभस्वामिनः श्रेयांसेन भवाष्टककथनम्। (16) ऋषभस्वामिनः श्रामण्यानन्तरं प्रवर्तनप्रकारः। (20) ऋषभस्वामिनः श्रमण्यावस्थावर्णनम्। (21) ऋषभस्वामिनः केवलोत्पत्यनन्तरं धर्मकथनम्। (22) ऋषभस्वामिनो वन्दनार्थं मरुदेव्या सह भरतगमनम् भरत दिग्विजयश्च। (23) ब्राह्मणानामुत्पत्तिप्रकारः तीर्थकरबलदेव वासुदेवाश्च भविष्यन्ति नवेत्यादिप्रश्नकदम्बकञ्च। (24) ऋषभस्वामिनः सङ्घसंख्या। (25) ऋषभस्वामिनः श्रमणवर्णनम्। (26) ऋषभस्वामिनः केवलज्ञानोत्पत्त्यनन्तरं भव्यानां कियताकालेन सिद्धिगमनं प्रवृत्तं कियन्तं कालं यावदनुवृत्तम् / (27) ऋषभस्वामिनो जन्मकल्याणकादिनक्षत्राणि / (28) ऋषभस्वामिनः शरीरसंपत्-शरीरप्रमाणं कौमारे राज्ये गृहित्वे च यावान् कालस्तन्मानं च। (26) ऋषभस्वामिनो निर्वाणगमनं देवकृत्यवर्णनं च। (30) चितानन्तरं शक्रकृत्यवर्णनम्। (31) इक्ष्वाकूणामपरा चितिका भरतकारिता। (१)अथ श्रीऋषभदेवचरित्रं तत्र प्रथमतः पूर्वभवचरित्रमाह। नाभी विणयभूमी, मरुदेवी उत्तरा असाढाय। राया य वयरनाहो, विमाणसव्वट्ठसिद्धाओ॥६६|| धणमिहुणसुरमहब्बल-ललियंगयवयरजंघमिहुणे अ। सोहम्मविजअचुअ, चक्की सव्वट्ठउसमे अ॥९७|| धणसत्थवाहघोसण-जइगमणं अडविवासठाणं च। बहुवोलीणे वासे, चिंताघयदाणमासि तया||६|| उत्तरकुरुसोहम्मे, महाविदेहे महाबलो राया। ईसाणे ललियंगो, महाविदेहे वयरजंघो Hell उत्तरकुरुसोहम्मे, विदेहि चेगिच्छियस्स तत्थ सुओ। . रायसुअसिट्टिमचा-सत्थासुयआ वयस्सासे / / 100 / अथवा प्रतिपादितः कुलकरवंश इदानीं प्राक् सचितेक्ष्वाकुवंशः प्रतिपाद्यते। सच ऋषभनाथप्रभव इत्यतस्तद्वक्तव्यताऽभिधित्सयाऽऽह। नाभीगाहा।६६गमनिका इयम् / नियुक्तिगाथा प्रभूतार्थप्रतिपादिका अस्यां च प्रतिपदं क्रियाध्याहारः कार्यः। स चेत्थं नाभिरिति नाभिर्नाम कुलकरो बभूव / विनीता भूमीति तस्य विनीतभूमौ प्रायः अवस्थानमासीत्।मरुदेवीति तस्य भार्या राजाच प्राग्भवे वैरनाभः सन् प्रव्रज्यां गृहीत्वा तीर्थ-करनामगोत्रं कर्मबन्ध्वा मृत्वा सर्वार्थसिद्धिमवाप्य ततस्तस्या मरुदेव्यास्तस्यां विनीतभूमौ सर्वार्थसिद्धयादिमानादवतीर्य ऋषभनाथः संजातः तस्योत्तराषाढनक्षत्रमासीदिति गाथार्थः / 6.6 / इदानीं यः प्राग्भवे वैरनाभो यथा च तेन सम्यक्त्वमवाप्तं यावतो वा भवानवाप्तसम्यक्त्वः संसारं पर्यटितः यथा च तेन तीर्थकरनाम-गोत्रं कर्म बद्धमित्यमुमर्थमभिधित्सुराहा धणगाहा।।६७६८। उत्तरगाहा।६६। उत्तरकुरुगाहा / / 10 / / अन्या अप्युक्तसम्बन्धा एव द्रष्टव्या तावत्यावत 'पढमेण पच्छिमेण गाहा' किन्तु यथावसर-मसम्मोहनिमित्तमुपन्यास करिष्यामः। प्रथमगाथागमनिका।धनःसार्थवाहोघोषणं योनिगमनमरवी वर्षास्थानं च बहवो लीने वर्षे चिन्ता घृतदानमासीत्तदा / / 67|| द्वितीयगाथा गमनिका / उत्तरकुरौ सौधर्मे महाविदेहे महाबलो राजा ईशाने ललियङ्गो महाविदेहे च वैरजच इयमन्यकर्तकी गाथा सोपयोगा च / / 18 / / तृतीयगाथागमनिका उत्तरकुरौ सौधर्मे महाविदेहे चिकित्सकस्यतत्र सुतः राजसुतश्रेष्ठ्यमात्यसार्थवाहसुता वयस्याः (से) तस्य। आसां भावार्थः कथानका दवसेयः प्रतिपदं चानुरूपक्रियाध्याहारः कार्यः इति। यथाधनोनामसार्थवाह आसीत् स हि देशान्तर गुन्तुमना घोषणां कारितवानित्यादि कथानकम् आव०१अ०|| द्वीपोऽस्ति जम्बूद्वीपोऽत्र, सदा यः परिरभ्यते। अम्भोधिना चिरायात-मित्रवल्लहरीभुजैः / / 1 / / विदेहे पश्चिमासंस्थे, क्षितिमण्डलमण्डनम्। क्षितिप्रतिष्ठितं नाम, नगरं सुप्रतिष्ठितम् / / 2 / / प्रियंकरकरस्तत्र, राजा राजेव विश्रुतः। शुचिः कुबलयोल्लासी, प्रसन्नचन्द्रनामकः / / 3 / / आसीत्तत्र धनः सार्थ-वाहः पितृगृहं श्रियः। स षष्टित्रिशती संख्य-क्रयाणकमहाकरः // 4 // क्रयाणकानि संगृह्य, वाणिज्यार्थं कृतोद्यमः। सोऽपरेधुर्गन्तुकामो, वसन्तपुरपत्तनम्॥५।। सर्वलोकोपकाराय, सार्थवाहो धनस्तदा। आघोषयत्पुरे कृत्स्ने, भेरीवादनपूर्वकम्॥६॥ यो मया सममभ्येति, तस्य सर्वमहं ददे। क्रयाणान्यक्रयाणस्या-ऽवाहनानां च वाहनम् / / 7 / / सहायमसहायस्या-शम्बलानां च शम्बलम्। दस्युभ्यः श्वापदादिभ्य-स्त्रास्येऽहं पथि बन्धुवत्।।८।। अन्नैः पानैस्तथा वस्त्रैः , पात्रैरौषधभेषजैः। विसूरयति यो येन, सर्व यच्छामि तस्य तत्।।६।। तत् श्रुत्वा वणिजोऽनेके, संवहन्ति स्म सत्वरम्। व्यवहर्तुं परे भोक्तुं, दरिद्रद्रमकादयः॥१०॥ प्रस्थानं सुमुहूर्तेऽथ, सार्थवाहो विनिर्ममे। भाविमङ्गलसंसूचि-विहितानेकमङ्गलः।।११।। अत्रान्तरे धर्मघोषाऽऽचार्यः सूर्य इवापरः। पादैः पवित्रयन भूमि, दीप्यमानस्तपस्त्विषा / / 12 / / तमागच्छन्तमालोक्य, सद्वक्त्रानन्दकारकम्। सार्थवाहो नमस्कृत्य, प्रस्फुटत्कटको द्विधा / / 13 / / उपवेश्यासने प्राक्षीद्-गुरोर्गमनकारणम्। वसन्तपुरमेष्याम-स्त्वया सहेति तेऽभ्यधुः।।१४|| श्रुत्वा तान् सार्थपो भक्त्या, सूदानिति समादिशत्। सम्पाद्यमन्नपानाद्य-मेषान्निःशेषमन्वहम्॥१५॥ आचार्या अपि तस्याख्यन्, शुद्धिमाहारगोचराम्। तदा च कोऽपि पक्कामस्थालं तस्योपनीतवान्॥१६||