________________ उवासगपडिमा 1132 - अभिधानराजेन्द्रः - भाग 2 उवासगपडिमा यति परिहरतीत्य प्रत्युपेक्षितमनिरीक्षितंदुष्प्रत्युपेक्षितंदुर्निरीक्षितं शय्या शयनं तदर्थः संस्तारकः कम्बल्यादिखण्डम् अथवा शय्या वसतिः / सर्वाङ्गीणशयनं वा संस्तारकश्च ततो लघुतर इति समाहारद्वन्द्वात् शय्यासंस्तारकः / आदिशब्दादप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारकमप्रत्युपेक्षितदुष्प्रत्युपेक्षितोचारप्रश्रवणभूमिमप्रमार्जितदुष्प्र-- मार्जितोचारप्रश्रवणभूमिं चेति सम्यग्यथागमं चाननुपालनमवधावनभोजनाद्यौत्सुक्यादिभिराहारादिष्विति / सप्तम्याः षष्ठ्यर्थत्वात् आहारशरीरसत्कारब्रह्मचर्या व्यापारपोषधानामेतस्मिन्निति पोषधे वर्जयतीति प्रकृतमिति। तदेवमियं पोषधप्रतिमा ग्रन्थान्तराभिप्रायेणाष्टम्यादिपर्वसुसंपूर्णपोषधानुपालनारूपोत्कर्षतश्चतुर्मासप्रमाणा भवतीति गाथार्थः। अथ पञ्चमी। आहावरा पंचमा उवासगपडिमा सव्वधम्मरुइया विभवति तस्स णं बहुई सील जाव सम्म पडिलेहिताई भवति से णं चाउद्दसिं तहेव से णं एगराईयं उवासगपडिमं सम्मं अणुपालित्ता भवति सेणं असिणाणविपडभोई मउलियडे दिया बंभचारी रत्तिं परिमाणकडे सेणं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाह वा दुवाहं वा तियहिं वा उक्कोसेणं पंचमासे विहरेजा पंचमा उवासगपडिमा।। सव्वधम्मेत्यादि व्यक्तम् (असिणाणेत्ति) न स्नाति स्नानं न करोति (वियडभोइत्ति) प्रकाशभोजीन रात्रौ भुङ्क्ते अप्रकाशे वा यतो ये दोषाः पिपालिकाद्युपघातरूपाः रात्रौ भवन्तितएवान्ध-कारभोजने इति प्रवादः तेन प्रकाशभोजी भवति (मउलिकडेत्ति) परिधानवाससो वलद्वयकटीप्रदेशेनावलम्बयति अग्रे पृष्ठेच उन्मुक्तकच्छो भवतीत्यर्थः यावन्मासपञ्चमं तत्परिसमाप्यते तावदिया ब्रह्मचारी (से णमित्यादि) स इत्यनिर्दिष्टनामा एतद्रूपेण विहारेण प्रतिमाचरणरूपेण विचरन् एकाहमेकदिवसं वाशब्दः परापरभेदसूचकः एवं व्यहं त्र्यहं उत्कर्षतो यावत्पञ्चमासास्तावद्विहरति तत्रैकाहं यदि अङ्गीकृत्य प्रतिकारं कुर्यात् असामर्थ्याद्वा अन्तराले एव त्यजेत् कोऽपि तत उक्तमेकाहं चेत्यादि इतरथा तु सम्पूर्णोऽपि भवति पूर्वोक्तः प्रतिमाचतुष्टयस्याचारोऽत्रापि द्रष्टव्यः दिवा रात्रौ च ब्रह्मचारी भवति एवमुत्तरत्रापि पूर्ववत् प्रतिमाचारोऽवि वाच्य इति पञ्चम्युपासकप्रतिमा / क्वचित् "अहासुत्ता' इत्यादि पाठस्तत्र (अहासुत्ता इति) सामान्यसूत्रानतिक्रमेण (अहाकप्पा इति) प्रतिमाकल्पानतिक्रमेण कल्पे वस्त्वनतिक्रमेणं वा (अहामग्गो इति) ज्ञानादिमोक्षमार्गानतिक्रमेण क्षयोपशमिकभावानतिक्रमेण वा (अहातच्या इति) यथा तत्वं तत्वानतिक्रमेण पञ्चमासिकी श्रावकप्रतिमा इति शब्दार्थानतिलनेनेत्यर्थः(जहा सम्मइति) समभावानतिक्रमेण (काएकति)न मनोरथमात्रेण (फासेइत्ति) उचितकाले विधिना ग्रहणात् (पालेइत्ति) असकृदुपयोगेन प्रतिजागरणात् शोधयति वा अतिचारपञ्चक्षालनात् (तीरे त्ति) पूर्णेऽपि तदवधौ तत्कृत्यपरिमाणपूरणात् (किट्टइत्ति) कीर्तयति पारणकदिने इदं चदं चैतस्याः कृत्यं तच्च मया कृतमित्येवं कीर्तनात्। (अणुपालेइत्ति) तत्समाप्तौ तदनुमोदनात् किमुक्तं भवतीत्याह आज्ञया आराधयतीति पञ्चमयुपासकप्रतिमा / दशा०६ अ० आ० चू०। (पंचमंति) पञ्चमी प्रतिमा प्रतिमा कायोत्सर्गप्रतिमा- | मित्यर्थः। स्वरूपंचास्याः "सम्माणुव्वयगुणवयसिक्खावयं वा थिरो य नाणी य / अट्ठमिचतुद्दसीपडिमाए एगराईयं / (असिणाणवियडभोई) अस्नानोऽरात्रिभोजी चेत्यर्थः (मउलिकडो) मुक्तकच्छ इत्यर्थः। दिवसबंभयारियं राइपरिमाणकडो पडिमावज्जेसु दियहेसुज्झाय-- पडिमाइठिओ तिलोयपुजे जियकसाये नियोसपचणीयं अण्णं वा पंच जामासा" उपा०१ अ० अथ प्रतिमाप्रतिमास्वरूपमाह। सम्ममणुव्वयगुणवय-सिक्खावयवं थिरो य णाणी य। अट्ठम्मिचउद्दसीसुं, पडिमंठा एगरातीयं // 17 // सम्यक्त्वमणुव्रतगुणव्रतशिक्षाव्रतपदानि प्रतीतानि यस्य सन्तिसतद्वान् पूर्वोक्तप्रतिमाचतुष्कयुक्त इत्यर्थः। सोऽपि स्थिरोऽविचलसत्व इतरो हि तद्विराधको भवति यतः सा (पडिमा) रात्रौ चतुष्पदादौ च विधीयते तत्र चोपसर्गाः संभवन्तीति ज्ञानी च ज्ञाता प्रतिमाकल्पादेरज्ञानो हि सर्वत्राप्ययोग्यः किं पुनर स्यामिति चशब्दः समुचयार्थो ऽष्टमीचतुर्दश्योः प्रतीतयोः उपलक्षणत्वादस्य पोषधदिवसेष्विति दृश्यं प्रमाणकायोत्सर्ग वा करोतीत्यर्थः / किं प्रमाणमित्याह / एका रात्रिः परिमाणमस्या इत्येकरात्रिकी सर्वरात्रिकी प्राप्ता प्रतिमाप्रतिमा भवतीति शेष इति गाथार्थः। शेषदिनेषु यादृशोऽसौ भवति तद्दर्शयितुमाह। असिणाणवियडभोई,मउलियडो दियसबभयारी य। रत्तिं परिमाणकडो, पडिमावळेसु दियहेसु॥१८|| अस्नानो अविद्यमानस्नानः विकटे प्रकटे दिवसे न रात्रावितिं यावद् भोक्तुं शीलमस्येति विकटभोजी चतुर्विधाहाररात्रिभोजन-वर्जकः। ततः पूर्वपदेन सह कर्मधारयः / तथा मौलिकृतः अबद्धकच्छस्तथा दिवसे ब्रह्म चरतीत्येवंशीलो दिवसब्रह्मचारी चशब्दः समुचये तथा (रत्तिमिति) विभक्तिपरिणामाद्रात्रौ रजन्यां परिमाणकृतः मैथुनसेवनं प्रति कृतयोषिद्भोगपरिमाणः कदेत्याह प्रतिमावर्जेष्वपर्वस्वित्यर्थो दिवसेषु दिनेषूक्तव्याख्यानसंवादिनी चेयं गाथा यदुक्तम् "असिणाण वियडभोई, पगासभोइत्ति जं भणियं होई / दिवसेउ न ति भुंजे, मउलियकडो कच्छमविराधं" कच्छानारोपयतीत्यर्थः / इति गाथार्थः। अथ यत् कायोत्सर्गस्थितश्चिन्तयति तदाह। झायइ पडिमाए ठिओ, तिलोगपुळे जिणे जियकसाए। णियदोसपचणीयं, अण्णं वा पंचजा मासा // 19 // ध्यायति चिन्तयति प्रतिमायां कायोत्सर्गस्थितोऽवस्थितस्त्रिलोकपूज्यान् भुवनत्रयार्चनीयान् जिनानहतो जिनकषायान्निराकृतक्रोधादिभावान् तथा निजदोषप्रत्यनीकं स्वकीयरागादिदूषणप्रतिपक्षं कामनिन्दादिकमन्यजनापेक्षयाऽपरम् / वाशब्दो विकल्पार्थः किंप्रमाणेयं पञ्चमी प्रतिमा स्यादित्याह पञ्च यावन्मासानेषोत्कर्षण भवतीति गाथार्थः / उक्ता पञ्चमी। पंचा०१० विवा अथ षष्ठी प्रतिमामाह। सव्वधम्मजाव सणं एगराईयं उवासगपडिमाणुपालेत्ता भवति से णं असिणाणए वियडभोई मउलियडे दिया वा राओ वा बंभचारी सचित्ताहारे से परिण्णावेन भवति से णं एतारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाह वा उकोसेणं छम्मासे विहरेजा छट्ठा उवासगपडिमा।।६।।