________________ उवासगपडिमा 1133 - अभिधानराजेन्द्रः - भाग 2 उवासगपडिमा शेष व्यक्तं रात्रिभोजनादुपरतो भवति (रत्तो रातंति) रात्री दिवा ब्रह्मचर्ययुक्तो भवति 'सचित्ताहारे इत्यादि सचित्ताः सचेतना जीवसहिता इति यावत् परिज्ञया आहारितः सन् कर्मबन्धकारणत्वेन परं प्रत्याख्यानपरिज्ञया प्रत्याख्यातः 'एतारूपेण' पूर्ववत् एवमुत्तरोत्तरप्रतिभासु मासा वाच्या यथासंख्यं मासा इति षष्ठी। दशा०६ अाआ०चूला षष्ठी अब्रह्मवर्जनप्रतिमा तत्स्व रूपं चैवम्। पुष्वोइय गुणजुत्तो, विसेसओ विजियमोहणिज्जोय। वजइ अबंभमेगं-तओ उरायं पिथिरचित्ते // 20 // पूर्वोदितगुणयुक्तः / प्रागुक्ता ये स्नानविकटभोजनादयः सम्यक्त्वव्रतसामायिकपोषधप्रतिमाख्या वा ये गुणास्तैर्युक्तः पूर्वोदितगुणयुक्तत्वं च नास्यामेवापि तु सर्वासु व्रतादिप्रतिमासु द्रष्टव्यं दशादिषु तथोक्तत्वात् विशेषतो विशेषेण पञ्चमप्रतिमापेक्षयाविजितमोहनीयो निराकृतकामोदयश्चशब्दः समुच्चये श्रावक इतिगम्यते किमित्याह वर्जयति परिहरति अब्रह्ममैथुनमेकान्ततस्तु सर्वथैव (राइं पित्ति) सर्वरजनीमप्यास्तां सर्वदिनंषष्ठप्रतिमास्थित इति शेषः। अयमेवचपञ्चम्याः षट्याश्च प्रतिमाया विशेष इति स्थिरचित्तोऽप्रकम्पमानसः सन्निति गाथार्थः / अथ स्थिरचित्तोपायानाह। सिंगारकहाविरओ, इत्थीए समं रहम्मि णो ठाइ। चयइ य अतिप्पसंगं, तहा विभूसंच उक्कोसं॥१२॥ शृङ्गारकथाविरतः कामकथानिवृत्तः / तथा स्त्रियायोषिता समं सह रहस्येकान्ते नो तिष्ठति नास्ते रहः स्थानस्य चित्तविप्लुतिनिमित्तत्वाद्यतो लौकिका अप्याहुः "मात्रा स्वस्रा दुहित्रा वा नो विविक्तासनो भवेत्। बलवात्रिन्द्रियग्रामः, पण्डितोप्यत्र मुह्यति' तथा त्यजति वर्जयति चातिप्रसङ्गमतिपरिचयं स्त्रिया सममिति वर्तते यतः "वशीकुर्वन्ति ये लोका मृगान् दर्शनतन्तुना / संसर्गवागुराभिस्ते, स्त्रीव्याधाः किन्न कुर्वते" तथेति वाक्यान्तरोपक्षेपार्थ / विभूषां स्वशरीरसत्कारमलङ्काराङ्गदादिभिश्वः समुच्चये उत्कर्षामुत्कृष्टां त्यजतीति वर्तते उत्कर्षग्रहणाच्छरीरस्थितिमात्रानुगां करोत्यपीति गाथार्थः।। इहैव कालमानमाह॥ एवं जा छम्मासा, एसो हि गतो इहरहा दिटुं। जावजीवं पि इम, वजइ एयम्मि लोगम्मि।।२२।। एवमुक्तनीत्या शृङ्गारकथाविरमणादिलक्षणया (जा इति) यावत् षण्मासान् / कालपरिमाणविशेषानुत्कर्षतो वर्जयत्यब्रोति वर्तते एष श्रावकोऽधिकृतस्तु षष्ठप्रतिमाप्रतिपन्न एव / अवधारणफलमाह / इतरथाऽन्यथा षष्ठप्रतिमाप्रतिपन्नकादन्यत्रेत्यर्थः। दृष्टमवलोकितं किं तदित्याह / यावजीवमप्याजन्माप्यास्तां षण्मासान् यावदिदमब्रह्म वर्जयति परिहरतीत्येतत्क्क दृष्टमित्याह / एतस्मिन् प्रत्यक्षलोके श्रावकलोक इति गाथार्थः / यत्कुर्वाणस्य षष्ठी भवति तदुक्तम् / पंचा० १०विव० उपा०। अथ सप्तमीमुपासकप्रतिमामाह। सव्वधम्म जाव रातो व राई बम्हयारी सचित्ताहारे परिण्णाते भवति आरंभे अपरिणाए भवति से णं एतारूपेणं विहारेणं विहरमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं सत्तमासे विहरेजा सत्तमा उवासगपडिमा। अथापरा सप्तमी नवरं परिज्ञातः प्रत्याख्यात आरम्भश्चापरिज्ञातो भवति करणकारापणानुमोदनत्रिवित्रेनापि करणेन। दशा०६ अ० आ० चू०। अथ यत्कुर्वतः सप्तमी भवति तद्दर्शयन्नाह। सचित्तं आहारं, वज्जइ असणादियं णिरवसेसं। असणे चाउलोविग-चणगादी सव्वहा सम्मं // 23 // सचित्तं विद्यमानचैतन्यमाहारं भोजनं वर्जयति परिहरते / अशनादिकमशनप्रभृतिकं चतुर्भेद निरवशेषं सर्वं सप्तमप्रतिमास्थित इति शेषः / तत्राशने आहारविशेष विषयभूते तन्दुलोविक चणकादि प्रतीतमादिशब्दादमिलादिपरिग्रहः / कार्य वर्जयतीत्याह / सर्वथा अपक्कदुष्पक्वौषध्यादिवर्जनत इत्यर्थः सम्यग्भावाशुद्धेति गाथार्थः। तथा। पाणे आउक्कायं, सच्चित्तरससंजुअंतहण्णं पि। पंचोदुंवरिककंडि-गाइय तह खाइमे सव्वं / / 24 / / पाने पानकाहारे अप्कायमप्रासुकोदकं सचित्तरससंयुतं तत्कालपतितत्वेन सचेतनलवणादिरसोन्मिभं तथेति समुच्चये अन्यदप्यप्कायादपरमपि काञ्जिकादिपानकाहारं वर्जयति न केवलमप्यकायमेवेति / तथा पञ्चानामुदुम्बराणामुदुम्बरसमानधर्माणां समाहारः पञ्चोदुम्बरी सा च स्वरूपेण त्रसकायिकैश्च सचेतना भवतीति पञ्चोदुम्बरी च कर्कटिकाश्च चिर्भिटिका आदिर्यस्य खादिमस्य तत्तथा। चः समुच्चये तथेति वाक्यान्तरोपक्षेपार्थः स च गाथोत्तरार्द्धस्यादौ दृश्यः खादिमे आहारविशेषे विषयभूते सर्वं समस्तं सचित्तं वर्जयतीति प्रकृतमिति गाथार्थः। दंतवणं तंबोलं, हरेडगादीय साइमे सेसं। सेसपयसमाउत्तो,जामासासत्तविहिपुव्वं / / 2 / / दन्तधावनं दशनकाष्ठं ताम्बूलं प्रतीतं हरीतक्यादि च पथ्याप्रभृति च स्वादिमे स्वादिमाहारविषये अशेषं सर्व सचित्तं वर्जयतीति प्रकृतम्। किंभूतः सन्नित्याह शेषपदसमायुक्तो दर्शनादिगुणयुक्तः कियन्तं कालं वर्जयतीत्याह यावन्मासान् कालविशेषान् सप्तोत्कृष्टतो विधिपूर्वकमागमिकन्यायपुरस्सरं नतु यदृच्छयेतिगाथार्थः / उक्ता सप्तमीति। पंचा० 10 विव०। उपा० अथाष्टमीमुपासकप्रतिमामाह। अट्ठमा उवासगपडिमा सव्वधम्मरुईआ विभवति जाव दियाओ वा रायं बंभचारी सचित्ताहारे से परिण्णाए भवति आरंभे से परिणाए भवति पेस्सारंमा अपरिण्णाए भवति से णं एयारूवेणं विहारेणं विहरमाणा जाव एगाहं वादुगाहं वा तिगाहं वा उक्कोसेणं अट्ठमास विहरेज्जा अट्ठमा उवासगपडिमा।। अष्टम्यां स्वयंकरणमाश्रित्यारम्भः परिज्ञातो भवति प्रेष्यारम्भोऽन्येषामादेशदानतः कारापणान्न निवृत्त इत्यष्टमी। दशा०६ अ० आ० चू०। अष्टमी स्वयमारम्भवर्जनप्रतिमा। अथ यथा वर्तमानस्याष्टमी भवति तथा दर्शयन्नाह॥ वनइ सयमारंभ, सावज कारवेइ पेसेहिं। पुस्वप्प ओगओ चिय, वित्तिणिमित्तं सिढिलभावो॥२६|| वर्जयति परिहरति स्वयमात्मना स्वयंकरणत इत्यर्थः / आरम्भ व्यापारं सावधं सपापं कृष्यादिकमित्यर्थः / स्वयमिति वच