________________ उवासगपडिमा 1130- अभिधानराजेन्द्रः - भाग 2 उवासगपडिमा तद्योजनीयमस्येति न तस्य किंचित्राणं भवति / एवं मिथ्यात्वयुक्तजीववर्णनमुक्त्वा यदा कदाचित् सम्यक्त्वमाप्नोति तदा यादृशः स्यात् तथाह (सेत्तमित्यादि) स क्रियावादी वाऽपि भवति यथा पूर्वव्याख्यातंतथोत्तरत्रापि व्यत्ययेन व्याख्येयम्। एवं यदा स आस्तिको भवति तदा स सम्यग्दृष्टिर्भवतियावदुत्तरगामुकः शुक्लपाक्षिको देवादिषु उत्पद्यते आगामिनि काले च सुलभधर्मप्रतिपत्तिर्भवति स क्रियावादी सत्यधर्मरुचिश्चापि भवति सद्भ्यो हितः च चासौ धर्मः क्षान्त्यादिकस्तद्रुचिरित्यर्थः / क्वचित् "सच्चधम्मरुईत्ति" पाठः / तत्र धर्मः स्वभाव इत्यनान्तरं जीवाजीवयोर्यस्य तद्रूपस्य गतिः स्थित्यवगाहनादिका। अथवा सर्वे धर्माः आज्ञाग्राह्याः हेतुग्राह्यश्च तान् श्रद्धत्ते सम्यक्तया मन्यते परं तस्य णमिति वाक्यालंकारे (बहूई सीलव्वयेत्यादि)शीलव्रतान्यणुव्रतानि गुणव्रतानि विरमणानि औचित्येन रागादिनिवृत्तयः प्रत्याख्यानानि पौरुष्यादीनि पौषध अवश्यतया पर्वदिनानुष्ठानंतत्रापवासोऽवस्थानं पौषधोपवासः एषांद्वन्द्वएतेनो निषेधे सम्यग् यथा भवन्ति तथा प्रस्थापिता भवन्ति न स्वचेतसि नियततया कर्त्तव्यत्वेन व्यवस्थापिता भवन्ति / एवमनुना प्रकारेण दर्शनश्रावको भवति / दर्शनं नाम सम्यक्त्वं तदाश्रित्य श्रावको भवति / ननु तथाविधविरतिं विना कथं श्रावको भवति उच्यते वस्तुव्रतान्यपि न सम्यक्त्वं विना भवन्ति यतः "नत्थि चरित्तं सम्मत्तवज्जियं" इत्यादि वचनात्। सम्यक्त्वं व्रतमेव अथवा सम्यक्त्वं तु पञ्चसंव-रद्वाराणामाद्यं संवरद्वारं ततः सम्यक्वे श्रावको भवत्येवेति मात्र संशयः।इदं च सम्यक् श्रद्धानरूपा प्रथमा आद्या उपाशकप्रतिमा दशा०६ अ० आ०चूला अथ दर्शनप्रतिमास्वरूपनिरूपणायाह। दारं दंसणधो अविच्छेदः शुभानुबन्धः सोऽस्यास्तीति शुभानुबन्धी। तथा निरतिचारः शङ्काकासादिदर्शनातिक्रमरहित इति तदेवमितो ग्रन्थात् दर्शनप्रतिपत्तिमात्रं निरतिचारसम्यक्त्वसद्भावावधिकं प्रतिमेत्यवसीयते। उपासकदशासु पुनरानन्दादीनां प्रतिमाकारिश्रावकाणां पूर्व प्रतिपन्नदर्शनव्रतानां प्रतिमैकादशकस्य प्रतिपत्तिर्वर्णिता तत्प्रमाणं च सार्द्ध वर्षपञ्चकमित्यतोऽनुमीयते दर्शनप्रतिपत्तिमात्रादतिरिक्तस्वभावा सा तदतिरेकश्वेह राजाभियोगाद्याकारषट्कवर्जनं यथावत्समग्रदर्शनाचारपालनादिभिः संभाव्यते कालमानं चास्यामेको मासो यत एकादिकयैकोत्तरया वृद्ध्यैकादशसु प्रतिमासु यथोक्तं कालमानं भवतीति गाथार्थः / अथ दशाश्रुतस्कन्धादिषु प्रतिमाशब्दोऽभिग्रहार्थो व्याख्यातः। इह पुनः कस्मात्तद्व्याख्यानत्यागेन शरीरार्थो व्याख्यात इत्याशङ्क्याह / वोंदी य एत्थ पडिमा, विसिट्टाणजीवलोगओ भणिया। ता एरिसगुणजोगा, होउसोक्खावणस्थित्ति॥७॥ वोन्दिश्च तनुः पुनरत्र प्रकरणे ग्रन्थान्तरे त्वभिग्रहः प्रतिमा प्रतिमेति शब्देन भणितोक्ता किमर्थमिति चेदुच्यते विशिष्टगुणः संसाराभिनन्दिसत्वापेक्षया मार्गादिसुखादिः स चासौ जीवलोकश्च सत्वलोको विशिष्टगुणजीवलोकस्तस्मात्सकाशात् शुभसुप्रशस्त एव संदर्शनप्रतिमावानिति ख्यापनार्थमेतत्प्रतिपादनायेति। कुतः पुनः स शुभ इत्याह। तयेदृशगुणयोगात्तया वोन्द्या हेतुभूतया य ईदृशगुणयोगः प्रागुक्तदर्शनप्रतिमागुणसंबन्धस्तस्मात्तवेदृशगुणयोगादित्येतस्य संस्कृतस्यच स्थाने "ता एरिसगुणयोगा'' इति प्राकृतं न विरुद्धमेवं विधप्रयोगाणामनेकशो दर्शनादिति / इदमुक्तं भवति / आस्तिक्यगुरुदेववैयावृत्त्यनियमादि भिर्गुणैर्गुणिलोकात् शुभतरः प्रतिमागुणवांस्तत्सूचकाय क्रियारूपास्तदभिव्यङ्गाश्च वर्तन्ते ततस्तेषां तदभिव्यक्तेश्च वोन्दिहेतुकत्वात् वोन्दिमतः प्रतिमावतः प्राधान्यमिति ख्यापनाय वोन्दीप्रतिमेत्युक्तमिति गाथार्थः। एवं तावदर्शनप्रतिमाशब्दस्याभिधेयमभिधाय शेषप्रतिमासु तदतिदेश व्रतप्रतिमास्वरूपं चाह। एवं वयमाईसु वि, दट्ठव्वमिणं तिणवरमेत्थ वया। घेप्यं नणुष्वया खलु,थूलगपाणवहविरयादी॥८|| एवमनेनैव प्रकारेण दर्शनप्रतिमोक्तेन व्रतादिष्वपि व्रतसामायिकप्रभृतिषु सर्वप्रतिमासुन केवलं दर्शनप्रतिमायामेव द्रष्टव्यमवसेयम्। इदं च प्रतिमाशब्दस्याभिधेयमितिशब्दो वाक्यार्थसमाप्तौ एवमतिदेशद्वारेण सामान्यतो व्रतादिप्रतिमा व्याख्याय विशेषव्याख्यानार्थमाह / नवरं केवलमत्र व्रतप्रतिमायां व्रतान्यनिग्रहाः (घेप्पंति ति) गृह्यन्ते आद्रियन्ते अणुव्रतानि खलु देशमूलगुणा एव खलुरवधारणे किं स्वरूपाणि तानीत्याह स्थूलकप्राणवधविरत्यादीनि असूक्ष्मसत्वहिंसाविरमणप्रभृतीनीत्यादिशब्दात् स्थूलक मृषावादविरत्यादिपरिग्रह इति गाथार्थः / अथ तानि यदा भवन्ति तत्स्वरूपाणि चेत्येतद्दर्शनार्थमाह। सम्मत्तोवरि ते सेस-कम्मुणो अवगए पुहत्तम्मि। पिलियाणं होति णियमा, सुहाय परिणामरूवाउक्षा सम्यक्त्वोपरि सम्यक्त्वलाभकालस्यार्द्ध ते इति तान्यणुव्रतानि शेषकर्मणः सम्यक्त्वलाभकाले यत् क्षपितं तदपेक्षया शेषस्य देशोनसागरोपमकोटाकोटीप्रमाणस्य मोहनीयादिकर्मस्थितिबन्ध-- लक्षणस्यापगते क्षीणे पृथक्त्वे द्विप्रभृतिकेन चान्ते संख्याविशेषे केषामित्याह / पल्यानां पल्योपमानां भवन्ति जायन्ते नियमादवश्यतया। तथा शुभात्मपरिणामरूपाणि तु प्रशस्तजीवाध्यवसायस्वभावान्येव क्षायोपशमिकत्वादिति गाथार्थः / __ तेषां शुभात्मपरिणामस्वरूपत्वादेव यत्स्यात्तदाह / बंधादि असक्किरिया, संतेसु इमेसु पहवइण पायं / अणुकंपधम्मसवणा-दिया उपहवति विसेसेण / / 10|| बन्धादिर्बन्धविच्छेदप्रभृतिरसत्क्रिया अशोभना चेष्टा प्रतिव्रतमतिचारपञ्चकरूपा सत्सु विद्यमानेष्वणुव्रतेषु प्रभवति जायते।नचैवं प्रायो बाहुल्येन प्रमादादिना कदाचित्स्यादप्रीतिः प्रायोग्रहणमनुकम्पाधर्मश्रवणादिकानुजीवदयाधर्मशास्त्राकर्णनप्रभृतिका पुनः क्रियेति प्रकृतं प्रभवति जायते / विशेषेण सुतरां दर्शनप्रतिमापेक्षया व्रतमात्रापेक्षया चेति। तदेवं व्रतप्रतिमा निरतिचारपञ्चाणुव्रतपालनरूपा उपासकदशाभिप्रायेण चार्थापत्तेर्लभ्यते मासद्वयमानेनातोऽन्यत्र व्रतमात्रमेवेति गाथार्थः। पंचा० 10 विवा सांप्रतं द्वितीयप्रतिमास्वरूपमुच्यते। अहावरा दोचा उवासगपडिमा सव्वधम्मरुईया वि भवति तस्स णं बहूई सीलव्वयगुणव्वयवेरमणपोसहोववासाई पट्ठ-विताई भवंति से णं सामाइयदेसावकासियं णो सम्मं पालित्ता भवति दोचा उवासगपडिमा॥२॥ अथेत्यानन्तर्ये अपरा अन्या उवासगेत्यादि व्यक्तं शीलवतादीनि च प्रस्थापितानि भवन्ति एतावता विरतिमान् भवति परं स न सामायिकं देशावकाशिकं च सम्यग्यथा भवत्यतिचाररहि