________________ उवासगपडिमा 1129 - अभिधानराजेन्द्रः - भाग 2 उवासगपडिमा मूर्छितः गृद्धो ग्रथितः अध्युपपन्नः एते च शक्रपुरंदरादिवत्पर्यायाः कथञ्चिदभेदं वाऽऽश्रित्य व्याख्येयाः। एतच्च स्त्रीपुंशब्दादिषु च प्रवर्तनं प्रायः प्राणिर्बद्धस्पृष्टप्रकारादिभिर्बद्धस्पृष्टनिधत्तनिकाचनावस्थानि विधाय तेन च संभारकृतेन कर्मणा प्रेर्यमाणस्तत्र कर्मगुरुर्नरकतलप्रविष्टानो भवतीति। अस्मिन्नेवार्थे सर्वलोकप्रतीतं दृष्टान्तमाह (से जहा णामए इत्यादि) तद्यथा नामायोगोलकोऽयः पिण्डः शिलागोलको वृत्ताश्मशकलं वोदके प्रक्षिप्तः समानसलिलतलमतिवातिलच्याधोधरणितलप्रतिष्ठानो भवति / अधुना दार्शन्तिकमाह / "एवमेवेत्यादि' यथाऽसावयोगोलको वृत्तत्वात् शीघ्रमेवाधो यात्येवमेव तथा प्रकारः पुरुजातस्तमेव लेशतो दर्शयति वज्रवद् वजं गुरुत्वात् कर्म तद्रहुलस्तत्प्रचुरो वध्यमान-कर्मगुरुरित्यर्थः / तथा धूयत इति धूनं प्रारबद्धं कर्म तत्प्रचुरः पुनः सामान्येनाह (पंकयतीत्ति) पकं पापं तबहुलस्तथा तदेव कारणतो दर्शयितुमाह। वैरबहुलो वैरानुबन्धप्रचुरस्तथाऽप्यतियन्ति मनसो दुष्प्रणिधानं तत्प्रधानस्तथा दम्भो मायया परवञ्चनं तदुत्कटः / तथा निकृतिर्मायावेषभाषापरावृत्तिच्छद्मना परद्रोहबुद्धिस्तन्मयः। तथा (सातिबहुल इति) सातिशयेन द्रव्येण परस्य हीनगुणस्य द्रव्यस्य संयोगः सातिस्तद्हुलस्तत्करणप्रचुरस्तथा क्वचित् आसायणबहुलेति पाठः तत्राशातना पूर्वोक्तार्थो पाठसिद्धा तया बहुलोऽतिप्रचुरत्वादश्लाघ्योऽसवृत्ततया निन्दाशया रत्नप्रभादिकायास्तलमतितिष्ठति / परापकारभूतानि काण्यनुष्ठानानि विधत्ते तेषु तेषुच कार्मसुकरचरणच्छेदनादिष्वयशोभाग् भवति स एवंभूतः पुरुषः (कालमासेत्ति) स्वायुषः क्षये कालं कृत्वा पृथिव्याः रत्नप्रभादिकायास्तलमतिवर्त्य योजनसहस्रपरिमाणमतिलय नरकतलप्रतिष्ठानोऽसौ भवति। नरकस्वरूपप्ररूपणयाह।"तेणमित्यादि" णमिति वाक्यालङ्कारे ते नरकाः सीमन्तादयः बाहुल्यमङ्गीकृत्यान्तर्मध्यभागे वृत्ताकाराः बहिगि चतुरस्राकाराः इदंच पीठोपरिवर्तिनं मध्यभागमधिकृत्योच्यते सकलपीठाद्यपे-क्षया त्वावलिकाप्रविष्टा वृत्तास्त्र्यस्रचतुरस्रसंस्थानाः पुष्पावकीर्णास्तु नानासंस्थानां प्रतिपत्तव्याः (अहेखुरस्य संठाणा संठियाइत्ति) अधो भूमितले क्षुरप्रस्येव प्रहरणविशेषस्य यत्संस्थानमाकारविशेषस्तीक्ष्णमालक्षणस्तेन संस्थितास्तथाहि तेषु नरकावासेषु भूमि तले मसृणत्वाभावतः शर्कराप्रचुरेभूभागे पादेषु न्यस्यमानेषु शर्करामात्रसंस्पर्शऽपि क्षुरप्रेणेव पादाः कृत्यन्ते (निचंधयारतमसा इत्ति) तमसा नित्यान्धकाराः उद्योताभावतो यत्तमस्तदिह तम उच्यते तेन तमसा नित्यं सर्वकालमन्धकाराः तत्राप्यवर्गादिष्वपि नामान्धकारोऽस्ति केवलं बहिः सूर्यप्रकाशेमन्दतमो भवति नरकेषुतीर्थकरजन्मदीक्षादिकालव्यतिरेकेणान्यदा सर्वकालमपि उद्योतलेशस्याभावतो जात्यन्धस्येव मेघच्छ-नकालार्द्धरात्र इव चातीव बहलतरोवर्ततेतत उक्तं तमसा नित्यान्धकाराः तमश्च तत्र सदाऽवस्थितमुद्योतकराणामसंभवात् / तथा चाह / "ववगयगहचंदसूरनक्खत्तजोइसियपहा" व्यपगतः परिभ्रष्टो ग्रहचन्द्रसूर्यनक्षत्ररूपाणामुपलक्षणमेतत् तारारूपाणां च ज्योतिष्काणां पन्था मार्गो येभ्यस्ते व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्कपथाः तथा पुनरप्यनिष्टोपादानार्थ तेषामेव विशेषणमाह / "मेयवसेत्यादि'' दुष्कृतकर्मकारिणां तेषां दुःखोत्पादनायैवंभूता भवन्ति / तद्यथा स्वभावसंपन्नैर्मेदोवसामांसरुधिरपूयादीनां पटलानि सङ्घास्तैर्लिप्तानि पिच्छिलीकृतान्यनुलेपन प्रधानानि येषां ते तथा अथवा मेदोवसामांसरुधिरपूतिपटलैर्थचिक्खल्लं कर्दमस्तेन लिप्तमुपदिग्धमनुलेपनेन सततलिप्तस्य पुनः पुनरुपलेपनेन तलं भूमिका येषां ते मेदोक्सालिप्तरुधिरमांसचिक्खल्ललिप्तानुलेपनतलाः अत एवाऽशुचयो विष्ठासृक्क्लेदप्रधानत्वात् अत एवंविधाः कुथितमांसादिकल्पकर्दमविलिप्तत्वात्क्वचित् 'वीभच्छा' इति पाठः तत्र वीभत्सा दर्शनेऽप्यतिजुगुप्सोत्पत्तेः / एवं परमदुरभिगन्धाः कुथितगोमायुकलेवरादप्यसह्यगन्धकाः। (अगणिवण्णाभा इति) लोहे धम्यमाने यादृक्कपोतो बहुकृष्णरूपायोवर्णः। किमुक्तं भवति यादृशी बहुकृष्णवर्णरूपा अग्निज्वाला निर्गच्छतीति तादृशी आभा आकारो येषां ते कपोताग्निवर्णाभाः धम्यमानलो-हाग्निज्वालाकल्पा इति भावः / तारकोत्पत्तिस्थानातिरेके णान्यत्र सर्वत्राप्युष्णरूपत्वात् एतच षष्ठसप्तमपृथिवीवर्जमवसे यम् / यत उक्तम् / 'छट्टसत्तमीसुणं काऊअगणिवण्णाभा न भवंति" एतादृशास्ते रूपतः / स्पर्शतस्तु कर्कशाः कठिना वज्रकण्टकासिपत्रस्येव स्पर्शा येषां ते। तथा अत एव (दुरहियासा इति) दुःखेनाध्यासन्ते सह्यन्ते इति दुरध्यासाः किमिति यतस्ते नरकाः पञ्चानामपीन्द्रियार्थानामशोभनत्वादशुभाः तत्र सत्वानामशुभकर्मकारिणामुग्रदण्डपातिनां वज्रप्रचुराणां तीव्रा अतितिव्रा अतिदुःसहा वेदनाः शरीराः प्रादुर्भवन्ति तया च वेदनया अभिभूतस्तेषु नरकेषु तेनारका नैवाक्षिनिमेषमपि कालं निद्रायन्ते नाप्युपविष्टाद्यवस्थामक्षिसंकोचरूपामीषन्निद्रामवाप्नुवन्ति / श्रुतं विशेषज्ञानरूपं रतिंचित्ताभिरतिरूपां धृतिं विशिष्टसत्वरूपांमतिं वेशेषबुद्धिरूपां नोपलभन्ते नोवंभूतवेदनापीडितस्य निद्रादिलाभो भवतीति दर्शयतितामुज्ज्वला तीव्रामनुभवेनोत्कटाम् / (तितुलंति) त्रीनपि मनःप्रभृतिकान् तुलयति जयति तित्रितुला तां क्वचिद्विपुलामित्युच्यते तत्र सकलकायव्यापकत्वाद्विपुलाम्। (पगादति) प्रकर्षवर्तिना (कक्कसंति) कमशद्रव्यमिव कर्कशां दृढामित्यर्थः (कदुयंति) कदुकां नागरादिवत् सकटुकामनिष्टामेव (चंडति) चण्डां रौद्राम् (तिव्वंति) तीब्रां निक्तनिम्बादिद्रव्यमिव तीव्राम् (दुक्खंति) दुःखहेतुकाम् (दुग्गंति) कष्टसाध्याम् (दुरहियासंति) दुरधिसह्या वेदयन्तो विचरन्ति / अयं तावदयोगोलकपाषाणदृष्टान्तः शीघ्रमधोनिमज्जनाप्रतिपादकः प्रदर्शितोऽधुना शीध्रपातार्थप्रतिपादकमेवापरं दृष्टान्तमधिकृत्याह"से जहाणामए इत्यादि" तद्यथा नाम कश्चिदृक्षः पर्वताये जातो मूले छिन्नः शीघ्रं यथा निम्नं पतत्येवसावप्यसाधुकर्मकारी तत्कर्म वातेरितः शीघ्रमेव नरके पतति ततो नरकादप्युद्धृतो गर्भादर्भमवश्यं याति / एवं जन्मतो जन्म मरणान्मरणं नरकान्नरकं दुःखाद् दुखं दुखात् शरीरमानसोद्भवात् दुःखं समाप्नोति (दाहिणत्ति) दक्षिणस्यां दिशिगमनशीलो दक्षिणगामुकः / इदमुक्तं भवति यो हि क्रूरकर्मकारी साधुनिन्दापरायणः सद्दाननिषेधकस्स दक्षिणगामुको भवति दाक्षिण्यात्तेषु नारकतिर्यङ्मनुष्यामरेषु उत्पद्यते तादृग्भूतश्चायमतो दक्षिणगामुक इत्युक्तम्। इदमेवाह (णेरएइत्यादि) नरकेषु भवो नारकः कृष्णपक्षोऽस्यास्तीति कृष्णपाक्षिकस्तथाऽऽगामिनि काले नरकादुद्द्तो दुर्लभबोधिकश्चये च बाहुल्येन भवति / इदमुक्तं भवति दिक्षु मध्ये दक्षिणा दिगप्रशस्ता गतिषु नरकगतिः पक्षतः कृष्णपक्षस्तदस्य विषयान्धस्योन्द्रियामुक्ततलवर्तिनः परलोकनिःस्पृहमतेः साधुप्रद्वेषिणो दानान्तरायविधायिनो दिशमप्रशस्तां प्राप्नोति एवमन्यदपि यादृगप्रशस्तं तिर्यग्गत्यादिकमबोधिलाभादिकं च