________________ उवाय ११२१-अभिधानराजेन्द्रः - भाग 2 उवालंभ मुक्ता। ततः कदाचिद्विवाहिता सती पतिमापृच्छ्य रात्रावारामपतिपार्वे गच्छन्ती चौरराक्षसाभ्यां गृहीता सद्भावकथने प्रतिनिवृत्तयाभवत्पावें आगन्तव्यमिति कृताभ्युपगमा मुक्ता / आरामे गता आरामिकेण सत्यप्रतिज्ञेत्यखण्डितशीला विसर्जिता इतराभ्यामपि तथैव विसर्जिता पतिसमीपमागतेति। ततो भो लोकाः पत्यादीनां मध्ये को दुष्करकारक इति चासौ प्रपच्छ। तत इालुप्रभृतयः पत्यादीन् दुष्करकारकत्वेनाभिदधुः / चौरचाण्डालास्तु चौरानिति ततोऽसावनेनोपायेन भावमुपलक्ष्य चोर इति कृत्वा स तं बन्धयामासेति स्था०४ ठा०३उ०। दृष्टान्ते, "उवाओ सोसाधम्मेण य विधम्मेण य" आ०चू०१ अधि० उवायकारि(ण) त्रि०(उपायकारिन्) आचार्य निर्देशकारिणि, "उवायकारी य हरीमणे य एगंतदिट्ठी य अमाइवे'' सूत्र०१ श्रु० 13 अ० उवायकिरिया स्त्री०(उपायक्रिया) भावक्रियाभेदे, उपायक्रिया हि घटादिकं द्रव्यं येनोपायेन क्रियते तद्यथा मृत्खननमर्दनचकारोपणदण्डचक्रसलिलकुम्भकारव्यापार्यावद्भिरुपायैः सा सर्वाऽप्युपायक्रिया सूत्र०२ श्रु०२ अ० उवायगपुं०(उपायक) उपायचिन्तके, विशे०। उवायतो अव्य०(उपायतस्) उपायेनेत्यर्थे , "उपायतो मोहनिन्दा" ध०१ अधिo उवायरक्खणन०(उपायरक्षण) उपायेन रक्षणे, "सुत्तादुवाय-रक्षण गहणपयत्तविसया मुणेयव्वा''ध०२ अधि। उवायविचय पुं०(उपायविचय) सुष्टु मनोवाक्कायव्यापारविशेषाणां स्वीकरणमुपायः स कथं नु मे स्यादिति संकल्पप्रबन्धे, सम्म०) उवालंभ पुं०(उपालम्भ) उपालम्भनमुपालम्भः भङ्गयैव विचित्रभणने, दश०१अा भङ्गयन्तरेणानुशासने, स्था०४ ठा०"तिविहेउवालभेपन्नत्ते तं जहा आओवालंभे परोवालंभे तदुभयोवालभे" उपालम्भ इयमेवानौचित्यप्रवृत्तिप्रतिपादनगर्भास चात्मनो यथा"चोल्लगदिढतेणं, दुलहं लहिऊण माणुसं जम्मं / जं न कुणसि जिणधम्म, अप्पा किं वैरिओ तुज्झ त्ति // 1 // " परोपालम्भो यथा "उत्तमकुलसंभूओ, उत्तमगुरुदिक्खिओ तुमं वच्छ। उत्तमणाणगुणड्डो, कहं सहस्साववसितो एवंति ||1|| तदुभयोपालम्भो यथा "एगस्स कए नियजीवियस्स बहुयाउ जीवकोडीओ। दुक्खे ठवंति जे के विताणकि सासयं जीयं ति // 1 // " एवमित्यादिना पूर्वोक्तातिदेशो व्याख्यातः एवञ्चात्राक्षर-घटना यथैवोपक्रमे आत्मपरतदुभयैस्त्रय आलापका उक्ता एवमे-कैकस्मिन् वैयावृत्त्यादिसूत्रे ते त्रयस्त्रयो वाच्या इति। स्था०३ठा०नि०चूol संप्रत्यात्मोपालम्भोल्लेखं दर्शयति! तुमए चेव कयमिणं, न सुद्धगारिस्स दिज्जए दंडो। इह मुक्को विन मुबइ, परत्थ अह हो उवालंभो / / त्वयैव स्वयं कृतमिदं प्रायश्चित्तस्थानं तस्मान्न कस्याप्युपरिअन्यथाभावः कल्पनीयः। न खलु शुद्धकारिणो लोकेऽपि दण्डो दीयते। किं च यदि इह भवे कथमप्याचार्येणैवमेवमुच्यते। तथा इह भवे मुक्तोऽपि परत्र परलोके न मुच्यते / तस्मादापन्नं प्रायश्चित्तमवश्यं गुणवृद्ध्या कर्तव्यमिति। अहएष भवत्युपालम्भः एष आत्मोपालम्भः। एतदनुसारेण परोपालब्भः / उभयोपालम्भोऽपि भावनीयः व्य०प्र०१ उ०1 उपालम्भो यत्राऽभिधीयते तादृशे आहरणतद्देशभेदे, स्था०४ ठा०। अधुनोपालम्भद्वारविवक्षयाऽऽह // उवलंभम्मि मिगावइ, नाहियवाईवि एव वत्तट्वे / नत्थि त्ति कुविनाणं, आयाभावे सइ अजुत्तं // 75|| उपालम्भे प्रतिपाद्ये मृगापतिदेव्योदाहरणम् / एतच "जहा आवस्सए दव्वपरंपराए भणियं तदेवं दहव्वं जाव पव्वइत्ता अज्जचंदणाए सिस्सिणी दिण्णा अन्नया भगवं विहरमाणो कोसंवीए समोसरिओ चंदादिया सविमाणेहिं चंदणा आगया चउपोरसीयं समोसरणं काउं अस्थमणकाले पडिगता ततो मिगावती संभंता अयि वियालिकतंति भणिऊणं साहुणीसहिया जाव अज्जचंदणासगासं गता ताव अंधयारयं जातं अञ्जचंदणापमुहाहिं साहुणीहिं ताव पडिकंतं ताहे सा मिगावती अज्जचंदणाए उवालब्भति जहा एवंणाम तुम उत्तमकुलप्पसूया होइऊण एवं करेसि अहोन लट्ठयोताहे पणमिऊण पाएसुपडित्ता परमेण विणएण खामेति खमह मते एगमवराहणाहं पुणो एवं कहेहामित्ति। अजचंदणाय किल तं समरसंथारोवगता पसुत्ता इयरीए वि परमसंवेगताए केवलनाणं समुत्पन्नं परमंच अंधयारंवट्टइ सप्पो यतेणंतरेण आगच्छतिपव्वतिणीए यहत्थोलंवमाणोतीए उप्पाडिओपडिबुद्धाय अज्जचंदणा पुच्छिता किमेवं सा भणति दीहजातीओ कहं तुमंजाणसि किं कोइ अति-सओ आमंति पडिवाति अपडिवाइत्ति पुच्छिया। साभणइ अपडिवाइत्तितओ खामिया लोगलोगुत्तरसाहरणमेयं एवं पमायंतो सीसो उवालंभेतव्योत्ति उदाहरणदेशता पूर्ववत् योजनीयेत्येवं तावचरणकरणानुयोगमधिकृत्य व्याख्यातमुपालम्भद्वारमधुना द्रव्यानुयोगमधिकृत्य व्याख्यायते नास्तिकवाद्यपि चार्वाकोऽपि जीवनास्तित्वप्रतिपादक इत्यर्थः एवं वक्तव्योऽभिधातव्यः नास्ति न विद्यते कः प्रकरणाजीव इति एवंभूतं कुविज्ञानं जीवसत्ताप्रतिषेधावभासीत्यर्थः / आत्माभावे सति न युक्तमात्मधर्मत्वात् ज्ञानस्येति भावना / भूतधर्माता पुनरस्य धर्म्यननुरूपत्वादेवनयुक्ता तत्समुदायकार्यताऽपि प्रत्येकं भावाभावविकल्पद्वारेण तिरस्कर्त्तव्येति गाथार्थः। अमुमेवार्थमुपसंहरन्नाह। अस्थि त्ति जा वियका, अहवा नत्थि त्ति जंकुविन्नाणं / अंचंताभावे पो-गलस्स एयं चिय न जुत्तं // 76| अस्ति जीव इति एवम्भूता या वितर्का अथवा नास्ति न विद्यते इति एवम्भूतं यत्कुविज्ञानं लोकोत्तरापकारि अत्यन्ताभावे पुद्गलस्य जीवस्य इदमेव नयुक्तमिदमेवान्याय्यं भावनापूर्ववदिति गाथार्थः। उदाहरणदेशता नास्तिकस्य परलोकादिप्रतिषेधवादिनो जीवसाधनाद्भावनीयेति / गतमुपालम्भद्वारम् / दश०१ अ० "एवं खलु जंबूसमणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं जाव संपत्तेणं अप्पोवालंभनिमित्तं पढमस्स णायज्झयणस्स अयमट्ठ पन्नत्तेत्ति वेमिइति ज्ञाताप्रथमाध्ययने उक्त आत्मोपालम्भः ज्ञा०१ अ० निन्दापूर्वकतिरस्कारे, वाच०।