________________ उवहि 1113 - अभिधानराजेन्द्रः - भाग 2 उवहि साधुसंघाटकेन समं साधुसंघाटकस्याभावे एकेन वा साधुना समं व्रजति तत्र यौ सहायौ दत्तौ तौ तस्योपकरणं गृहीतः परिवहतः। यदा तु चौरभयेन सभयं स्थानं तदा समस्तमपि उपधिकल्पादिलक्षणं गृह्णीतो गृहीत्वा स्थविरो यथाजातः कृत्वा अग्रे क्रियते ततः सभयस्थानलङ्घने कृतिकर्मविश्रामणां तस्य कुरुतः कृत्वा द्रवं पानीयञ्च समर्पयतः / तदनन्तरं प्रथमालिकां कारयतः। तयोर्द्वयोः साध्वोरभावे एकः समस्तं प्रागुक्तं करोति। जइ गच्छेज्नाहि गणो, पुरतो पंथे य सो फिडिजाहि। तत्थ उठवेज एगं, रिक्खं पडिपंथगप्पाह। अथैकोऽपि सहायो न विद्यते तदा स्थविर एकाक्यपि पुरतः प्रवर्त्यते। तत्र यदि सार्थादिवशतस्त्वरितं गच्छन् स गणपुरतो गच्छेत् यदि वा पथि परिरयादिना स स्फिटितो भवेत्तत्र एकं साधुं रिक्तमुपकरणरहित स्थापयते / अथ तत्र शरीरापहारिस्तेनभयं दष्टव्याघ्रादिस्वापदभयं वा ततः स मोक्तुं न शक्यते तर्हि अग्रेतनस्थानात्प्रतिनिवर्तमानं पथिकमप्याह इति संदेशापयेत / यथाऽग्रे साधुसमुदायो व्रजन्नास्ते तस्मात्त्वरितमागन्तव्यमिति। संप्रतियथा स स्फिटितो भवति तथा प्रदर्शयतिसारिक्खकरिसणीए, अहवा वातेण हुञ्ज पुट्ठो उ। एवं फिडितो हुज्जा, अहवा वीपरिरएणं तु। कालगए व सहाए, फिडितो अहवा वि संभमो हुजा। पढमपिडितो वएण व, गामपविट्ठो व जो हुञ्जा।। पथि गच्छतो मार्गद्वयं तत्र येन पथा गच्छो गतस्तस्मादन्यस्मिन्पथि केचित्साधुसदृशाः पुरतो गच्छन्तो दृष्टास्ततः साधव एते गच्छन्तीति सादृश्यकर्पिण्या मित्या विप्रलब्धः सन् तेन पथा गच्छेत् अथवा अपान्तराले स वातेन स्पृष्टः स्यात्। ततो गन्तुं न शक्नोति एवममुना प्रकारेण स्फिटितो भवेत्। अथवा तथाविधमहागर्तया पर्वतस्य नद्या वा परिरयेण स स्थविरो व्रजन् गच्छन् स्फिटितः स्यात्। यदि वा यस्तस्य सहायो दत्तः स कालगत इति स्फिटित एकाकी संजातः / अथवा संभ्रमे वा त्वरितं सार्थेन सह पलायमाने गच्छे स्थविरःशनैव्रजन् गच्छन् स्फिटितो भूयात्।यदि वा प्रथमेन क्षुत्परीषहेण पीडितः सन्यः स्थविरो ग्रामं वजिकां वा प्रविष्टो भवेत् गच्छश्व स्तेनादिभयेन सार्थेन समं त्वरित व्रजति स गच्छात्स्फिटितो भूयात्। एएहिं कारणेहिं, फिडितो जो अट्ठमं तु काऊण / अणुहिंडतो मग्गइ, इतरे वि य तं विमग्गंति / / एतैरनन्तरोदितैः कारणैर्यो गच्छात्स्फिटितः सोऽष्टमं षष्ठचतुर्थवा कृत्वा भिक्षामटन् गच्छं मार्गयति अन्वेषयति इतरेऽपि च गच्छ-साधवस्तं स्थविरं विमार्गयन्ति / अथ ते गच्छसाधवः सार्थेन समं व्रजन्तो यदि सार्थं मुञ्चन्ति तदा स्तैनैरपि हीयन्ते वनदावेन वा दह्यन्ते दुष्टेन वा स्वापदेन केनापि गृह्यन्ते ततो गवेषयितुं न शक्नुवन्ति तर्हि स्थविरेणावश्यमुक्तप्रकारेण मार्गणा कर्तव्या। अह पुण न संथरेजा, तो गहितेणेव हिंडते भिक्खं / जइन तरेजाहि ततो, ठवेज ताहिं असुन्नम्मि।। यदि चतुर्थेन षष्ठेनाष्टमेन वा गवेषणं कर्तुं न संस्तरेत् तत स्तदा तदुपकरणमशून्ये प्रदेशे स्थापयेत्। तत्रापि यानि वर्जनीयानि स्थानानि तानि प्रदर्शयति। अह पुण ठविज एहिं, सुन्नग्गिकम्मगुंछिएसु वा। नाणुण्णवेज दीहं, बहुभुंजइ तत्थ पच्छित्तं / / तिसु लहुग देसु लहुगो, खद्धाइयणे य चउलहू होति। चउगुरु समखंडीए, अप्पत्तपडिच्छमाणस्स। अत्राद्यगाथापदानां द्वितीयगाथोक्तप्रायश्चित्तैः सह यथासंख्येन योजन साचैवमथ पुनः स्थापयेदेषु वक्ष्यमाणेषु स्थानेषु गाथायां तृतीया सप्तम्यर्थे ततः प्रायश्चित्तसभवस्तत्र यदिशून्ये स्थापयति ततश्चतुर्लघु अग्निकर्मिकायामपि शालायां स्थापने चतुर्लघुका अग्निना यदि कथमप्युकरणस्य दाहस्तदा तन्निष्पन्नमपि प्रायश्चित्तं जुगुप्सितगृहेषु स्थापयति चतुर्लघु तस्मादेतानि वर्जयित्वा वक्ष्यमाणेषु स्थानेषु स्थापयेत् यत्र स्थापयति ते अनुज्ञापयितव्या अननुज्ञापने मासलघु दीर्घा भिक्षाचर्या कुर्वति मासलघु बहु भुजति प्रायश्चित्तं चत्वारो लघवो भवन्ति (खद्धाइयणेइत्ति) खद्धस्य प्रचुरस्य अदने भक्षणे सतीत्यर्थः / तथा अप्राप्तां संखडी प्रतीक्षमाणस्य प्रायश्चित्तं चत्वारो गुरुकाः / संप्रति येषु स्थानेषु स्थापयेत्तानि दर्शयति। असति य सुमणुन्नाणं, सव्वोवहिणा व भइएसुं वा। देसकसिणे व घेत्तुं, हिंडइ मइ लंभ आलोए। यदि सुमनोज्ञाः सन्ति तहि तेषूपकरणं स्थापयितव्यं तेषामसत्य-भावे अमनोज्ञानामपि असांभोगिकानामप्युपाश्रये स्थापयेत् यदि वा सर्वेणाऽप्युपधिना गृहीतो न हिण्डते यदि शक्तिरस्ति अशक्तौ पार्श्वे स्थापयति यदि वा यथा भद्रकेषु गृहे स्थापयति (देसकसिणेवघेत्तुमिति) समस्तस्योपधेर्देशभूतानि यानि कृत्स्नानि परिपूर्णानि कल्पादीनि तानि गृहीत्वा भिक्षामटति अशक्तौ तान्यपि मुक्त्वा परिभ्रमति तत्र सति लाभे तेषु गृहेषु भिक्षामटति अटन् उपकरणं पश्यति।। असतिय अविरहियम्मि, णित्तिक्कादीणि अंतिए ठवए। देजह ओहाणंति, जाव अभिक्खं परिभमामि।! असति अविद्यमाने भावे अविरहिते प्रदेशे नैत्यकादीनां नैत्यिको धुवकर्मिको लोहकारादिरादिशब्दात् मणिकारशंखकारादिपरिग्रहस्तेषामन्तिके स्थापयेत् ब्रूते च दद्यादस्योपकरणस्यावधानं यावदह भिक्षा परिभ्रमामि॥ ठवेति गणयंतो वा, समक्खं तेसि बंधिउं / आगतो रक्खिया भोत्ति, तेण तुब्भेचिया इमे / / तेषां ध्रुवकार्मिकप्रभृतीनां समक्षं गणयन् बध्वा स्थापयति वा शब्दः स्थापनाविषयप्रकारान्तरसूचने आगतश्च सन् द्वितीयमपिवारमवग्रहमनुज्ञापयति / कथमित्याह भो इत्यामन्त्रणे युष्माभी रक्षितान्यमूनि तेन युष्मदीयानीमानि मां गृह्णन्तमनुजानीत / / दठूण व अन्नहा गंठिं, केण सुद्धो त्ति पुच्छति। रहियं किं घरं आसी, को परो व इहागतो।। इह यदा तेषां समक्षमुपकरणं बध्वा स्थापयति तदा साभिज्ञानं ग्रन्थिं बध्नाति / ततःआगतः सन तं प्रलोकयति / मा के नाप्युन्मुच्य किं चित् हृतं स्यात्तत्र यदि तथैव ग्रन्थिं पश्यति ततः पूर्वोक्त प्रकारेण द्वितीयमवगृहमनुज्ञापयति / अथ ग्रन्थिमन्यथा पश्यति ततो बूते केनायं ग्रन्थिरुन्मुक्तश्छोटित इति