________________ उवहि 1112 - अमिधानराजेन्द्रः - भाग 2 उवहि भिन्नानि ततो ध्यामितहृतव्यूढपतितादिषूपकरणानि याचनीयानि तेषामप्यसत्यभावे कृतप्रयत्नस्तदेव पूर्वपरिष्ठापितं स्वयं गृह्णाने-- ऽशठभाव इति कृत्वा शुद्धः / व्य० द्वि० उ०। (भिक्षाचर्यायां क उपधिर्नतव्य इत्येसणाविहारादिशब्देषु) (16) स्थविराणां ग्रहीतव्या उपधयः॥ (सूत्रम्) थेराणं थेरभूमि पत्ताणं कप्पति दंडए वा 1 भंडए वा २छत्तगंवा 3 मत्तगं वा लट्ठियाए वा 5 मिसिवा 6 चेलं वा७ चेलचिलिमिलिया वा 8 चम्मए वा 1 चम्मकोसं वा 10 चम्मपलिच्छे यणाए वा 11 अविरहिए उ वा सेठवेत्ता गाहावतिकुलं भत्तएवापाणाएवापविसित्तएवा निक्खमित्तए वा कप्पति से संनियट्टचारिस्सदाचं पिउग्गहं अणुण्णवित्ता परिहारं परिहरित्तए वा // 5 // स्थविराणां जरसा जीर्णानां स्थविरभूमिं प्राप्तानां सूत्रार्थतदुभयोपेतानामित्यर्थः / कल्पते दण्ड विदण्डादिभेदभिन्नं भण्डकमनेकविधानि उपकरणानि छत्रकं प्रतीतं मात्रकमुचरादिसत्कं लष्टिका दण्डविशेषः / चेलं कल्पादिचर्मतलिकादिरूपंचर्मपरिच्छेदनकं बन्ध्वा एतान् अविरहिते अवकाशे स्थापयित्वा गृहपतिकुलं पिण्डपातप्रतिपाताय प्रवेष्टुं वा निष्क्रमितुं वा कल्पते सन्निवृत्तचराणां भिक्षाचर्यातः प्रत्यागतानां स्थविराणां द्वितीयमपि वारमवगृहमनुज्ञाप्य परिहर्तुं धारणया परिभोगेन चेत्येष सूत्राक्षरमात्रार्थः / विशेषव्याख्या तु भाष्यकृता क्रियते। तत्र यानि पदानि व्याख्येयानि तानि दर्शयति // दंड विदंडे लट्ठी, विलहिचम्मे य चम्मकोसाय। चम्मस्स य जे छेया, थेरा वि जे य जराजुण्णा / / दण्डो विदण्डः यष्टिवियष्टिः चर्म चर्माकोशः चर्मणश्च ये छेदास्ते चर्मपरिच्छेदनकास्ते च व्याख्येयास्तत्र प्रथमतः स्थविरपदमाचक्षते। स्थविरा अपि च ये जराजीस्तेि द्रष्टव्याः॥ आयवताणनिमित्तं, छत्तं दंडस्स कारणं वुत्तं / कम्हा ठवेइ पुच्छा, संदिग्धधरो अदुग्गट्ठा। आतप उष्णेन परितापना तस्य त्राणार्थं छत्रकं गृह्णाति दण्डस्य उपलक्षणमेतत् विदण्डादीनां ग्रहणे कारण पूर्वनिशीथे कल्पेच भणितम् / अथकस्माद्दण्डं स्थापयति एषा पृच्छा अत्रोत्तरंदण्डको दीर्घः स्थविरश्च | ततः तंदुर्गे व्याघ्रादिपरिवारणनिमित्तं परिवहति॥ संप्रति भाण्डादिव्याख्यानार्थमाह / / भंडं परिग्गहो खलु, उचारादी य मन्नगा तिन्नि। अहवा भंडम्गहणे, अणेगविहं भडगं गहियं // भाण्डकः खलु पतद्ग्रह उच्यते उचारादौ च आदिशब्दात् प्रश्रवणे श्लेष्मणि चेति परिग्रहस्त्रीणि मात्रकाणि भवन्ति तद्यथा उचारमात्रकं प्रश्रवणमात्रकं श्लेष्ममात्रकं चेति / अथवा भाण्डकग्रहणेनानेकविधं भाण्डकं गृहीतं द्रष्टव्यम्॥ चेलग्गहणे कप्या, तसथारवरजीवदेहनिप्पन्ना। दोरण इयराव चिलिमिलि, चम्मतलिगा व कत्तिव्वा॥ चेलग्रहणेन त्रसस्थावरजीवशरीरनिष्पन्ना और्णिकसौतिकरूपा इत्यर्थः कल्पाः परिगृह्यन्ते चिलिमिलिमि जवनिका सा दवरकमयी इतरा वा द्रष्टव्या चर्ममयतलिका उपानत् कृत्तिर्वा औपग्रहिकोपग्रहणविशेषरूपाः॥ अंगुट्ठअवरफाणू, नह कोसच्छेयणं तु जे बद्धा। ते छिन्नसंघणट्ठा, दुखंडसंधाणहेउं वा।। चर्ममयःकोशःचर्मकाशः सोऽङ्गुष्ठस्य यदिवा (अवरफाणू) पार्णिका तस्याः परिरक्षणाय ध्रियते। अथवा नखरदनादेरौपग्रहिकोपकरणविशेषस्य चर्ममयः कोशश्चर्मकोशः येतुवद्ध्यस्तेिधर्मपरिच्छेदनकमित्युच्यन्ते। तेच छिन्त्रसंधानार्थमथवाद्विखण्ड-संधानहेतोर्धियन्ते। तदेवं विषमपदानि व्याख्यातानि॥ . संप्रति दण्डाद्युपकरणस्थापनाचिन्तां चिकीर्षुराह॥ जइ य ठवेइ असुण्णे, न य वेइ देज अत्थ ओहाणं / लहुगो सुन्ने लहुगा, हियम्मि जं जत्थ यावति उ।। यदिचाशून्ये अविरहितेप्रदेशे दण्डाद्युपकरणं स्थापयतिनच कस्यापि संमुखमेवं बूते अत्र दद्यादेवधानमुपयोगमिति।तदातस्य प्रायश्चित्तं लघुको मासः / अथ शून्ये स्थापयति तदा चत्वारो लघुकास्तथा शून्ये मुक्ते स्तेनैश्चापहृते यत्र यत्र जघन्ये मध्यमे उत्कृष्ट वा उपकरणे प्रायश्चित्तमुक्तं तत्प्राप्नोति। अत्र परस्याशङ्कामाह। एवं सुत्तं अफलं, भणियं कप्पतित्ति थेरस्स। भण्णति सुत्तनिवातो, अतीमहल्लस्स थेरस्स।। चोदकः प्राह यद्येवमशून्ये च प्रदेशे उपकरणे दोषस्तर्हि तत्सूत्रमफलमविषयं यदुक्तं कल्पते अविरहिते अवकाशे स्थापयित्वेत्यादि। सूरिराह भण्यते अत्रोत्तरं दीयते अस्य सूत्रस्य निपातोऽतिमहतोऽतिशयेन गरीयसः। गच्छाणुकंपणिजा, जेण ठवेऊण कारणेणं तु / हिंडइ जुण्णमहल्लो, तं सुण वोच्छं समासेणं / / सोऽतिवृद्धो महान् गच्छस्यानुकम्पनीयं परं येन कारणेन स जीर्णो महान् एकाकीभूतोऽविरहिते प्रदेशे उपकरणं स्थापयित्वा भिक्षां हिण्डते तत्कारणं समासेन वक्ष्ये तच वक्ष्यमाणं शृणु प्रतिज्ञातमेव निहियति। सो पुण गच्छेण सम, गंतूण अजंगमो न वा एइ। गच्छाणुकंपणिज्जो, हिंडइथेरो पयत्तेण // स पुनरजंगमो गच्छेन समं गन्तुं न शक्नोति ततः स गच्छस्यानुकम्पनीय इति कृत्वा स्थविरो वक्ष्यमाणेन प्रयत्नेन यतनया हिण्डते तमेव प्रयत्नमाह। अतक्कियउवहिणा उ,थेरा भणिया अलोभणिज्जेण। संकमणे पट्ठवणं, पुरतो समगं व जयणाए / यमुपधिं न कोऽपि तळयति विशेषतः परिभावयति तेनातर्कणीयेनोपधिना अत एवालोचनीयेन लोभगोचरतामतिक्रान्तेन परिधाप्य मासकल्पप्रायोग्यस्य वर्षावासप्रायोग्यस्य वा क्षेत्रस्य संक्रमेण कर्त्तव्ये आचार्येण ते स्थविरा अतिमहान्तो भणिताः पुरतः समकं वा यतनया चल्यता तत्र यदि प्रतिभासते तर्हि पुरतोऽग्रे साधुभिः सह तस्य प्रस्थापन क्रियते। अथ न शक्नोति पुरतो गन्तुं तदा समकं नीयते कथमित्याह। यतनया तामेव यतनामाह। संघाडग एगेण व, समगं गेण्हंति सभए ते उवहिं। कितिकम्मदवं पढमा, करेंति तेसिं असति एगो॥ यदि गच्छेन समं व्रजति ततः सुन्दरमेव सकलस्यापि गच्छस्य तत्साहाय्यकरणात् / अथ समकं गन्तुं न शक्नोति तदा