________________ उवहि 1111- अभिधानराजेन्द्रः - भाग 2 उवहि ङ्गः तत्र चतुर्थे भङ्गे अपवादमधिकृत्य शून्यो न भवति तत्रापवाद इति भावः। तत्र प्रथमभङ्गे न गृह्णाति अशिवोपहतत्वात् द्वितीयेऽपि न गृह्णाति तदानीं तस्य तैरवग्रहणादशिवोहतत्वात् तृतीय भङ्गे सदृशे अशिवे कारणे गृह्णाति विसदृशे सोमसुखादिलक्षणैर्न गृह्णाति यदि वा अवमौदर्येण देशान्तरं गन्तुकामा न गृह्णीयुः // अह पुण गहियं पुटवं, न य दिटुं जस्स विबुय त तु। उवहावियन्नदेसं,इमिणा विहिणा विगिंचिजा।। अथ पुनर्गृहीतं पूर्वमुपकरणं न च स दृष्टो यस्य सत्कं तदुपकरणं विच्युतं विस्मरणतः पतितं यस्मात् (उवहावियन्नदेसंति) अथपुनर्गृहीतमुपकरणं नच स दृष्टो यस्य सत्कंतदुपवेगेनधाविताः प्रधाविता अन्यं देशंगतास्ततः अनेन वक्ष्यमाणेन विधिना विवेचयेत् परिष्ठापयेत् / तमेव विधिमाह। दुविहा जायमजाया, जाया अभियोग तह असुद्धाय। अभियोगादी छेत्तुं, इयरं पुण अक्खयं चेव॥ सा परिष्ठापनिका द्विविधा जाता अजाता च तत्र जाता नाम अभियोगकृता विषकृता च तत्राभियोगो वशीकरणम् / अथवा जाता अशुद्धा सा द्विविधा मूलगुणाशुद्धा उत्तरगुणाशुद्धा च / तत्र जाता अभियोगकृता विकृता वामूलगुणाशुद्धा उत्तरगुणाशुद्धा वा सा छेत्तुं भेत्तुं वा कर्तव्या / इतरत् पुनरुपकरणमभियोगादिदोषरहितमक्षतं चैव परिष्ठापयितव्यम्। अत्र परः प्रभं करोति पहनिग्गया इयाणिं, विजाणणट्ठाइ तत्थ चोदेइ। तेसिं सुद्धिनिमित्तं, कीरइ विधिं इमं तु तहिं / / पथि निर्गताः आदिशब्दादशिवादिभिः कारणैर्निर्गताः परिगृह्यन्ते तेषां शुद्धिनिमित्तं यदेव प्रागुक्ते विधौ प्रतिपादिते परः असहमानश्चोदयति प्रश्रयति पथिनिर्गतादीनां पथिनिर्गता मार्गप्रतिपन्नास्तेषां परिष्ठापितमिदमिति विज्ञानार्थं तत्रेदं वक्ष्यमाणं चिह्न क्रियतामिति। तदेवाह। एगा दो तिनि वली, वत्थे कीरंति पत्तचीराणि। सुज्झंतु चोदगेणं, इति उदिते वेति आयरितो॥ मूलगुणैरशुद्धे वस्त्रे एकावलिरेकं वस्त्रं कृत्वा तत् परिष्ठाप्यते मूल-- गुणैरशुद्ध पात्रे एकं चीवरमेकं प्रस्तरं क्षिप्त्वा तत्परिष्ठाप्यतामुत्तरगुणैरशुद्ध शुद्धे वा क्रियेतां पात्रे द्वे चीवरखण्डे द्वौ वा प्रस्तरो क्षिप्ये-- याताम् / मूलगुणैरुत्तरगुणैश्च शुद्धे वस्त्रे त्रीणि चक्राणि क्रियेरन् / पात्रे त्रीणि चीवराणि त्रयो वा प्रस्तराः क्षिप्येरन् इति / अमुना प्रकारेण चोदकेनोक्ते आचार्यो ब्रवीति / किं तदित्याह। सुद्धमसुद्धं एवं, होति असुद्धं च सुद्धवायुवसं। तेण तिदुगेणगंठी, वत्थे पत्तम्मि रेहो उ॥ एवं युष्मदुक्तप्रकारेण चक्रकरणे वातवशात् शुद्धमपि चक्रैकद्विक-1 भङ्गतोऽशुद्धं भवति। अशुद्धमपि वातवशेन चक्रत्रिकभावतःशुद्धं भवति।। पात्रमपि वातवशेन एकद्विकचीवरापगमे शुद्धं भवति / अशुद्धमपि वातवशेनान्यागत्तुकचीवरखण्डसमागमे शुद्धं तस्मादयं विधिस्तत्र कर्तव्यः / मूलोत्तरगुणशुद्ध वस्त्रे त्रयो ग्रन्थयः कर्तव्याः पात्रे तिस्रो रेखाः उत्तरगुणैरशुद्ध वस्त्रे द्वौ ग्रन्थी पात्रे द्वे रेखे मूलगुणैरशुद्धे वस्त्रे एको ग्रन्थिः पात्रे एका रेखा। अद्धाणनिग्गमादी, उवएसा णएण पेसणं वावि। अविकोविते अप्पणमं, दद्धे भिन्ने विवित्ते य। अध्वनि मार्गे निर्गता अध्वनिर्गता आदिशब्दात् अशिवादिभिर्वा कारणैनिर्गताः परिगृह्यन्ते तेषामुपकरणे दग्धे वह्निना भस्मीकृते भिन्ने वा विविक्ते वा विस्मरणतः पतिते वास्तव्यास्तान् अध्वनिर्गतादीन् ब्रुवते अस्माकमुरितानि वस्त्राणि न सन्ति केवलमस्माभिरमुकप्रदेशे परिष्ठापितानि वर्तन्ते तान्यानीय गृह्णीथ एवमुक्ते तेऽपि प्राधूर्णका ये गीतार्थास्तान् प्रेषयन्ति वास्तव्या अपि च तेषां चिह्नानि उपदिशन्ति यथा गर्तसमीपे गिरिसमीपे तरुसमीपे कूपसमीपे इत्यादि (आणयण मिति) अथैवं चिह्ने कथितेऽपिस्नानं न जानन्ति यदि वा न ते वास्तव्या ग्लानादिप्रयोजनावृतास्ततः स्वयमानीय प्रयच्छन्ति (पेसणं वा वित्ति) अथवा वास्तव्याः प्राघूर्णकानां देशकं ददति यथा अमुकप्रदेशे वस्त्रादि परिष्ठापितमस्ति तदमीषां दर्शय अपि शब्दात् यदि ग्लानादिप्रयोजनैर्न व्यावृतास्तदा परिष्ठापिताभावे अन्यत्याचित्वा प्रयच्छन्ति (अवि कोविए अप्पणमिति) आनीते परिष्ठापिते कोऽप्यकोविदो गीतार्थ उपहतमिति कृत्वा नेच्छति तत्र प्राघूर्णकैस्तिव्यैर्वा तस्यात्मीयं वस्त्रं पात्रं वा दत्या इतरत्स्वयं ग्रहीतव्यम् / अथ तदपि कश्चिदगीतार्थतया न गृह्णीयात्तर्हि तत् आनीतं पुनः परिष्ठाप्यते एष गाथासंक्षेपार्थः। सांप्रतमेनामेव विवरीषुराह। अद्धाण निग्गयादी, नाउ परित्तोवही विवित्ते वा। संपडगभंडधारी, पेसंती ते वियाणंतो।। अध्वनिर्गतादीन् आदिशब्दादशिवादिकारणनिर्गतपरिग्रहस्तान् परीतोपधीन परिमितोपधीन् विविक्तान्या विविक्तोपधीन्या विस्मरणतः पतितोपधीनित्यर्थः / उपलक्षणमेतत् दग्धोपधीवास्तव्या ज्ञात्या कथंभृता वास्तव्या इत्याह। संपादुकभाण्डधारिणो नाम यावन्मात्रमुपकरणमुपपद्यते तावन्मानं धरन्ति शेषं परिष्ठापयन्ति / ततस्तान् तथाभूतान् दृष्ट्वा बुवते अस्माकमुद्ररितानि वस्त्राणि न सन्ति किं त्वरमाभिरमुकप्रदेशे परिष्ठापितानि वर्तन्ते तानि गत्वा प्रतिगृह्णीतेति एवमुक्ते तथाऽपि प्राघूर्णका जानते गीतार्थान्प्रेषयन्ति कथमित्याह / गड्डागिरितरुमादीणि , काउं चिंधाणि तत्थ पेसंति। अवियवेट्ठा सयं वा, आणं तल्लं व मगंति / / अत्र प्राघूर्णकाः प्रेषिता न वास्तव्या गर्तगिरितर्वादीनि चिह्नानि कृत्वा प्रेषयन्ति यदि वाग्लानादिभिरव्यापृताःस्वयमानयन्ति परिष्वपिताभावे अन्यद्वा मार्गयन्तिासांप्रत "मविकोविए अप्पणगमिति" व्याख्यानयति। नीयम्मि य उवगरणे, उवहयमेयं न इच्छई कोई। अविकोविय अप्पणगं, अणिच्छमाणे विविंचंति॥ नीतेऽप्युपकरणे कश्चिदकोविद उपहतमेतदिति कृत्वा नेच्छेत तस्मिन्नकोविदे आत्मीयं वस्त्रादि समर्प्यते / अथ तदपि नेच्छति तदा परिष्ठापितमानीतं पुनर्विविश्चन्ति परिष्ठापयन्ति। असतीए अप्पणा वि, झामियहियवूढपडियमादी सु। सुज्झति कयप्पयन्नो, मेव गेण्हं असढभावो / / येन पूर्व तत् परिष्ठापितं तस्य पश्चादुपधिः कथमपि प्रदीपनकेन दग्धः हृतो वा तस्करैः पानीयेन वा नद्यादिप्लवेन प्लावितः व्रजतो वा कथमपि विस्मरणतः पतितः / आदिशब्दात्प्रत्यनीके न वा के नापि वस्त्राणि फालितानि पात्राणि अनेक धा