________________ उवहि 1110 - अभिधानराजेन्द्रः - भाग 2 उवहि तस्य दृष्ट्वा अग्रहणे प्रायश्चित्तं लघुको मासो ये च पूर्वमुक्ता अधिकर-- णादयो दोषास्तेऽपि तस्य प्रसजन्ति सचोपधिर्भूयो द्विधा ज्ञातोऽज्ञातश्च / तत्र ज्ञातो नाम येषां स उपधिस्तेषां ज्ञायते अज्ञातो नाम यो न ज्ञायते यथा अमुकस्य सबन्धीति। ते ज्ञाता द्विविधाः संविना असंविग्नाश्च / / मुत्तूण असंविग्गे, संविग्गाणं तु नयणजयणाए। दो वग्गा संविग्गे, छन्भंगा नायमण्णाए। मुक्त्वा असंविग्रान् किमुक्तं भवतियो ज्ञायते असंविनानामेष उपधिःस ननीयतेयस्तुसंविनानांतत्र द्वौ वर्गीतद्यथा संयताः संयत्यश्च तत्र संविग्ने एकस्मिन्वर्गे षड्भङ्गा ज्ञाते भवन्ति अज्ञाते च वक्ष्यमाणो विधिः। तत्र षड्भङ्गानुपदर्शयति। सयमेव अण्णं पेसेइ, अप्पाहे वा वि एव सग्गामे। परगामे वि य एवं, संजतिवग्गे वि छन्भंगा। यदिते संयताः संविग्ना इति ज्ञातास्तदा स्वयं वागन्तुं नयति अन्यस्य वा हस्ते प्रेषयति संदेशयति वा यथा मया स उपधिर्विस्मरणतः पतितो लब्ध इति / एवं स्वग्रामे त्रयो भङ्गाः परग्रामेऽपि स्थितानामेते एव त्रयः प्रकाराः एवं षड्भङ्गाः संयतानामेवं संयतीवर्गेऽपि षड्भङ्गास्तदेवं ज्ञातविषये विधिरुक्तः। संप्रत्यज्ञातविषयं विधिमाह। ण्हाणादिणाय घोसेण, सोउंगमणं च पेसणप्पाहे। पम्हुढे वोसहे, अप्पबहुअसंघरंतम्मि॥ यो न ज्ञायते कस्याप्येष उपधिरिति स परिज्ञाननिमित्तं स्नानादिसमवसरणे धोष्यते घोषणंच श्रुत्वा केनापि कथिते येषांस उपधिस्तत्र स्वयं वा गन्तुं नयति अन्यस्य वा हस्ते प्रेषयति / संदेशयति वा / तथा (पम्हुढे) विस्मरणतः पतिते व्युत्सृष्ट परित्यक्ते येनानीतस्तस्मिन्नसंस्तरति अल्पबहु परिभाव्य परिभोगोऽनुज्ञातः। एतदेव व्याख्यानयति। कामं विम्हट्ठाणे, चत्तं पुण भावतो इमम्हेहिं। इति वेंते समणुण्णे, इच्छाकजेसु सेसेसुं॥ येषां स उपधिर्विस्मरणतः पतितस्तेषामन्तिकमानीयते नीत्वा चेदं भण्यते यथाऽयं युष्मद्विस्मरणतः पतितोऽस्माभिश्चानीतस्ततो गृह्यतामिति एवमुक्ते ते प्राहुःकामं नोऽस्माकं विस्मरणतः पतितमिदमुपकरणं परं भवत इदमस्माभिस्त्यक्तं त्रिविधं त्रिविधेन व्युत्सृजितमिति भावः / एवं ब्रुवति उपधिस्ते यदि संभोगिकास्तेन च विना संस्तरन्ति तर्हिस येषां सत्कस्तैः परिष्ठापयन्ति। "एतेन इच्छाकज्जेसु इति" व्याख्यातम्। संप्रति "सेसेसुत्ति" व्याख्यायते। शेषा असांभोगिकास्तेष्वपि कार्येष्विच्छा इयमत्र भावना अन्यसांभोगिकैरानीते तैश्च प्रतिषेधे यदि यैरानीतस्ते तेन विना संस्तरन्ति अन्यश्वोपधिदुर्लभो न लभ्यते वा तदा तैः समनुज्ञातं परिभुञ्जते एतावता "अप्पबहुसंथरंतम्मि" व्याख्यातम्। तदेवं संविग्नानां विधिः। इदानीं प्रसंविग्नानामुपधिविधिरुच्यते। पक्खिगापविखगा चेव, हवंति इयरे दुहा। संविग्पक्खिगेणेति, इयरेसिंन गेण्हात। इतरे असंविग्ना द्विविधास्तद्यथा पाक्षिका अपाक्षिकाश्च संविग्नपाक्षिका असंविग्नपाक्षिकाश्च इत्यर्थः / तत्र यः संविग्नपाक्षिकः संविग्नपाक्षिकस्य संबन्धी उपधिस्तं स्वयं वा नयति अन्यस्य वा हस्ते प्रेषयति संदेशयति वा यस्त्वितरेषामसंविग्नानामुपधिस्तं पतितं दृष्टान गृह्णाति। __ अत्रैवापवादमाह। इयरे वि होञ्ज गहणं, आसंकाए अणजमाणम्मि। किह पुण होजा संका, इमेहि उ कारणेहिं तु / / इतरस्मिन्नप्यसंविग्नपाक्षिकसंबन्धिन्युपधावसंग्नपाक्षिकसंबन्धित्वेनाज्ञायमाने आशङ्कया ग्रहणं भवेत्। सूरिराह एभिर्वक्ष्यमाणैः कारणैः तान्येवाह। ण्हाणादिसमासरण,अहव समावत्तितो गयाणेगा। संविग्गमसंविग्गा, इति संका गेण्हते पडियं / / जिनप्रतिमास्नानदर्शननिमित्तमादिशब्दात् संघप्रयोजनेन वा केनापि समवसरणे मेलापके यदि वा एवमेव समापत्तितो गताः पुरतोऽनेके संविग्ना असंविग्नाश्च तेषां गच्छतां कस्याप्युपधिर्विस्मरणतः पतितः सन ज्ञायते सम्यक् किं संविग्नानां केवलं स्यादसंविग्नानामपीति तं पतितं गृह्णाति। सविग्गपुराणोवहि, अहवा विहिसीवणा समावत्ती। होज व असीवितो चिय, इति आसंकाए गहण तु / / अथवा पुराणसंविग्नोषधेः किमुक्तं भवति येषां सत्क उपधिः पतितस्ते पूर्वं संविग्ना आसीरन्पश्चादसंविग्नीभूताः स चोपधिः पूर्व संविग्नसीवनेन सीवितः। अथवा संविग्नैरपि समापत्त्या विधिसीवनिकया सीवितो यदि वा असीवित एव संभवेत्ततस्तं दृष्ट्वा आशङ्गा भवति किं संविग्नानामुतासंविनानां तत आशङ्कया ग्रहणं भवति। संप्रति ग्रहणानन्तरविधिशेषमाह। ते पुण परदेसगते, नाउ भुजति अहव वखंति। अन्ने उ परिठ्ठवणा, कारणभोगा व गीएसु॥ तमुपधिं गृहीत्वा येषां संविग्नानां सत्क उपधिस्ते परदेशं गताः ततस्तान्परदेशं गतान् ज्ञात्वा कारणे समापतिते परिभुञ्जते अथवा कारणाभावे परिष्ठापयन्ति। एवं कारणैरसंविग्नानामपि पतितमुपधिं गृह्णानो न प्रायश्चित्तभाग्भवति। अथ येषां सत्क उपधिः पतितो गृहीतस्ते संविग्ना अप्यन्ये असांभोगिकास्तेषां देशान्तरगतानामुपधिं गृहीत्वा निष्कारणे परिष्ठापयन्ति (कारणत्ति) यदि ते सर्वे गीतार्था न च तेषामुपधिरेस्ति यदि वा तादृश उपधिरन्यो दुर्लभस्तदा एवं कारणे परिभुजते। अथ ते अगीतार्थमिश्रास्तदा परिष्ठाप्यन्ते प्रज्ञाप्य वा गीतार्थान्परिभुञ्जते एतचान्यसांभोगिकसत्कतया परिज्ञायते / द्रव्यपरिज्ञाने प्रागुक्त एव विधिः। विइये पदेन गेण्हेजा, संविग्गाणं पि एहि कञ्जेहिं। आसंकाएय नजइ, संविग्गाण च इयरेसिं॥ द्वितीयपदे अपवादपदे संविग्नानामपि पतितमुपधिमेभिर्वक्ष्यमाणैः कायः कारणैर्न गृह्णीयात् / तान्येवाह न ज्ञायते किमेष संविग्रानामुत इतरेषामसंविग्नानामित्याशङ्कया पतितं न गृह्णाति तथा / असिवगहियं व सोउं, ते वा भव व होज्ज जइ गहियं / ओमेण अन्नदेसं,, व गंतुकामा न गेण्हेजा।। येषां स उपधिस्ते अशिवगृहीता येन दृष्टः स नेत प्रथमो 1 भङ्गः यैर्दृष्टस्ते अशिवगृहीता येषां सत्कस्तेन गृहीता इति द्वितीयः 2 उभयं गृहीतमिति तृतीयः 3 उभमपि न गृहीतमिति चतुर्थो 4 भ