________________ उवहि 1106 - अभिधानराजेन्द्रः - भाग 2 उवहि - पन्थाः क्रियेत तत्र चोक्तं प्रायश्चित्तम्। तथा पथि द्रवीभावे दुरभिगन्धः उच्छलेत्तत्रापि प्रवचनोड्डाहस्तथा कोऽपि कलुषात्मा शङ्केत स्तेनक इति उपलक्षणमेतत् हेरिकोऽभिचारिको वा इत्यपि शङ्केत तत आदाने ग्रहणे प्रवचनस्य उड्डाहः तस्मात्पथि विश्रामणादि न कर्तव्यम्॥ अत्रैवापवादमाह॥ अच्छेय व दूरपहे, असहू भारेण खेदियप्पा वा। च्छन्ने व मोत्तुं पहं, गामसमीवे य छन्ने वा॥ अतिशयेनातप उष्णं तपति वृक्षाश्च पथिदूरे वर्तन्ते यथासन्नपल्लीमार्ग प्रतिपन्नानामेक एवाध्वनि विश्रमणहेतुरेकरववृक्षोऽन्यत्र सर्वत्राकाशं तेन कारणेन पथ्यपिवृक्षस्याधस्तात् विश्राम्येता असहोनाम नातिदूरे वृक्षाः सन्ति परं तत्र गन्तुं न शक्नोति ततः सोऽपि पथि वृक्षस्याधो विश्रमणं कुर्यात् / अथवा उपधिभारेण खेदितात्मा अतिशयेन परिश्रान्तस्ततः पथ उद्दर्तितुं न शक्नोतीति पथ्येव विश्रामयति / तदेवं पथ उभयोः पार्श्वयोर्दूरण वृक्षसंभवे द्वितीयपदमुक्तमिदानीं समन्ततो वृक्षच्छन्ने प्रतिपादयति / (छन्ने व मोत्तुं पहंत्ति) पन्था उभयोः पार्श्वयोवृक्षश्छन्नस्तत्र वा विभाषायां यदि निर्भयं ततः पन्थानं मुक्त्वाऽन्यत्र विश्रमणादि करोति / अथ भयं तदा पथ्येवेति एतद् दूरेऽभिहितम्।ग्रामासमीपे पुनर्निर्भयमिति वृक्षश्छन्नस्तत्र वा विभाषायां यदि निर्भयं ततः पन्थानमुक्त्वाऽयन्त्र विश्रमणार्थपथ उद्धृत्य विश्रमणादि करोति / ग्रामसमीपे यस्य तस्य वृक्षादेर्देवकुलादेश्छायासंभवात्तेन पुनः साधुना पथः कियदूरे उद्भर्तितव्यमत आह।। .पंथे ठितो नपेच्छइ, परिहरिया पुय्ववणिया दोसा। विइयपए असतीए, जयणाए वट्टणादीणि॥ तावति दूरे उद्धृत्य स्थातव्यं यन्न पथिकः पथा व्रजन्पथिऊर्द्ध-स्थितो वासाधुमुद्वृत्तं न पश्यति। एवं च पूर्ववर्णिता दोषाः समस्ता अपिपरिहताः। द्वितीये पदे अत एवापवादपदे पुनरुद्वर्त्तने असति उद्वर्तनाभावे पथ्यपि यतनया वक्ष्यमाणया स्थानादीनि करोतिसच तथा कुर्वन् तीर्थकराज्ञया प्रवृत्ते शुद्ध इति। सांप्रतमुद्वर्तनाभावं यतनां चाह। संकठहरियच्छाया, असतिय गहितोवही ठितो पेच्छे। उद्वेइव अप्पत्ते, सहसा पत्ते ततो पिटुं॥ संकष्टोनाम पन्थाः स उच्यतेयोवाद्योरपान्तराले तत्रोद्वर्तनस्यासंभवः / अस्य वा चतसृष्वपि दिक्षु समन्ततो हरितकायः। अथवा पन्थानमतिरिच्यान्यत्र सर्वथा छाया न विद्यते / ततः एतैः कारणैरुद्वर्तनासंभवे पथ्येव गृहीतोपकरणो मुहूर्तमात्रमूर्द्धस्थितो मार्ग एव छायायां विश्राम्येत / यदा तु पथिकानागच्छतः पश्यति तदा तेषु ते प्रदेशमप्राप्तेष्येव उत्तिष्ठति तथा ते जानन्ति पूर्वमेव उत्थित इति / अथ सहसैव ते पथिका अदृष्टा एव संप्राप्तास्तदा तेषां पृष्ठं दत्वा उत्तिष्ठति यथा ते जानन्तियथैष आत्मव्यापारेपोत्थित इतिएवं मिथ्यात्वदोषाः परिहता भवन्ति। मुंजण पाणुचारे, जयणं तत्थ कुवति।। उडाहडा उजे दोसा, पुव्वं तेसु जतो भवे // भोजने पाने उच्चारे च यतनां तत्र पथि करोति कथमित्याह। उदाहृताये पूर्व दोषास्तेषु यतो भवेत् यथा ते न भवन्ति तथा यतेतेति भावः। / गंतव्वपलोएवं, अकरणिलहुतो उदोस आणादी। पम्हुट्ठो वा सट्टे, लहुतो आणादिणो चेव॥ विश्रम्यउच्चारं प्रश्रवणं वा कृत्वा यदा गन्तव्यं भवति तदा सिंहावलोकनेन पश्चादवलोक्य गन्तव्यम् ।यदि पुनरवलोकनं न करोति तदा प्रायश्चित तस्य लघुको मासः / अधिकरणदोषाश्च प्रागुक्ताः कथमपि विस्मरणतः पतन्ति सम्भवति। आज्ञाभङ्गादयश्च दोषाः। तथा यदि कथमपि विस्भरतः पतितं स्यात् ततस्तद्ग्रहणाय प्रतिनिवर्तितव्यम्। यदि मन्यते किं तेनेति व्युत्सृजति तदा मासलघुकमाज्ञाभङ्गादयश्च दोषाः एतदेवाहपम्हुतु गंतव्वं, अगमणे लहुगो य दोसआणादी। निकारणम्मि तिन्नि उ, पोरिसीकारणे सुद्धो॥ कथमपि विस्मरणतः पतिते सिंहावलोकनेन च दृष्ट नियमतस्तदानयनाय पश्चात् गन्तव्यम् / अगमने प्रायश्चित्तं लघुको मासः। अधिकरणदोषाश्च प्रागुक्ता आज्ञादयश्च / तथा निष्कारणमिति कारणस्याभावे निष्कारणमस्मिन् यदि नास्ति निवर्तमानस्य प्रत्यवाय इत्यर्थस्तदा अवश्यं निवर्तितव्यम् / (तिण्णिउत्ति) यदि प्रथमायां पौरुष्यां विस्मरणतः पतितं चरमायां च पौरुष्यां स्मृतं तत्र यदि निष्प्रत्यवायमन्तरा च वासोऽस्ति यदा निवृत्त्य गृहीत्वा आनेतव्यमथ सूर्यास्तमयवेलायां स्मृतं यथा अमुकमेव विस्मरणतः पतितमिति तदा आद्यान् त्रीन् यामान् उषित्वा चतुर्थे यामे प्रतिनिवृत्त्यानेतव्यं प्रत्यवायाभावे कारणे तु प्रत्यवायलक्षणेऽनिवर्तमानोऽपि संशुद्धः / एतदेव भावयति / / चरमाए वि नियत्तइ, जइ वासो अस्थि अंतरा वसिमे। तिण्णि वि जामे वसिउं, नियत्तइ निरचये चरमे / / प्रथमायां पौरुष्यां विस्मरणतः पतितेतदानयनाय चरमायामपि पौरुष्यां निवर्तते यदि च तेषामन्तरा वासोऽस्ति / अथ चरमायां दिनपौरुष्यां पतति तदा रात्रेस्त्रीन्यामानुषित्वा चरमे यामे निरत्यये प्रत्यवायाभावतो निर्भयो निवर्त्तते॥ कारणे सुद्धो इति व्याख्यानार्थमाह। दूरं सो विय तुच्छो, सावयतेणानदी व वासं वा। इबाइकारणेहिं, करेंति उस्सग्गमो तस्स / / दूरमतिशयेन गतानां स्मरणपथमवतीर्णः पतित उपधिः सोऽपि वा उपधिरतिशयेन तुच्छः / मुखपोत्तिकादिरूपोऽतिशयजीर्णश्चेति भावः। अथवा अपान्तराले व्याघ्रादीनि स्वापदानि स्तेना वा शरीरापहारिण उपकरणापहारिणो वा नदी वाऽपान्तराले वर्षा वा पतति आदिशब्दात म्लेच्छभयं वा अशिवं वेत्यादि परिग्रहः इत्यादिभिः कारणैस्तस्य विस्मरणतः पतितस्योपकरणस्य उत्सर्ग"वोसिरामिति' त्रिभणनपूर्वक परित्यागं करोति एवं करणे अधिकरणादयो न भवन्ति॥ .एवं ता पम्हुट्ठो,जेसिंतेसिं विही भवे एसो। जे पुण अन्ने पेच्छे, तेसि तु इमो विही होइ।। एवमुक्तेन प्रकारेण तावत् येषामुपधिर्विस्मरणतः पतितस्तेषामेषोऽनन्तरोदितो विधिर्भवति ये पुनरन्ये साधर्मिका प्रेक्षन्ते तेषामयं वक्ष्यमाणो विधिर्भवति। तमेवाह / / दलु अगिण्हणे लहुगो, दुविहो उवही उ नायमण्णातो। दुविहानायमणाया, संविग्ग तहा असंविग्गा / / द्विविध उपधिरौधिक औपग्राहिकश्च / तस्य द्वितयस्यापि पति