________________ उवहि ११०८-अभिधानराजेन्द्रः - भाग 2 उवहि पथियदि विश्राम्यति निवसति वा आदिशब्दात्ऊर्द्धस्थितो वा तिष्ठति सुप्तो वा उचारं प्रश्रवणं वा व्युत्सृजति तदा सर्वत्र असमाचारीति निष्पन्नं प्रायश्चित्तं मासलघु / यदि पुनरागन्तृणां स्थाने सभाऽऽदौ विश्रमणादि करोति तदा सर्वत्र प्रत्येकं चत्वारो लघुकाः आज्ञादयश्च दोषाः। संप्रति पथि विश्रमणादौ दोषानाह। मिच्छत्त अन्नपंथे, धूली उक्खिणण उवहिणासो। तेचेवय सविसेसा, संकादिविविंचमाणे वि॥ स साधुः पथि विश्राम्यति धिग्जातीयाश्चान्ये जातिमदावलिप्तास्तेन पथा समागता भवेयुस्ततः स साधुः चिन्तयेत् / मा मन्निमित्तमेते उद्वर्त्तमाना हरितकायादिविराधनां कार्युरिति स साधुः पथि उत्थाय अन्यत्र तिष्ठेत् तत्र च इमे दोषा जानन्त्येतत् श्रमणवादिन आत्मनः सारमतोऽयमस्मान् दृष्ट्वोद्वृत्त इति तथा साधूनां धिग्जा-तीयानां पथि दत्ते त एव तेषामपि गुरवो धिग्जातीयाः प्रधानाश्च एतच्चाभिनवधर्माणः श्रुत्वा दृष्ट्वा च मिथ्यात्वं प्रतिपद्येरन् तथा (अण्णपंथेत्ति) तं साधु पथि स्थितं दृष्ट्वा पथिका उदृत्य व्रजन्ति ते चोद्वर्तमाना हरितकायादीनां विराधनां कुर्वन्ति / तथा केचित्तं पथि स्थितं दृष्टा ब्रुवते अहो निर्लज्जाः श्रमणाः पत्थानंरुध्वा स्थिताःतच श्रुत्वा कोऽप्यसहमानः कलहं कुर्यात् ततो युद्धे समापतिते भाजने भेदोऽनागाढादिः परितापना च स्यात् / तथा पादनिक्षेपेण धूल्या उत्खननं भवति तेन च उपधेर्विनाशो मलिनत्वभावात् / ते एवानन्तरोदिता दोषाः सविशेषाः शङ्कादयो विचिकित्साऽपि उच्चारादिना तथा हि उच्चारादि पथि कुर्वतो लोकस्य शङ्कोपजायते किमनेनगुदं निर्लेपितमुत नेति आदिशब्दात्किमेष स्तेनकः किं वा श्रमणोऽभिचारको हेरिको वा इत्यादिपरिग्रहः एष द्वारगाथासंक्षेपार्थः। सांप्रतमेनामेव गाथां विवरीषुः प्रथमतो मिथ्यात्वद्वारं विवृणोति। पंथेन ठाइयव्वं,बहवो दोसा तहिं पसजंति। अन्मुट्ठियम्मि गुरुगा, जंवा आवञ्जती जुत्तो॥ पथि साधुना विश्रमणनिमित्तं न स्थातव्यं यतस्तत्र बहवो दोषाः प्रसजन्ति तानेवाह। साधुना धिग्जातीयानां पथि प्रदत्ते अभ्युत्थिता एते अभ्युत्थानमेतेषां कृतमितिलोकप्रतिपत्तौ तस्य प्रायश्चित्तं चत्वारो गुरुकाः यच्च स्वयं दृष्ट्वा यतो वा श्रुत्वा मिथ्यात्वमापद्यते अभिनवधर्मा मिथ्यादृष्टिा गाढतरं मिथ्यात्वमधिगच्छति तनिष्पन्नं च तस्य प्रायश्चित्तं धिग्जातीयानां चात्मबहुमानसंभवस्तथा चाह / जाणंति अप्पणो सारं, एते समणवादिणो। सारमेएसि लोगो य-मप्पणो न वियाणई।। ये आत्मानं श्रमणमिति वदन्ति ते आत्मनः सारं परमार्थतत्वं जानन्ति यथाऽस्मभ्यमेते गरीयांस इति यस्त्वेतेषामयं लोकः संसारमर्थतत्वमात्मनो न विजानाति अविदितपरमार्थत्वात्। गतं मिथ्यात्वद्वारम्। अधुना अन्यपथद्वारमाह। अण्णपहेण वयंते, काया सो चेव वा भवे पंथे। अचियत्त असंखमादी, भायणविराहणाचेव॥ तं साधु पथि स्थितं दृष्ट्वा पान्था अन्येन पथा व्रजन्ति तथा च सति काया हरितकायादयो विराध्यन्ते। तथा स एव भवति पन्थास्ततो महान् | प्रवर्तनादोषः तथा पथि स्थितं दृष्टा कस्यापि (अचियत्ति) | अप्रीतिरुपजायते ततः स ब्रूते अहो मुण्डः पन्थानं रुप्ध्या स्थितस्तस्य श्रुत्वा कोऽप्यसहमानोऽसंखड कलहं कुर्यात् आदिशब्दात् युद्धमपितथा च सति भाजनविराधना आदिशब्दादनागादादिपरितापना भावतः शरीरविराधना च / संप्रति "धूली उक्खणण उवहि विणासो इति' व्याख्यानयति। सरक्खधुली चेयण्णे, पत्थिवाणं विणासणा। अचित्तरेणुमइलम्मि, दोसा होति अधोवणे॥ सह रजसा श्लक्ष्णधूलिरूपेण वर्तते इति सरजस्कः स चासौ धूलिश्च तस्याश्चैतन्यस्तस्यां चेतनायामित्यर्थः पादनिक्षेपेण उत्खनेन शरीरादिसंस्पर्शतः पार्थिवानां पृथिवीकायानां विनाशनं भवेत् / अथ सोऽचित्तो रेणुस्तर्हि तेनाचित्तेन रेणुना मलिने उपधौ यदि प्रक्षालयति तथाऽपि दोषः / प्राणविराधनापत्तेर्वा कुशत्वसंभवाच अप्रक्षालनेऽपि दोषाः प्रवचनहीलनाद्यापत्तेः। अन्यच।। वेगाविद्धो तुरंगादी, सहसा दुक्खनिग्गहा। / परम्मुहं मुहं किया, पहि ठाणं पणोल्लए। वेगाविद्धो वेगेनागच्छन्तस्तुरङ्गादय आदिशब्दावलीव नामपि परिग्रहः / सहसा दुःखेन निगृह्यन्ते निवार्यन्ते इति दुःखनिग्रहा निवारयितुमशक्या इति भावस्ततःशरीरविराधना भाजनविराधना च। तथा के चित्प्रान्ताः परान्मुखं मुखं कृत्वा पथि स्थितं साधु प्रणुदेयुर्गाथायामेकवचनं प्राकृतत्वात्प्राकृते हि वचनव्यत्ययो भवति। किं च। पम्हुट्ठमवि अन्नत्थ, जइहा कोति पेच्छति। पंथे उपरिपम्हटुं, खिप्पं गेण्हति अद्धगा॥ पथोऽन्यत्र विस्मरणतः पतितमपि प्रेक्ष्यते पथि पुनः अध्वगा परिभ्रष्ट क्षिप्र गृह्णन्ति तस्मात्पथिन विश्रमितव्यम्। एवं ठितोवविठ्ठ, सविसेसतरा भवंति उण्णिवणे। दोसा निदपमायं, गते य उवहिं हरति त्तो॥ एवममुना प्रकारेण स्थिते ऊर्द्धरथानेनावतिष्ठमाने तथा उपविष्टमाने वक्तव्यानि चात्र शयाने सविशेषतरा दोषा भवन्ति / तथाहि पूर्वोक्तास्तावत्तथैव द्रष्टव्याः। अन्यच्च शयाने कथमपि निद्राप्रमादं गते उपधिमन्ये पथिकादयो हरन्ति तस्मात्पथि न शयितव्यमिति। संप्रति "चे वय सविसेसा संकादिविविंचमाणे वी" त्येतद्व्याख्यानार्थमाह / / उचारं पासवणं, अणुपंथे चेव आयरंतस्स। लहुतो य हो य मासो, चाउम्मासो सवित्थारो / / उच्चारं प्रश्रवणं वाऽध्वगानामनुकूले पथि अवतरतः समाचारी-निष्पन्न प्रायश्चित्तं लघुको भवति मासः। अथ तथोच्चारं प्रश्रवणं वा कुर्वन्तमवलोक्य केचिदन्यं पन्थानं कुर्वन्ति तत्र चत्वारो मासा लधुकाः (सवित्थारोत्ति) यच स्त्र्यादिभिः सह संघट्टनादिप्राप्नोति तन्निष्पन्नमपि तस्य प्रायश्चित्तमिति भावः। तथा। छड्डावणमन्नपडो, दवासतिय दुब्भिगंधकलसप्पे। तेणो त्ति व संकेजा, आदियणे चेव उड्डाहो। कोऽपि स एव राजकुलमान्यः प्रान्तः श्रमणमुच्चारं पथि कुर्वन्तं दृष्टा कोपात्तमेव श्रमणमास्कन्द्य तमुच्चारं छड्डापयेत् अपरेरन्यः