________________ उवहि 1107 - अभिधानराजेन्द्रः - भाग 2 उवहि अन्तामादीनां मध्ये बहिर्विचारभूमौ वा परिष्ठापयति विस्मरति "पम्हुट्ठति वा परिट्ठवियंति वा एगट्ठमिति" वचनात् प्रायश्चित्तं लधुको मासः / कस्मादीदृशं प्रमादं करोतीति हेतोः कः पुनर्दोषो यतो विस्मृतमत आह अन्यतरत् जघन्य मध्यममुत्कृष्ट वा उपकरण दृष्ट ततो जाता शङ्का ततश्च न केचनापि ग्रहीष्यन्ति / शङ्कामेव स्पष्टतरां भावयति / (किं होजेत्यादि) साधवस्तदन्यतरत् उपकरणमन्तर्बहिर्वा दृष्ट्वा शन्ते किमेतत् परिष्ठापितमुत कस्यापि विस्मृतं भवेत् एवं शङ्कमानास्तदुपकरणं विस्मृतं न गृह्णन्ति यतो गृह्णन्नपि जनैः शक्यते तथाहि तत् पतितंगृह्णन्तं संयतं कोऽपि दृष्ट्वा शङ्केत किमेतस्य अन्यस्य वा / किमुक्तं भवति / किमात्मीयं पतितंगृह्णाति किं वा परकीयं कस्यापि दानार्थमेवं शङ्कासंभवे तस्य प्रायश्चित्तं चत्वारो लघुकाः / अथ निःशङ्कितं परेषां स्यात्तदा चतुर्गुरुकम्। एवं शङ्कासंभवतो न गृह्णन्ति तस्मिश्चागृह्यमाणे इमे दोषाः। थिग्गल छित्ता पोत्ते, वालगचीराइएहिं अहिगरणं। बहुदोसतमा कप्पा, परिहाणी जा विणा तं च // तत्पतितं यथालधु स्वकरणं गृहस्थैर्दृष्ट ततस्ते तत् गृहीत्वा अन्यस्य च्छिद्रवतो वस्त्रस्य थिग्गलकं कुर्वन्ति तथा प्रक्षाल्य पोतकानि वहिकापट्टिकादिरूपाणि कुर्युर्यदिवा उत्तानशायिनां वालकानां योग्यानि चीवराणि विदधीरन् इत्येवमादिभिः प्रकारैर्यथालघु स्वकस्योपकरणस्याग्रहणे अधिकरणं यदा तु पतिताः कल्पानगृह्यन्तेतदा तेबहुदोषतमाः प्रभूततमं तेष्वधिकरणमिति भावः। तच उपकरणं याचमानस्य परिहाणिः सूत्रार्थयोः ये च तृण-ग्रहणाग्निसेवनादयो दोषास्तेऽपि प्रसजन्ति। एते अण्णे य बहू, जम्हा दोसा तहिं पसजंति। आसपणे अंतो वा, तम्हा उवहिं न वोसिरए। एते अनन्तरोदिता अन्ये च यस्माद्बहवो दोषास्तत्र पतिते प्रसजन्ति तस्मात् ग्रामादीनां बहिरासन्ने प्रदेशे अन्तर्वा तमुपधिं व्युत्सृजेन्न विस्मरणतः पातयेत्। अधुना यः शङ्कातः शङ्कमानो वा न गृह्णाति तं प्रत्युपदेशमाह। निस्संकियं तु नाउं, विचुयमेयंति ताहे घेत्तव्वं / संकादिदोसविजढा, नाउं अप्पंति जस्स तयं / / यदा एतदुपकरणं कस्यापि विच्युत्तं विस्मरणतः पतितमिति तदा नियमतो ग्रहीतव्यं गृहीत्वा च शङ्कादिदोषरहितानामविषये कस्यापि शङ्का स्यादित्यादिदोषवर्जिता यस्य तदुपकरणं तस्य ज्ञात्वा समर्पयन्ति। एतच्च यद्विषये कर्त्तव्यं तानाह। समणुण्णे इयराणं, वा संजतीसंजयाणं वा। इयरे उ अणुवदेसो, गहियं पुण घेप्पए तेहिं / / समनोज्ञानां सांभोगिकानामितरासामसांभोगिकानां संयतीनां संयतानां वा सत्कमुपकरणं पतितं गृहीत्वा यस्य सत्कं तस्य दातव्यमितरे तु पार्श्वस्यादयस्तेषामनुपदेशस्तेषां सत्कंपतितंगृहीत्या यस्यसत्कं तस्मै देयमिति नास्माकमुपदेशोऽधिकरणप्रवृत्तेस्तैः पुनः पार्श्वस्थादिभिः संविग्नानां विहारिणामेतदुपकरणमिति ज्ञात्वा यत्पतितं गृहीतंतदानीतं पुनर्गृह्यते। अत्रैव द्वितीयपदमाह। विइयपदेन गेण्हेजा, विवचियजुगुछिए असंविग्गे। तुच्छनपओयणं वा, अगण्हता होय पच्छित्ती॥ द्वितीयपदे अपवादपदे न गृह्णीयात् पतितं विवञ्चितं परिष्ठापितमिति कृत्वा जुगुप्सितमशुचिस्थानपतितमिति वा कृत्वा असंविनानां वा एतदुपकरणमिति ज्ञात्वा तथा तुच्छंमुखपोत्तिकादितदपि कुथितत्वादिना कारणेनाप्रयोजनमगृह्णतो भवति प्रायश्चित्तम् / सांप्रतमेनामेव गाथा विवृणोति॥ अंतो विसगलजुण्णं, विवंचियं तं च ददव नो गिण्हे। असुइट्ठाणे वि चुतं, बहुधा वालादिछन्नं वा / / अन्तर्दामादीनां मध्ये विशकलं खण्डाखण्डीकृतं जीणं विवेचितं परिष्ठापितमिति ज्ञातव्यं यच्च दृष्ट्वा न गृह्णीयात्। तथा अशुचिस्थाने-ऽपि च्युतं बहुधा वा व्यालादिभिश्च प्रवृत्तिभिच्छन्नं न गृह्णीयात्॥ हीणाहियप्पमाणं, चित्तलं विरंगभंगीय। एएहिं कारणेहि य, नाऊणं तं विवज्जति॥ हीनं चाधिकं च हीनाधिकं तत्प्रमाणं यत्र तत् क्वचिद्धीनं क्वचिदधिकमित्यर्थः / तच्च सीवनिकया चित्रलं चित्रं सीवनिकाचित्रलं रङ्गेन रागद्रव्येण भर्विच्छित्तिर्यत्र तद्विरङ्गभङ्गि तद् दृष्ट्वा एतैः कारणैरयमसंविग्नानामुपधिरिति ज्ञात्वा विवर्जयन्ति / / एमेव य वीयपदे, जं तो उवरिद्वविज्जइ इमेहिं। तुच्छो अतिजुण्णो वा, सुण्णे वा विविंचेजा। एवमेव अनेनैव प्रकारेण एभिर्वक्ष्यमाणैामादीनाभन्तर्द्वितीय-पदेन परिष्ठापयेत् / पतितं न गृह्णीयात् / कै रित्याह तुच्छो मुख-- पोत्तिकापादप्रोञ्छनादिकः कुथितत्वादिना अकिञ्चित्करो यदि वा अतिजीर्णो हस्तेन गृह्यमाणोऽनेकधा विशरारुर्जायते शून्ये वा विविक्ते प्रदेशे पतितो यत्र विस्मरणासंभवः। ततः एतैः कारणैः परिष्ठापित एष उपधिरिति कृत्वा विविच्य न गृह्णीयादिति भावः। एमेव य बहिया वि, वियारभूमीए होज त घेत्तु। तस्स विउ एस गमो, हाइयणेओ निरवसेसो।। एवमेव अनेनैव प्रकारेण ग्रामादीनां बहिरपि विचारभूमौ पतितं भवेत्। तस्याप्येष एवानन्तरोदितो गमः प्रकारो निरवशेषो ज्ञेयो ज्ञातव्यो भवति। तदेवं सूत्रद्वयं भावितम्॥ अधुना तृतीयसूत्रभावनार्थमाह / गामो खलु पुव्वुत्तो, दूइजंते उ दोन्नि दुविहाणे। अन्नतरग्गहणेणं, दुविहो होइ उवहीणो॥ ग्रामः खलु पूर्वमुक्तस्तस्मादनुकूलोऽन्यो ग्रामोऽनुग्रामःग्रामश्चानुग्रामश्च ग्रामानुग्रामं समाहारत्वादेकवचनं तत् दूयमानस्य गच्छतस्तस्मिन् गच्छति द्विविधा ऋतुबद्ध काले गन्तव्यम्। तथा पादाभ्यामिति आभ्यां द्वाभ्यां प्रख्या। संप्रति नियुक्तिविस्तरः / / पंथे उवस्सए वा, पासवणुचारइयंते वा। पक्खुसती एएहिं, तम्हामोत्तूणिमे ठाणा / / तत् उपकरणं पथि व्रजतः कथमपि एतत् ग्रामानुग्राम वा गच्छन् यत्रोपाश्रये उषितस्तत्र विस्मरणतः पतितं भवेत् विश्राम्यतो वा कृचित्पतितं स्यात् उच्चारं प्रश्रवणं वा कुर्वतः स्यात्पतितं आचमतो वा विस्मृतमेतैः कारणैर्विस्मरणः पतनसंभवस्ततो येषु विश्राम्यत उच्चारं प्रश्रवणं वा कुर्वतो दोषा भवन्ति तानीमानि स्थानानि वर्जयेत। तान्येवाह॥ पंथे वासमणनिविसणादि, तो मासो होइ लहुओ उ। आगतरसंठाणे, लहुगा आणादिणो दोसा / /