________________ उवहि 1106 - अभिधानराजेन्द्रः - भाग 2 उवहि सार्थेन सार्द्ध जनपदमुपयान्ति। अथैष भद्रकस्ततोऽन्यपल्लीपतौ यतना | भणिता॥ फजुगपइए पंते, भणंति सेणावई तेहिं। एते उत्तरमाड-बियाइ जा पच्छिमा राया।। इह मूलपल्ली मुक्त्वा या अन्याः पल्ल्यस्तासामधिपतयो मूलपल्लीपतिवशवर्तिनः स्पर्द्धकपतय उच्यन्ते तेषामेकतरेण साधवो विविक्ताः स च प्रकृत्यैव प्रान्तस्ततस्तस्मिन् प्रान्ते बहुशोऽपि मार्गिते उपकरणमप्रयच्छति मूलसेनापति भणन्ति धर्मकथादिना प्रज्ञापयन्ति स च प्रज्ञापितः सन्न दापयति / अथ सोऽपि प्रान्तस्ततो यः कोऽपि माडम्बिकश्छिन्नमडम्बाधिपतिः स प्रज्ञाप्यते तत उत्तरोत्तरं तावन्नेतव्यं यावदपश्चिमः सर्वान्तिमो राजा तमपि प्रज्ञाप्योपकरणं गृहीतव्यमिति भावः / अथ प्रमादाद्युपगतो न मार्गयति न वा धौतरक्ताधिकमसंयतप्रायोग्यमिति कृत्वा च गृह्णाति ततश्चतुर्लघवः। वसिमे वि विवित्ताणं, एमेव य वीसुकरणमादीय। वोसिरणे चउलघुगा, जं अहिगरणं वहाणा य॥ न केवलमध्वनि विविक्तानां किं तु वसिमेऽपि जनपदे विविक्तानामुपकरणविष्वक्करणादीनि कार्याण्येवमेव मन्तव्यानि यस्तु स्वोपकरणं व्युत्सृजति को नामात्मानमायासयिष्यतीति कृत्वा न गवेषयतीति भावस्तस्य चत्वारो लघवः यचाधिकरणमप्कायप्रक्षालनादि याचते तेनोपकरणेन विना सूत्रार्थयोः संयमयोगानांचापरिहाणिस्तनिष्पन्नमपि प्रायश्चित्तं यत एवमतः सर्वप्रयत्नेन गवेषणीयम्। बृ०१ उ०। (14) भिक्षणाय गतं भिक्षुमुपनिमन्त्रयेत्। (सूत्रम्) निग्गंथं चणं गाहावइकुलं पडियपडियाए अणुपविटुं केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतिजा कप्पइ से सागरकडगहाय आयरियपायमूले वंदित्ता दोचं पि उम्गहं अणुन्नविए। अस्य सूत्रस्य संबन्धमाह। अविरुद्ध भिक्खगतं, कोइ निमंतेज वत्थईहि। कारणविरुद्धचारी, विगिंचिते वावि गेण्हेजा। अविरुद्ध विरुद्धराज्यरहिते ग्रामादौ विरुद्धराज्यचारी स्तेनादिभिर्विविक्तो मुषितः सन् वस्त्राणि गृह्णीयात् अतो वस्त्रग्रहणविधिः प्रतिपाद्यते। अहवा लोइय तेणं, निव सममइक्कम्म पच्छिम भणितं / दोचमणणुम्नवेडं, उत्तरियं वत्थभोगादी॥ अथवा नृपसमानमतिक्रम्य विरुद्धराज्यसंक्रमणे लौकिकस्तैन्य-- मिदमनन्तरसूत्रे भणितम् / अथ द्वितीयं वारमवग्रहमाचार्यसमीपे अननुज्ञाप्य तदा वस्त्रपरिभोगमादिशब्दात् धारणं वा करोति तदा लोकोत्तरिकस्तैन्यं भवतीति प्रतिपाद्यते / एभिः संबन्धैरायातस्यास्य व्याख्या निग्रन्थपूर्वोक्तशब्दार्थं चशब्दोऽर्थान्तरोपन्यासे णमिति वाक्यालङ्कारे गृहस्य पतिः स्वामी गृहपतिस्तस्य कुलं गृहपिण्डणतप्रतिज्ञया पिण्ड ओदनादिस्तस्य पातपात्रं प्रविष्टस्तत्प्रतिज्ञया तत्प्रत्ययमनुप्रविष्टः कश्चिदुपासकादिर्वस्त्रेण वा प्रतिग्रहेण वा कम्बलेन वा पादप्रोञ्छनेन वा उपनिमन्त्रयेत् वस्त्र सौत्रिकमिह गृह्यते प्रतिग्रहः पात्रकं कम्बलमौर्णिककल्प पात्रशब्देन तु पात्रके गरिकाप्रभृतिकः पात्रनिर्योगः प्रोञ्छनशब्देन तु रजोहरणमुच्यते / आह च चूर्णिकृत् / "पायग्गहणेण पायभंडयंगहियं पुंछण रयहरणंति' एतैरुप समीपे आगत्य निमन्त्रयेत् उपनिमन्त्रितस्य च (से) तस्य निग्रन्थस्य साकारकृतमाचार्यसत्कमेतद्वस्वं न मम अतो यस्यैव महतो आत्मनो वा परिभोगिष्यते तस्यैतद्भविष्यतीत्येवं सविकल्पवचनव्ययितं स गृहीत्वा ततः आचार्यपादमूले तद्वस्त्र स्थापयित्वा यदितस्यैव साधोः प्रयच्छन्तितदा द्वितीयमप्यवग्रहम् / एकस्तावद् गृहस्थादवग्रहोऽनुज्ञापितः द्वितीयं पुनराचार्यपादमूलादवग्रहमनुज्ञाप्य धारणापरिभोगरूपं द्विविधपरिहार तस्य वस्त्रस्य परिहतु धातूनामनेकार्थत्वादाचरितुं कल्पते इति सूत्रसंक्षेपार्थः ।बृ०१उ० (एतद्विस्तरार्थ एव वस्त्रयाचनविधौ वत्थशब्दे वक्ष्यते) (उपधिविषयोऽवग्रहः उग्गहशब्दे उक्तः) (15) भिक्षार्थं गतस्योपकरणपतने विधिमाह। (सूत्रम्) निग्गंथस्स णं गाहवतिकुलं पिंडवायपडियाए अणुपविट्ठसं आहलिहुस्सए उवकरणजाए पविभट्टे सिया तं च केइ साहम्मिया पासेज्जा कप्पति णं सागरकडं गाहा यजथेवत अण्णमण्णं पासेज्जा तथेकं तमाणावाहे बहु फासुए थंडिले परिट्टवेयव्वेसिया॥ निर्ग्रन्थस्य णमिति वाक्यालङ्कारे गृहपतिकुलं ("पिंडवायपडियाए इति") पिण्डं भक्तं पानं वा पातयिष्यामीति बुद्ध्या यथा सहोष्ट्र "सुत्तं पगडंतु निग्गओ" आनेष्यामीति बुद्ध्या निर्गत इत्यर्थः। अनुप्रविष्टस्य यथालघुकमेकान्तलघुकं जघन्यं मध्यमं वा इत्यर्थः / उपकरणजातं परिभ्रष्टं पतितं स्तात्तच्च कश्चित्साधर्मिकः पश्येत्कल्पते (से) तस्यासागारकृतनाम यस्यैवेदमुपकरणं तस्यैवेदं देयमिति बुद्ध्या गृहीत्वा यत्रैवान्यमन्यं साधर्मिकं पश्येत्तत्रैव एवं वदेत् इदं भो आर्य ! किं परिज्ञातं ततस्तस्यैव प्रतिनिर्यातव्यं समर्पणीयं स्यात्किमुक्तं भवति यदि तस्य सत्कं तर्हि तस्मै दीयते। अथब्रूयादमुकस्य सत्कं यदा तस्येति स च वदेत् नपरिज्ञातं न कोऽपि न जानातीति भावः तर्हि तन्नात्मना परिभुञ्जीतन अन्यस्यदर्शयेत्कित्येकान्ते बहुप्रासुके स्थण्डिले परिष्ठापयितव्यं स्यात्। "एवं निग्गंथस्सणं बहिया वियारभूमि वा विहारभूमि वा निक्खंतस्से" त्याद्यपि सूत्रं भावनीयम् / तथा निर्ग्रन्थस्य णमिति प्राम्वत् ग्रामानुग्राम "अदूरइज्जइगामानुग्गामं दूरइज्जमाणस्सेत्ति'' विहरतोऽन्यतरत् उपकरणजातं परिभ्रष्टं स्यात्तच कश्चित्साधर्मिकः पश्येत्कल्पते (से) तस्य सागारकृतं गृहीत्वा दूरमप्यध्वानं परिवोढुं "जत्थेवेत्यादि' प्राग्वत् एष सूत्रत्रयसंक्षेपार्थः / संप्रति भाष्यकृत् यथालघुस्वकग्रहणं तृतीयसूरगतमन्यतरग्रहणं व्याख्यानयति। दुविहो य अहालहुतो, जहण्णतो मज्झिमो य उवहीओ। अन्नयरगहणेण उ, घेप्पइ तिविहो उ उवहीओ।। यथालघुस्वक उपधिर्द्विविधो भवति जघन्यो मध्यमश्च अन्यतरग्रहणेन तुत्रिविधोऽप्युपधिः परिगृह्यते। तदेवं कृता विषमपदव्याख्या भाष्यकृता। संप्रति नियुक्तिविस्तरः। अंतो परिट्ठवंते, बहिया व वियारमादिसु लहुगो। अन्नयरं उवगरणं, दिटुं संका न घेप्पंति॥ किं हुज्ज परिद्ववियं, पम्हुछा वा वितो न गेण्हंति / किं एयस्सन्नस्स व, संकिज्जइ गेण्हमाणो वि।।