________________ उवहि 1103 - अभिधानराजेन्द्रः - भाग 2 उवहि न केवलमध्वनि विविक्तानामेष विधिः किन्तुग्रामादौ वसिमे पथिवसतां यत्रोपधिरग्निकायेनध्मापितो दग्धः अवमौदर्ये या विक्रीतः चौरैर्वा हृतः वर्षासु वा पानीयपूरेण वा व्यूढपरिजीर्णो वा पुराणतया दुर्बलीभूतो विवक्षितं कार्यं कर्तुप्रसमर्थः तत्राप्येवमेवानन्तरोक्तो विधिमन्तव्यः। अत्र चापरो विशेष उपदर्श्यते यत्र ग्रामे साधवः स्थिताः सन्ति तत्र सार्थः कश्चित्प्राप्तः स च आदित्योदयात्पूर्वमेवोत्थितः उचलितुमारब्धो वर्तत यत्र च गतस्य तस्य रविरुदेष्यति तत्र गच्छता अपान्तराले चस्तेनादिभयं स्तेनैर्वो साधवो दग्धा-धुपधयस्तं सार्थ नक्तं रात्रौ प्राप्ताः प्राग्ये प्रभाते अनुद्गते एव सूर्ये अग्रतश्चलितुकामाः अतो रात्रावेव यथोक्तनीत्या वस्त्रादि गृह्णीयुः। (सूत्रम्) अन्नत्थ एगाय हरिया हडिया एसा वि य परि-भुत्ता वा घट्ठा वा मट्ठावा संपधूमिया वा।। अस्य संबन्धमाह। सुत्तेण चेव जोगो, हरियाहडि कप्पए निसि चित्तुं। हरिऊण य आहडिया, बूढा हरिएसु वा हट्ट। सूत्रेणैव सूत्रस्य योगः संबन्धोऽत्रास्ति अनन्तरसूत्रे रात्री वस्त्रादिकंग्रहीतुं कल्पते इत्युक्तम् / अत्र तु या व्याहृता हृतिका सा निशि रात्रौ ग्रहीतुं कल्पते इति प्रतिपाद्यते अनेन संबन्धे नायातस्यास्यव्याख्या। न कल्पते / रात्रौ वस्त्रं ग्रहीतुमिति प्रतिषेधोऽन्यत्रैक स्या हताहृतिकाया हरिताहृतिकाया वा तत्र पूर्व हृतं पश्चादाहृतमानीतं वस्त्रं हताहृतं तदेव हताहतिका स्वार्थे क प्रत्ययः। अनिवर्तन्ते स्वार्थिकप्रत्ययप्रकृतिलिङ्गवचनानीतिवचनादत्र रूढितः स्त्रीलिङ्ग-निर्देशः। एवं हरितेषु वनस्पतिसु आहृत हरिताहृतं वस्त्रंतदेव हरिताहतिका सोऽपिच परिभुक्ता परिधानादौ व्यापारिता धौता अप्कायेन प्रक्षालिता रक्ता विचित्रवणकैरुपरञ्जिता घृष्टा घट्टकादिना घटिता मृष्टा सुकुमारीकृता संप्रधूमिता धूपद्रव्येण समं ततः प्रकर्षेण धूपिता वाशब्दः सर्वोऽपि विकल्पार्थः / एवंविधाऽपिसा स्वीकर्तव्या पुनरसाधुप्रायोग्या कृतेति कृत्वा परिहर्तव्येति सूत्रार्थः। अथ भाष्यम्। "हरिउणय' इत्यादि पश्चार्द्ध स्तेनैः पूर्वं हृता पश्चाद्वस्त्रमाहृतमानीतं तदेव हृताहृतिके त्युच्यते / यद्वा हृतेषु प्रक्षिप्ता या सा हरिताहृतिका / सा पुनः कथं भवतीत्याह। अद्धाणमणद्धाणे, व विवित्ताणं तु होज आहडिया। अविहिम्मि संति खेमे, विहम्मगच्छे सइ गुणेसु // अध्वनि अनध्वनि वा विविक्तानां हृताहृतिकाः संभवन्तितत्र (अविहे) अनध्वनि मासकल्पेन विहरन्तो क्षेमं निरुपद्रवमादौ च सति सत्सु विद्यमानेषु ज्ञानादिगुणेषु विहमध्वानं न गच्छेत् न प्रविशेत्। तथा चाह। उद्धद्धरेसु मिक्खे, अद्धाणपवचणं तु दप्पेण / लहुगा पुण सुद्धपए, जं वा आवजई जत्थ।। नाणट्ठदंसणट्ठा, चरित्तद्वा एवमाइगंतव्वं / उवगरणपुष्वपडिले-हिएण सत्येण गंतव्वं / / गाथाद्वयमपि प्राग् व्याख्यातम् / तत्राध्वनि प्रविशतां विधिमाह-- अद्धाण पविसमाणा, गुरुं पवादिति ते गता पुरतो। अह तत्थ पवादंति, चाउम्मासा भवे गुरुगा। अध्वानं प्रविशन्तः प्रथममेव गुरुमाचार्य प्रवादयन्ति गुरुप्रवाद मुत्थापयन्तीत्यर्थः। तथा ते अस्माकमाचार्याः पुरतः पूर्वमेवान्येन चार्थेन सहगताः अतएव वयं त्वरामहे कथं नाम तेषांसमीपंक्षिप्रमेव प्राप्नुयामः / अथ तत्राध्वनि प्रविशन्त एवं न प्रवादयन्ति ततश्चतुर्मासा गुरुकाः प्रायश्चित्तम्। गुरुसारक्खणहेउं, तम्हा थेरो उ गणधरो होइ। . विहरइ य गणाहिवई, अद्धाणे होइ भिक्खुस्स। गणधराकारधारकः क्रियत इत्यर्थः / यस्तु गणाधिपतिः सोऽध्वनि मार्गे स्वयं भिक्षुभावेन सामान्यसाधुवेषेण विरहति कुत इति चेदुच्यते कदाचिदध्वनि साधवः स्तेनकै विविक्ताः क्रि येरन् ततस्ते स्तेनकाश्चिन्तयेयुः। हयनायगा न काहिंति, उत्तरं राउले गणे वावि। अम्हं आहिवइस्स व, नायगमित्ताइएहिं वा / / हतो नायक आचार्यो येषां ते हतनायकास्तथाभूताः सन्तः ते राजकुले वा गणे वा गत्वा न किमिप्युत्तरमुपकरणापहार एवात्मकं करिष्यन्ति अस्वामिकतया निराशीभूतत्वात् / तथाऽस्माकं योऽधिपतिस्तस्य वा तदीया वा ये ज्ञातकाः स्वजना यानि मित्राणि तत्प्रति नाम तेषामन्तिके गतास्तैः पृष्टाः सन्तो न किमप्युत्तरं प्रदास्यन्ति आचार्यस्यैव तदानीमभावेनाप्रगल्भत्वादिति भावः। तस्मादाचार्यभवोपद्रावयाम इति विचिन्त्य तथैव कुर्युः ततो यथोक्तनीत्या गुरवः प्रवादयितव्याः ततः स्तेनाः चतुर्विधाः। संजयपंता य तहा, गिहिभद्दा चेव साहुभद्दा य। तदुभयभद्दा पंता, संजममद्देसु आहडिया / / एके संयतप्रान्ताः गृहस्थभद्रकाः / अन्ये साधूनां भद्रकाः गृहस्थप्रान्ताः / अपरे तदुभयभद्रकाः अपरे तदुभयप्रान्ताः / अत्र ये संयतभद्रकास्तेषु हताहतिका भवेत् हृत्वाऽपि तयोर्वस्त्रमर्पयेयुरित्यर्थः। सत्थे विविचमाणा, अहिपई भद्दओ व पंतो वा। दठूण निवारइ, वत्थं गहियं च पेसेइ।। सार्थे स्तेनैर्विविच्यमाने मुष्यमाणे साधवोऽपि विविच्येरन् तत्र योऽधिपतिः चौरसेनाधिपतिः स साधूनां भद्रको वा स्यात् प्रान्तो वा यदि भद्रकस्तदा साधून विविच्यमानान् दृष्टा निवारणं करोति मैतेषां वस्त्राण्यपहरतेति। अथासौ तत्रासंनिहितस्तेनैर्गृहीतंतदुपकरणं भूयोऽपि प्रेषयति। अमून्येव गाथावयवान्याचष्टे। छिन्नदसं सिव्वणीहिंव,नाउय सेउवालमित्ताणं। ते चेव तक्करे भ-दओ अंतिए पेसेइ।। चौरसेनाधिपतिः साधूनामुपधिं नीतमुपढौकितं दृष्ट्वा छिन्नदशाकत्वेन साधुसंबन्धिनीभिः सीवनीभिःसीवितत्वेन वा साधूनां सत्कमेतद्वस्त्रमिति ज्ञात्वा तान् तस्करानुलभते आः पापा विनष्टाः स्थ यूयं देयं महात्मनां वस्त्राण्यपहृतानीत्यादि एवमुपालभ्य भूयोऽपि तस्योपधेः साधूनामर्पणार्थ तानेव तस्करान् साधूनामन्तिके प्रेषयति / / वीसत्थमप्पिणंते, भएण छड्डित्तु केइ वञ्चति / विहिया पासवण भूमि, उवस्सए दिट्ठम्मि जा जयणा / / स्तेना द्विधा आक्रान्तिका अनाक्रान्तिकारस्ते कुतोऽपि न विभ्यति अत एव ते चौरसेनापतिना वस्त्रप्रत्यर्पणार्थ प्रेषिताः सन्तो