________________ उवहि 1104 - अभिधानराजेन्द्रः - भाग 2 उवहि विस्वस्ताः निर्भयादिव त एव आनीयवस्त्रं संयतानामर्पयन्ति अनाक्रान्तिकास्तु भयेन मा केनाप्यारक्षिकादिना ग्रहीष्यामह इति परिभाव्य रात्रावानीयोपाश्रयादहिःप्रश्रवणभूमावुपाश्रयमध्ये वस्त्र प्रक्षिप्य व्रजन्ति पलायन्ते तस्मिन् वस्त्रे दृष्टे सति या वक्ष्यमाणा यतना सा करणीया। तामेवाह / / गीयमगीया अविगीय-पव्वयट्ठा करिति वीसंतु। जइ संजइ वि तहियं, विगिंचिया तासिवि तहेव॥ यदि सर्वेऽपि गीतार्थास्ततस्तदुपकरणं मौलोपकरणेन सह मील-यित्वा यथास्वरुचि परिभुञ्जते / अथ ते केचिद् गीतार्थाः केचिचा-गीतार्था अविगीतप्रत्ययार्थं हताहतिकोपकरणं विष्वक् पृथक् स्थापयन्ति ते ह्यगीतार्था एवं चिन्तयेयुः एष स्तेनप्रत्यर्पित उपधिस्तावदुपहतेन च सह मिश्रिततरोऽप्युपहत एव अतस्तेषां प्रत्ययार्य हताहतिकोपकरणं विष्वक् पृथक् स्थापयन्ति / अथ संयत्योऽपि विविक्तास्ततस्तासामप्युपकरणं तथैव पृथक् कुर्वन्ति। जो विय तेसिं उवही, अहागओप्पो य सपरिकम्मो य। तं पि य करिति वीसुं, मा अविगीयाइभंडे वा।। योऽपि च तेषां साधूनां यथाकृतोऽल्पपरिकर्मा सपरिका चोपधिस्तमप्यविष्वक् परस्परं कुर्वन्तोऽविगीतार्थाः परस्परं भण्डयेयुः कलहं कुर्युः यथा किमिति त्वदीयैर्मदीयोपकृतोपधिः सपरिकर्मणा सह मीलित इत्यादि एवं तावद्भक्ते सेनापतौ विधिरभिहितः / अथ प्राप्तविषयं विधिमाह || पंतोवहिम्मि लुद्धो, आयरिए इच्छए विवाए। कयकरणे करण वा, आगाढे किसो सयं भणइ / / प्रान्तश्चौरसेनापतिरुपधावुपकरणे लुब्धः सन् आचार्यान् व्यापादयितुमिच्छति ततो यस्तत्र कृतकरणो धर्मकथालब्धिमान् धनुर्वेदकृताभ्यासो वा स तत्र कारणं करोति धर्मकथादिना स्वभुजबलप्रकटनेन वा तं शमयतीत्यर्थः / अथवा ईद्रशे आगाढे कार्ये यः कृशो दुर्बलदेहः स स्वयमात्मनैवात्मानमाचार्य भणति। एतामेव गाथां भावयति। को दुब्भं आयरिओ, एवं परिपुच्छियम्मि अद्धाणे। को कहयइ आयरियं, लग्गइ गुरुए व चउमासे // प्रान्तः सेनापतिं पृच्छति को युष्माकं मध्ये आचार्यः एवमध्वनि गच्छता परिपृष्टे सति यःकश्चिदाचार्य निर्धार्य कथयति सलगति प्राप्नोति चतुरो मासान् गुरुकानिति। किं तर्हि वक्तव्यमित्याह सत्थेणग्नेण गया, एहिंति य मग्गतो सुगुरु अर्ज / सथिल्लं एव पुच्छह, हयं पलायं वसाहिति।। येऽस्माकं गुरवस्ते अन्येन सार्थेन सह प्रागेव गता मार्गतो वा पृष्ठतस्ते एष्यन्ति / यदि वा न प्रतीतिर्भवतां ततः सार्थिकान् पृच्छत / यद्वा हतोऽसावस्माकमाचार्यः पलायितो वा वयं सांप्रतमनाथा वामहे एवं कथयन्ति। जो वा दुटवलदेहो, जुंगियदेहो असचवको वा। गुरु गिल एएसि अहं, न य मि पगब्भो गुरुगणेहिं / / अथवा यो दुर्वलदेहो विकलाङ्गः यो वा असत्यवाक्योऽसमञ्जसप्रलापी स सेनापतिं प्रति वक्ति अहं किलैतेषां सर्वेषामपि गुरुः परं न च नैवाऽस्म्यहं प्रगल्भः संपूर्णो गुरुगुणैः शरीरसंपदादिभिर्वा हीणो वा अभिभूतो, खंजकुणीकाणआ व हं जातो। मा मे वह सीसे, जं इच्छह तं कुणह मज्झं / / व्याधिना रोगेणाहमतीवाऽभिभूतोऽस्मि खञ्जः पादविकलः कुणिः पाणिविकलः काणश्चक्षुर्विकल ईदृशो वा अहं जातोऽस्मि अतोमा मदीयान् शिष्यान्वधध्वं यन्मारणादिकं कर्तुमिच्छध्वं तन्ममैव कुरुध्वं यतः।। इहरा विमरिउमिच्छं, संति सिस्साण देह मा हणह। मम मारगत्तूणमिणं, जं किरइ मुंह सुते मे / / इतरथाऽपि तावदह मर्तुमिच्छामिततो मदीयशिष्याणां शान्तिं प्रयच्छत मा पुनर्यथास्वरुचि हन्त विनाशयतयतो यदिदं मम मारणं भवद्भिः क्रियते तन्मृतस्यैव मारकत्वं भवति अतो मुञ्चत मदीयान् शिष्यान् सुतान् / अपि च // एयं पि अंव जाणह, रिसिवज्झा जह न सुंदरा होइ। इह य परत्थ य लोए, मुंचंतणुलोमिया एवं // भो भद्रा एतदपि तावद्यूयं जानीथा यथा ऋषिहत्या विधीयमाना इह च परत्र च लोके सुन्दरा न भवति एवमनुलोमिताः प्रज्ञापिताः सन्तस्ते तस्कराः साधून मुञ्चन्ति। अथैवमपि न मुञ्चेरन्ततः किंकर्तव्यमित्याह / / धम्मकही चूण्णेहि व, मंतनिमित्तेण वा वि विजाए। नित्थारेई वलेण व, अप्पाणं चैव गच्छं च / / यो धर्मकथालब्धिमान् धर्मकथया तं सेनापतिमुपशमयति चूणा मन्त्रेण वा विद्यया वा निमित्तेन वा पातयेत्यो वा धनुर्वेदादौ कृतपरिश्रमः स निजबलेन सेनापतिं निर्जित्यात्मानं गच्छं च निस्तारयति / अथ एषामेकमपिन विद्यते ततः॥ वीसजिया व तेणं, पंथफिडिए व हिंडमाणे वा। गंतूण तेण पल्लिं, धम्मकहाईहिं पन्नवणे // तेन सेनापतिनोपधिमपहृत्य साधवो विसर्जिता मुक्ता इत्यर्थः / मुक्ताश्च ये तदुपधिं न गवेषयन्ति ततश्चतुर्लघुकाः ततः स्तेनपल्ली गत्वा गेवर्यितव्यउपधिः गच्छता वाऽपान्तराले यदि कोऽपि प्रश्रयेत् कुतो भवन्त इहागता ततो वक्तव्यमेते मात्पिरिभ्रष्टा हिण्डमाना वा विहारक्रमेण विहरन्त एव वयमिह संप्राप्ताः ततः स्तेन पल्लीं गत्वा धर्मकथादिभिः सेनापतेः प्रज्ञापना कर्तव्या। अथेदमेव भावयति॥ भद्दमभई अहिवं, नाउं भद्दे वसति तं पल्लिं / फिडिया मुत्तिय पंथं, भणंति पुट्ठा कहा पल्लिं / / स्तनपल्लीं गच्छद्भिः प्रथमतएवैतद् ज्ञातव्यं किमत्र सेनापतिभ्रंद्रकोऽभद्रको वा यदि भद्रकस्ततस्ता पल्ली प्रविशन्ति / अथाभद्रकस्ततो मा प्रान्तापतापद्रावणादीनि काषींदिति कृत्वा नतत्रगन्तव्यम्। अथगच्छन्ति ततश्चत्वारो गुरवः। अथ कोऽप्युपशमनायोत्सहतेततस्तंगृहीत्वा गन्तव्यं गच्छन्तश्च कुतः किमर्थं भवन्त इहायाताः अत्र कुत्र वा व्रजिष्यथ इति पृष्टा भणन्ति पन्थस्फिटिताः परिभ्रष्टा वयमिह पल्ल्यामाराहान्वेषणं कुर्महे। मुसियत्ति पुच्छमाणं, को पुच्छइ किं च अम्ह मुसियव्वं / अहिवं भणंति पुटिवं, अणिच्छे सन्नायगादीहिं।। किं मुषिता यूयमिति पृच्छन्तं ब्रुवते / को नामास्मान् पृच्छति किं वा निर्ग्रन्थानामस्माकं मुषितव्यं ततश्च स्तेनपल्लीं गत्वा यस्तत्र सेनाया अधिपतिस्तं पूर्व प्रथमतो भणन्ति / धर्मकथादिना प्रज्ञापयन्ति प्रज्ञापितश्च यदा व्यापृतस्ततो वक्तव्यमस्माकमुपछि प्रयच्छेत्यादिना सेनापतिस्पर्शमयितव्यः।