________________ उवहि 1102 - अभिधानराजेन्द्रः - भाग 2 उवहि संज्ञिनो द्विविधाः संविग्रभाविता इतरभाविताश्च मिथ्यादृष्टयोऽपि द्विविधाः आगाढा अनागाढाश्च / तत्र प्रथम संविग्नभावितेषु संज्ञिषु तदप्राप्तावनागाढमिथ्यादृष्टिषु शुद्धं वस्त्रमन्वेषणीयम्। असंविग्नभावितेषु अगाढमिथ्यादृष्टिषु चनगृह्णन्ति कुत इत्याह। असंविग्रभाविता मृगाहरण लुब्धदृष्टान्तं चेतसि प्रणिधानसाधूनामकल्प्यं प्रयच्छन्ति ये त्वाभिग्रहिका मिथ्यादृष्टयस्ते साधुदर्शनप्रद्वेषतो विषं प्रयुञ्जीरन् हीलां वा कुर्युः अहो अदत्तादाना अमी वराका इत्थं विनश्यन्ति इत्यादि / अथ नागाढमिथ्यादृष्टिषु शुद्धं न प्राप्यते ततः किं विधेयमित्याह। असंविग्गभाविएसुं, अगाढेसुं जयंति पणगादी। उवएसो संघाडग, पुव्वगहियं च अवसेसं॥ असंविग्रभावितेषु उद्गमादिदोषशुद्धं यद्वस्त्रं तद्गृहीतव्यं तदभावे अगाढमिथ्यादृष्टिष्वपि यद्यात्मप्रवचनोपघातो न स्यात् अथ तेष्वपिशुद्धं न प्राप्यते ततः संविग्नभावितादिष्वेव पञ्चकादिपरिहाण्या तावत् यतन्ते यावद्भिन्नमासंप्राप्ता भवन्ति ततोऽन्यसाभोगिकैर्येषु कुरुते तेषुदत्तोपदेशेषु याचितव्यं तथाऽप्यप्राप्तौ तेषां संघाटकेन एवमप्यलाभे तेषामेव यत् पूर्व गृहीतं वस्त्रादि तद्ग्रहीतव्यम्। अमुमेवार्थं विधिशेषज्ञापनाय पुनरप्याह / / उवएसो संघाडग, तेसिं अट्ठाए पुथ्वगहियं तु। अभिनव पुराणसुद्ध, उत्तरमूले सयं वावि॥ अन्यसांभोगिकोपदेशेन प्रथमतः पर्यटन्ति ततस्तदीयसंघाटकेन तथाऽप्यप्राप्ता तेषामर्थाऽप्यसांभोगिकाः / पर्यटन्ति तथाऽपि यदि न लभ्यते ततस्तेषामेव यत्पूर्वगृहीतवस्त्रं तद्ग्रहीतव्यं तचाभिनवं वा स्यात् पुराणं वा। पूर्वमभिनवं पश्चात्पुराणमपिगृह्यते तदपि यद्युत्तरगुणमूलगुणशुद्धं तत उपादेयं नान्यथा अथापिन प्राप्यते ततो यः कृतकरणो भवति तंतच एवमेव वक्तव्यम् एतच्च यथाऽवसरमुत्तस्त्र भावयिष्यते तदेवमन्यसांभोगिकानामपि पूर्व गृहीतं यदा न प्राप्यते तदा मासलघुकादारभ्य तावद्यतन्ते यावचतुर्लघुकं प्राप्ताः ततः किं कर्तव्यमित्याहउवएसो संघाडग,पुव्व गहियं न निययमाईणं। अभिनव पुराणसुद्धं-पुटवमभुत्तं पिपरिभुत्तं / चतुर्लघुप्राप्तमित्यववासिपार्श्वस्थादीनामुपदेशेन वस्त्रमुत्पाद-यन्ति तदभावे तेषामेव संघाट के न तथाऽप्यलाभे यत्तेषां पूर्वगृहीतं मूलोत्तरगुणशुद्धम् अभिनवमपरिभुक्तं तत्प्रथमतो ग्रहीतव्यं ततः परिभुक्तमपि तदप्राप्तौ पुराणमपि मूलोत्तरगुणशुद्धमपरिभुक्तं ततः परिभुक्तमपि ग्राह्यम् / इह निशीथचूर्ण्यभिप्रायेणास्यैव कल्पस्य विशेषचूर्ण्यभिप्रायेण वाऽन्यसां भोगिकात् यावन्नास्ति पञ्चकपरिहाणिःकिं तु तः ऊर्ध्व पञ्चकहान्या यतित्वा यदा मासलघुप्राप्तास्तदा पार्श्वस्थादीनामुपदेशानिमान् गृह्वन्तीति द्वयोश्चूयोरभिप्रायः परमेतचूर्णिकृता भिन्नमासप्राप्तान्यसांभोगिकानां चतुर्लघु प्राप्तास्तत्पावस्थादीनामुपदेशादिना वस्त्रग्रहणे यतन्ते इति प्रतिपादितमतस्तदनुरोधेनास्माभिरपि तथैव व्याख्यातमित्यवगन्तव्यम्। यथोक्तमप्यर्थं विशेषज्ञापनार्थ भूयोऽप्याह। उत्तरमूले सुद्धे, नवे पुराणे चउक्कभयणेवं / परिकम्मण परिभोगे, न हॉति दोसा अभिनवम्मि / / मूलगुणशुद्धमप्युत्तरगुणशुद्धम् 1 न मूलगुणशुद्धमुत्तरगुणशुद्धमपि 2 | मूलगुणशुद्धं नोत्तरगुणशुद्धम् 3 न मूलगुणशुद्धं नोत्तरगुणशुद्धं 4 एतेषु | चतुर्यु भङ्गेषु प्रत्येकं नवपुराणपदविषयं यद्भङ्गचतुष्कं तस्य भजनासाच यथाक्रममेवं कर्तव्या यत्तावन्मूलोत्तरगुणविशुद्धतत्प्रथमतो नवमपरिभुक्तं ग्रहीतव्यं तदभावे नवं परिभुक्तं तदभावे पुराणं परिभुक्तमेवं द्वितीयतृतीयचतुर्थेष्वपि भङ्गेषु चत्वारश्चत्वारो विकल्पाः यथाक्रमं चैते आसेवितव्याः कुत इत्याह / परिकर्मणा दोषा अविधिसीवनादयः परिदोषाश्च मलिनीभूतम्रक्षितसुगन्धिगन्धभावितत्यादयोऽभिनवे अपरिभुक्ते च वस्त्रे न भवन्ति / अथ पार्श्वस्थादिष्वपि न प्राप्यते ततोऽमनोज्ञसंयतीनामप्युपदेशेन गृह्णन्ति एषां वा अर्थाय ताः पर्यटन्ति पूर्वगृहीतं वा तासांग्रहीतव्यं तदभावे असंविग्नसंयतीनामप्युपदेशादिना गृह्णन्ति। अथैवमपि न प्राप्यते ततः किं कर्तव्यमित्याह / असई य लिंगकरणं, पन्नवणट्ठा सयं च गहणट्ठा। आगाढे कारणम्मि, जहेव हंसाइणो गहणं / / एवमप्यसत्यलभ्यमाने शाक्यादिवेषेण तदीयोपासकाना यतिभ्यो वस्त्रदापनाय प्रज्ञापनार्थ स्वयं वा ग्रहणं वस्त्रस्योत्पादनं कर्त्तव्यं किंबहुना ईदृशे आगाढे कारणे यथैव हंसतिलादेरननुज्ञापितस्यापि ग्रहणं दृष्ट तथैव वस्त्रस्यापि तथाऽप्यलाभे सूत्र मार्गयित्वा अन्वैर्वाययति तदभावे स्वयमेवाल्पसागारिके वयति अथ सूत्रनलभ्यते। ततः को विधिरित्याह / सेडयरुए पिंजियए पेलुग्गहणे य लहुगदप्पेणं / भवकाले हि विसिट्ठा, करेण अकमेण ते चेव / / सेडुगो नाम कप्पासः स एव लोडितः सन् वीजरहितो रुतं तदेव रुतं पिजनिकया ताडितं पिञ्जितं तदेव पूणिकया वल्तिं पेलुरिति भण्यते। एतेषां यदि दर्पण ग्रहणं करोति तदा चत्वारो लघुकाः तपः कालाभ्यां विशिष्टास्तत्र सेडुके उभयगुरुकारुते तपोगुरुकाः पिञ्जिते कालगुरुकाः पेलुके द्वाभ्यां लघुकाः कारणे पुनः प्रथमपेलुकं पश्चात् पिञ्जितं ततो रुतं ततः सेडुकमपि गृह्णाति अथाक्रमेण गृह्णाति ततस्तएव चत्वारो लघुकाः सेडुकं च त्रिवर्षातीतं विश्वयोनिकमवग्रहीतुं कल्पते न सचित्तम्। कडयोगि एकओवा, असईए नालबद्धसहिओ वा। मिच्छाए उवगरणं, उभओ पक्खस्स पाउग्गं / / कृतयोगी नामयो गृहवासे कर्त्तनं कृतवान् स गच्छस्य वस्त्राभावे एकको वा नालबद्धसंयतीसहितो वा विजने भूभागे कर्त्तनं वयनं च कृत्वा उभयपक्षस्य संयतसंयतीलक्षणस्य प्रायोग्यमुपकरणं परिभुञ्जते ततः किमित्याह। अगीयत्थेसु गिचे, जहलाभं सुलभबहिखेत्ते। सुपच्छित्तं उ वहंति, अलाभे तं चेव धारेति। यद्यगीतास्ततस्तेषु सुलभोपधिक्षेतेषु गताःसन्तो यथालाभं यद्वस्त्रं लभन्ते तत्सदृशमपरं व्यूतवस्त्रं विवेचयन्ति परिष्ठापयन्ती-त्यर्थः / अगीतार्थप्रत्ययनिमित्तं च यथालघुप्रायश्चित्तं वहन्ति। अथापरं न लभ्यते ततस्तदेव स्वयंव्यूतं वस्त्रं धारयन्ति। अथ सर्वेऽपि गीतार्थास्ततोऽपरस्य लाभे प्राकृतं परित्यजन्ति वा न वा न कोऽपि नियमः / अथ "ठाणनिम्गयाई" इत्यत्र योऽयमादिशब्दस्तस्य फलमुपदर्शयन्नाहएमेव य वसिमम्मि वि, झामियओ महियवूढपरिजुन्ने। पुवुट्ठिए व सत्थे, सम इत्थं भए वावि।।