________________ उवहि 1101 - अभिधानराजेन्द्रः - भाग 2 उवहि यत्र मुनयो न विविक्ताः श्रमण्यश्च गृहिणश्च यत्र (उच्छूढत्ति) मुषिताः तत्र स्वस्थाने संयतीवर्गे अनुकम्पा कर्तव्या। ताश्च संयत्यो द्विविधाः संविना असंविग्नाश्च यदि वस्त्राणि सन्ति ततः सर्वासामपि दातव्यानि अथ न सन्ति तावन्ति वस्त्राणि ततः संविग्नसंयतीनांदेयानिता अपि द्विविधाः समनोज्ञाः सांभोगिन्य इतराश्वासांभोगिन्यः। यदि पूर्यन्ते ततो द्वयोरपि वर्गयोस्तथैव दातव्यानि / अथ न पूर्यन्ते ततः स्वस्थाने दातव्यानि समनोज्ञानमित्यर्थः अपिशब्दात्या धृतिदुर्बलास्ताः संविग्नाः असंविग्ना वा स्थविरास्तरुण्यो वा भवन्तु नियमात्तासां दातव्यम् / यत्र साधवो विविक्तास्तत्रेयं यतना॥ लिंगट्ठभिक्खसीए, गिण्हंति पडिहारियमेएसु। अमणुनियरगिहिंसुं, जं लद्धं तंनिभं दें ति॥ लिङ्गार्थ तावदवश्यं रजोहरणमुखवस्त्रिके गृहीतव्ये भिक्षार्थ तु पात्रकबन्धपटलकादि शीतत्राणार्थं तु प्रावरणादि एतत्सर्वमपि प्रातिहारिकमेतेषु गृह्णन्ति / तद्यथा अमनोज्ञा असांभोगिका इतरे पार्श्वस्थादयो गृहिणः प्रतीताः / अथैषु न प्राप्यते ततः संयतीनामपि / हस्तात्प्रातिहारिकं ग्राह्य तत्तचोलपट्टकादिकं यदा लब्धं भवति तदा तन्निभं तत्सदृशं प्रातिहारिकं ददति प्रत्यर्पयन्ति / इह द्वितीयभङ्गे व्याख्यायमाने प्रथमतृतीयचतुर्थभङ्गाअपिलेशतः स्पृष्टा अवगन्तव्याः / गतो द्वितीयभङ्गः। अथ तृतीयं भङ्गं व्याख्यानयति॥ उच्छूढं वि तदुभये, सपक्खपरपक्खतदुभयं होइ। अहवा वि समणसमणी, समणुनियरेसु एमेव।। तदुभये वा उच्छूढे मुषिते सत्येवमेव यतना ज्ञातव्या। अथ तदुभयमिति किमुच्यते इत्याह / स्वपक्षाः संयताः परपक्षा गृहस्थाः। अथवा तदुभयं नाम श्रमणाः श्रमण्यश्च / यद्वा तदुभयं समनोज्ञा अमनोज्ञाश्च / यदि वा संविग्ना असंविग्नाश्चेति तदुभयम् तत्र मुषिते सति विधिमाह।। अमणुन्नेतरगिहिसं-जईसु असइ पडिसत्थपल्लीसु। तिण्हट्ठाए गहणं, पडिहारिय एतरे चेव॥ अमनोज्ञा असांभोगिका इतरे पार्श्वस्यादयो गृहिणःसंयत्यश्च प्रतीताः एतेषु विविक्ततया वस्त्राभावे प्रतिसार्थे वा पल्ल्यां वा पञ्चकपरिहाण्या मार्गेवितव्यम् / संयतीनां तु नास्ति पञ्चकपरि-हाणिर्यदेव लभ्यते तदेव गृहीत्वा गात्राच्छादनं ताभिः कर्त्तव्यं तच वस्त्रं त्रयाणां लिङ्गभिक्षाशीतत्राणानामर्थाय प्रातिहारिकं वा इतरद्वा निसृष्ट ग्राह्यम्। एवं तु दिया गहण, अहवा रत्तिं मिलेज पडिसत्थो। गीएसु रत्तिगहणं, मीसेसु इमा तहिं जयणा / / एवं दिवा ग्रहणमभिहितम्। अथवा रात्रौ प्रतिसार्थो मिलेत् तत्र च यदि सर्वेऽपि गीतार्थास्ततो रात्रावेव गृह्णन्ति अगीतार्थमिश्रास्तत-स्तेषु मिश्रेष्वियं यतना। तामेवाह। वत्थेण व पाएण व, णिमंतएव अत्थमिए। आइचे उदिते य, गहणं गीयत्थसंविग्ने / प्रतिसार्थे कश्चिद्दानश्राद्धादिरनुद्गते वा अस्तमिते वा सूर्ये वस्त्रेण वा पात्रेण वा निमन्त्रयेत् तत्र यदि सार्थो रात्रावेव चलितुकामस्तदा गीतार्था गुरुनालोचयन्ति उदिते सूर्ये वस्त्रग्रहणं कृत्वा समायाताः एवं गीतार्थाः संविग्ना गृह्णन्ति / अथ प्रतिसार्थे पल्ल्यां वा लभ्यते न च सार्थादिकं दृश्यते ततः किमित्याह। खंडे पत्ते तह द-उभचीवरे तह य हत्थपिहणं तु / अद्धाण विवित्ताणं, आगाढं सेसणागाढं। चर्मखण्डानि संयतीनां परिधानाय दातव्यानि तदभावे शाकादिपत्राणि तदप्राप्तौ दर्भचीवरं धनं ग्रन्थयित्वा समर्पयन्ति सर्वथा परिधानाभावे हस्तेनापि गृह्यदेशस्य पिधानं कर्तव्यम् / एवमध्वनि विविक्तानामागाद कारणं मन्तव्यं शेष तु सर्वमप्युपक-रणाभाये अनागाढम्। असंजई य निग्गया खुड-गाइ पेसंति चउसु वग्गेसु / अप्पाहिं निवगारं, साहुं च वियारमाइगयं / / प्रतिसार्थपल्ल्यादौ वस्त्राणामभावेऽप्राप्तौ अध्वनो निर्गता उद्यानं प्राप्ताः सन्तः क्षुल्लिकादिविवक्षितं ग्राम नगरं वा चत्वारः संयतसंयतीश्रावकश्राविकालक्षणा ये वर्गास्तेषु तेषां समीपे प्रेषयन्ति / यद्वा सांभोगिकाः संयता इत्येको वर्गः अन्यसांभोगिका इति द्वितीयः / सांभोगिकाः संयत्य इति तृतीयः अन्यसांभोगिका इति चतुर्थः / एतेषां वा समीपे प्रेषयन्ति / अथ नास्ति क्षुल्लकः क्षुल्लिका वा ततो यस्ततो ग्रामान्नगराता अगारो गृहस्थः समायातः यो वा साधुर्विचारभूम्यादावागतस्तम्(अप्पाहिति) संदिशन्ति यथा साधुसाध्वीप्रभृतीनां सांभोगिकसंयतादीनां वा भवता कथयितव्यं साधवः साध्व्यश्च बहिरग्रोद्याने स्थिताः सन्ति तेचाध्वनिस्तेनैर्विविक्ताः अतस्तेषां योग्यानि चीवराणि प्रेषणीयानि / अत्र चायं विधिः संयतैः संयतानां वस्त्राणि दातव्यानि / संयतीनां तु संयतीभिः / अथ तत्र संयताः संयत्यो वा न संन्ति तदा श्रावकाः श्राविका या प्रयच्छन्ति। यत्र तु संयत्यः संयत्रा वा संयतीनां प्रयच्छन्ति तत्र विधिमाह। खुड्डी थेराणप्पे, आलोगितरी ठवितु पविसंति। ते विय घेत्तुमइगया, समणुन्न जढे जयंते व // क्षुल्लिका उद्यानं गत्वा स्थविरसाधूनांवस्त्राण्यर्पयन्ति। अथन सन्ति क्षुल्लिकाः तत इतरा मध्यमास्तरुण्यो वा गत्वा स्थविरा–णामालोके स्थापयित्वा भूयोऽपि ग्राम प्रविशन्ति। यत्र संयतेन संयतीनां दातव्यं तत्र क्षुल्लकाः स्थविरसाध्वीनामपर्यन्ति क्षुल्लकाभावे शेषा अपि साधवः स्थविराया आलोके स्थापयन्ति तेऽपिच संयताः संयतीदत्तानि वस्त्राणि गृहीत्वा प्रावृत्त्य नगरमनिर्गताः प्रविष्टाः सन्त आत्मयोग्यमुपकरणमुत्पाद्य संयतीसत्कवस्त्राणि प्रत्यर्पयन्ति एवं मनोज्ञेषु विधिरुक्तः (समणुनजढे जयंतेवत्ति) यत्र ते मनोज्ञाः सांभोगिका न भवन्ति तत्रैवं वक्ष्यमाणनीत्या यतन्ते। अद्धाण निग्गयाई, संविग्गा सण्णिदुविह अण्णाणी। संजई एसणमाई, असंविग्गा दोण्णि वा वग्गा॥ अध्वनो निर्गता यत्र ग्रामादौ प्राप्तास्तत्रेमे भवेयुः संविनविहारिणः अनेनेहान्यसांभोगिका गृह्यन्ते / संज्ञिनःश्रमणास्ते द्विविधाः संविग्रभाविता असंविग्नभाविताश्च / संविनोऽपि द्विधा आभिग्रहिकमिथ्यादृष्टिभेदात् (संजई इत्ति) अमनोज्ञसंयताः संविनानामपिवौ वर्गो तद्यथा साधुवर्गः साध्वीवर्गश्च / अत्र विधिरुच्यते (एसण-माईत्ति) संज्ञिप्रभृतिषु शुद्ध वस्त्रमप्राप्नुवन्तः पञ्चकएरिहाणिक्रमे-णैषणादोषेषु यतन्त इति। अथैतदेव सविस्तरं व्याख्यानयति॥ संविग्गतरं भाविय, सन्नीमिच्छा उगाढणागाढे। असंविग्गमिगाहरणं, पाउंजेसं विसं हीला॥