________________ उवहि 1100- अभिधानराजेन्द्रः - भाग 2 उवहि (13) रात्रौ विकाले चोपधिग्रहणम् / (सूत्रम्) नो कप्पइ निग्गंथाण वा निग्गंथीण वा वियाले वा / वत्थं वा पडिग्गहं वा कंवलं वा पायपुंछणं वा पडिग्गहित्तए अथास्य सूत्रस्य कः संबन्ध इत्याह। जह सेज्जाणाहारो, वत्थादेसे व सापयपसंगादि। यं दिहवत्थग्गहणं, कुज्जा उ निसि अतो सुत्तं / / यथा शय्यां वसति, कृत्वा रात्रौ ग्रहीतुं कल्पते एवमेव वस्त्रादिकमपि कल्पयिष्यते इत्यतिप्रसङ्गाद्विवादृष्टस्य वस्त्रस्य निशिरात्रौ ग्रहणं मा कुर्यादित्यत इदं सूत्रमारभ्यते इत्यनेन संबन्धेनायातस्यास्य व्याख्या नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा रात्रौ वा विकाले वा वस्त्र वा प्रतिग्रह वा कम्बलं वा पादप्रोञ्छनं वा प्रतिग्रहीतुमिति सूत्राक्षरगमनिका। अथ भाष्यविस्तरः रत्तो वत्थग्गहणे, चउरो मासा हवंति उग्घाया। आणाइणो य दोसा, आवजणसंकणा जाव।। रात्रौ वस्त्रग्रहणे मासा उद्घाताः प्रायश्चित्तम् आज्ञादयश्च दोषाः। तथा रात्रौ भक्तग्रहणेऽपि तथैव वक्तव्याः / विइयं विहीविवित्ता, पडिसत्थाई समित्त रयणए। ते य पराचिय सत्था, वलिहिं तु भए व एक्को वा।। द्वितीयपदमत्रोच्यत (विहि त्ति) अध्वनि विविक्ता मुषिताः सन्तः प्रसिसार्थादिकं समेत्य प्राप्य रजन्यामपि वस्त्रप्रतिग्रहादिकं गृह्णन्ति तत्रापि कथमित्याह तावुभावपि सार्थों प्रागेव प्रातरेवानुगतसूर्ये चलिष्यतः एको वा अन्यतरः सार्थप्रतिसार्थयोर्मध्ये चलिष्यतीतिमत्वा रात्रावपि ग्रहणं कुर्वन्ति। अत एवोत्सर्गपदे अध्वा गन्तुमेव न कल्प्यते यत्रैते दोषा उत्पद्यन्तेतथा चाह। उदरेसु भिक्खु अद्धाण, पव्वज्जणं तु दप्पेण / लहुगा पुण मुच्छपदे, जंवा आवश्लई जत्थ // व्याख्यातार्था द्वितीयपदमाह / नाणदंसणट्ठा, चरित्तहा एवमाइ गंतव्वं / उवगरणपुटवपडिले-हिएण सत्येण गंतव्वं / / (इयमपि गतार्था / ) सत्थे वि वत्थमाणे, असंजए संजए य तदुभए। मगते जयणाणं, छिन्नं पि हु कप्पई घेत्तुं // ज्ञानाद्यर्थमध्वानं प्रतिपन्नानामपान्तराले चतुर्विधाः स्तेना भवेयः एके असंयतप्रान्ताः 1 अन्ये संयतप्रान्ताः 2 अपरे तदुभयप्रान्ताः 3 अन्ये तदुभयभद्रकाः 4 तत्रासंयतप्रान्तैः स्तेनैः सार्थे विद्यमाने मनुष्यगणे त एव साधूनां पार्वाद्वस्त्राणि मार्गयन्ति यतनया दानं कर्त्तव्यं प्रत्यय॑माणं च छिन्नमपि तदेव वस्त्रंग्रहीतुं कल्पते नान्यदिति संग्रहगाथासमासार्थः / अथैनामेव विवरीषुराह। संजयभद्दा गिहिभद्दगाय, पंतोभये उभयभद्दा य / तेणा होंति चउद्धा, विगिचणा सुन्नजईणं / / एके स्तेनाः संयतभद्रकाः परं गृहस्थप्रान्ताः एके गृहस्थमद्रकाः परं संयतप्रान्ताः अन्ये उभयेषामपि प्रान्ताः अपरे उभयेषामपि भद्रकाः एवं स्तेनाश्चतुर्विधा भवन्ति / अच च द्वितीयतृतीययोर्द्वयोर्भङ्गयोर्यतीनां विवेचनं वस्त्रेभ्यः पृथक्करणं भवति / अथ यत्र संयता न विविक्तास्तत्र विधिमाह। जह देंति जाइयाजा-इया य न वि देंति लहूगगुरुगा य / सागरदाणं गमणं, गहणं तस्सेव वत्थस्स। साधवो यद्ययाचिताः सन्तो वस्त्राणि गृहिणां प्रयच्छन्ति तदा चतुर्लधु। अथ याचिताः सन्तोन प्रयच्छन्ति तदा चत्वा रोगुरवः / अतः सागारिक प्रातिहारिकं भणित्वा प्रयच्छन्ति यथा भवद्भिः प्रत्यर्पणीयमिदमरमाकं यद्यगि वर्तमाना गृहं वागता अन्यद्वस्त्रं लभध्वे गमनं नाम येषां गृहस्थानां तद्वस्त्रं प्रदत्तं ते यद्यनेन पथा गच्छन्ति ततः साधुभिरपि तेनैव गन्तव्यं यद्यन्येन व्रजन्ति ततश्चतुर्लधु यदा ते अध्वनो निर्गता भवन्ति तदा छिन्नस्यापि तस्यैव वस्त्रस्य ग्रहणं कर्तव्यं नान्यस्याततः पुनर्वस्त्र कीदृशं दातव्यमित्याह। दंडपरिहारवज, चोलपट्टपडलपत्तबंधवजं च / परिजुण्णाणं दाणं, उड्डाहपओसपरिहरणा। महती जीर्णकम्बलिका दण्डपरिहार उच्यते तद्वर्ज चोलपट्टपडलकपात्रबन्धवानि यानि शेषाणि परिजीर्णवस्त्राणि तेषा मुड्डाहप्रद्वेषपरिहरणार्थ दानं कर्त्तव्यम् / उड्डाहो नाम अहो अमीषामनुकम्पा ये विविक्तामप्यस्माकं चीवराणि न प्रयच्छन्ति प्रद्वेषो नामाप्रीतिकं तद्वशात्तेषां तापनादयो दोषास्तत्परिहरणार्थ दातव्यम् (छिन्नपित्ति) योऽयमपि शब्दस्तत्सूचितमेवमपरमाह। धोवस्स व रत्तस्सव, गहणं गिण्हम्मि चउलहुगा। तं चेव घेत्तुं धोउ, परिमुंजे जुण्णमुडभेजा / यदि तैर्गृहस्थैस्तद्वस्त्रं धौतं वा रक्तं वा तथाऽपि तस्यैव ग्रहणं कर्त्तव्यम्। अथ साधुप्रायोग्यं न कृतमिति मत्वा न गृह्णन्ति अन्यस्य वा ग्रहणं कुर्वन्ति तदा चतुर्लघुकः / अतस्तदेव वस्त्रं गृहीत्वा क्षारादिना धावित्वा साधुप्रयोग्यं कृत्वा परिभुञ्जते / अथातीवजीर्ण तत उज्झे युः परिष्ठापयेयुरित्यर्थः / गतः प्रथमो भङ्ग / अथ गृहस्थभद्रकाः संयतप्रान्ता इति द्वितीयो भङ्गोभाव्यते तत्र भूयश्चतुर्भङ्गी संयत्वो विविक्ता न संयताः १संयताविविक्तान संयत्यः 2 संयत्यो विविक्ताः संयता अपि विविक्ता 3 न संयत्यो नापि संयता विविक्ताः 4 अत्र विधिमभिधित्सुराह। सहाणे अणुकंपा, संजयपडिहारिए निसिद्धो य। असई अतदुभये वा, जयणा पडिसद्धमाईसु॥ यत्र संयता गृहिणश्च विविक्तानसंयत्यस्तत्र संयतीनां सुस्थानं साधवः तत्रानुकम्पा कर्तव्याः / साधूनां वस्त्रं दातव्यमित्यर्थः / साधुभिरपि तत्प्रातिहारिकं ग्राह्यम्। यत्र संयत्यो गृहस्थाश्च मुषितान संयतास्तत्र साधूनां संयत्यः स्वस्थानंतासांवस्त्रदानेनानुकम्पां कर्तव्याः तच्च निसृष्ट निजं दातव्यं न प्रातिहारिकं ग्राह्यम् (असईत्ति) अथात्मनोऽप्यधिकमुपकरणं नास्ति ततः प्रातिहारिकमपि दातव्यं न प्रातिहारिकं ग्राह्यम् (असईत्ति) अथात्मनोऽप्यधिकमुपकरणं नास्ति ततःप्रातिहारिकमपि दातव्यं तदुभयं साधुसाध्वीवर्गः तस्य विविक्तस्य वस्त्राभावे प्रतिसादिषु यतनावस्त्रान्वेषणविषया कर्तव्येति संग्रहगाथासमासार्थ : / अथैनामेव विवृणोति। न विवित्ता जत्थ मुणी, समणी य गिहा जत्थ अदुहा। सहाणणुकंपतहिं, समणुत्तियरा स वि तहेव / /