________________ उवहि 1069 - अभिधानराजेन्द्रः - भाग 2 उवहि सप्त निर्योगान् गृहीत्वा प्रव्रजतोऽयं गुणस्तेषां सप्तानां मध्यात् त्रीन्स शैक्ष आत्मनोऽर्थात गृह्णातीत्यर्थः / चतुरश्च निर्योगान् पूजनार्हाणमाचार्योपाध्यायप्रवर्तिसंघाटकसाधूनां प्रयच्छतितस्यचैवं प्रयच्छतो यद्यसौ निर्योगः शुद्धस्ततो ग्रहीतव्यः / अथाशुद्धस्ततः शैक्षस्य दातव्यः / शैक्षस्याभावे विर्गिचनं' परिठापनं तस्य क्रियते / एवं तस्य त्रीन्निर्योगान् / गृहीत्वा प्रव्रजितस्य यद्भवति तदर्शयति। सज्झाए पलिमंथो, पडिलेह,णिया यसो हवइ खिन्नो। एगावदेति तहि तं, दोनि य से अप्पणो हुंति॥ तस्य त्रीन्नियोगानुभयकालं प्रत्युपेक्षमाणस्य महान् स्वाध्यायवि--- परिमन्थो भवति / तया च महत्या प्रत्युपेक्षतया स खिन्नः परिश्रान्तो भवति तत एवं निर्विण्णः सन् एकं निर्योगसूरीणां ददाति प्रदते चतस्मिन् तस्यद्वौ निर्योगावात्मनः सत्तायां भवतः। एवमप्यसौ द्वाभ्यां निर्योगाभ्यां नैष साधुभ्योऽन्यादृश इव दृश्यते ततः। निग्गमणे बहुभंडो, कत्तो कतरो व वाणिओ एइ। बितियं पिदेति तहिं, सा भंते दुल्लह होजा। मासकल्पे पूर्ण ततः क्षेत्रान्निर्गच्छतांमध्येसएचैको बहुभण्डो--बहूपकरणो दृश्यते। ततो लोकस्तमुद्दिश्य ब्रूते / अहो कुतः कतरो वा अयं वणिज एवमुपस्करसंभारितः समुपैति। एवमुपहासमाकर्ण्य स द्वितीयमपि निर्योग गुरूणां ददाति / तत्र गुरुभिर्वक्तव्यं हेभदन्त ! आर्य मा ते तव भूयो दुर्लभमुपकरणं भवेत् अत आत्मपार्वे एव तावद्धारय / स प्राह। भारेण खंधे च कडीय वाहा, पीलिज्जएणिस्ससए उ उड्ढं। तेणे य ओधीणममिदवेजा,ण एत्तिया इति ममोवभोगं / / मम मार्ग गच्छातो द्वयोमहान् भारो भवति तेन स्कन्धः कटी वाहावगाढतरं पीड्यन्ते। ततश्चेत्थमूर्द्धनिश्वासेनाकुलो भवामीत्यर्थः / स्तेनाश्च मामुपकरणमलिनं दृष्ट्वा उपधिकारणादभिवेयुः। एतावन्ति च वस्रपात्राणि ममोपभोगं नायान्ति / यच्च भगवद्विरुक्तं मा भूयो दुर्लभ भवेत्। तत्रोच्यते॥ जं होहि ति बहुगाणं, इम्म धम्मचरणं पवत्ताण। तं होहिति अम्हं पि, तुम्हेहिं समं पवण्णाण / / यदि युष्माकं बहूनामस्मिन् भागवते शासने धर्मचरणं प्रवन्नानामुपकरणं भविष्यति तदस्माकमपि युष्माभिः समं हिण्डमानानां चारित्रं प्रपन्नानां भविष्यति एष तत्प्रथमतया प्रव्रजतो विधिरुक्तः। अथ पूर्वोपस्थितविषयं तमेवाह॥ सड्डो वीरेणसङ्कए, अन्भुट्ठाणं पुणो अजाणते। कतकारितं व कीर्त, जाणंते अधापरिग्गहिते।। यश्चारित्रं परित्यज्य गृहवासमुपगतस्तस्य कथं पुनरपि प्रव्रज्यायामभ्युत्थानसिद्धिः संजाता अत्र वीरणसड्डकदृष्टान्तो वक्तव्यः। एवं तस्य पुनरभ्युत्थानं भवति स च द्विधा जानानोऽजानानश्चयः कल्प्याकल्प्यविभागं जानाति स जानानस्तद्विपरीतोऽजानानः / अगीतार्थ इत्यर्थः (अजानत्ति) भूयः प्रव्रज्यायामभ्युत्तिष्ठमाने कृतं वा कारितं वा क्रीतं वा दानं वा तं पूर्वोक्ताविधिना कल्प ते वस्तु जानानस्य यथा परिगृहीतानि शुद्धान्येव ग्रहीतुंकल्पन्तेन कृतकारितादीनि / अथ वीरणसड्ढकदृष्टान्तमाह॥ जह सो वीरणसढओ,णइतीररुहो जलस्स वेगेण। थोवं थोवं खणता, पक्खित्तो भूमिणिहितमूलो वि॥ यथा स कश्चिद्विवक्षितो वीरणसढको वीरणानां तृणविशेषाणां स्तम्बो नद्यास्तीरे रोहति स्म जायते स्मेति नदीतीररुहो नद्याः प्रत्यागन्नतया जलस्य वेगेन स्तोकं स्तोकं खनता भूमिकानिहितमूलजालोऽप्य. चिरादेव श्रोतसि प्रक्षिप्तः / ततश्च श्रोतसा प्रवाहयित्वा समुद्र प्रापित इति भावः / एष दृष्टान्तः / अयमर्थोपनयः। ठियमसियं दिटेहिं, साधूहिं जहरिहं समणुणातो। उण्हे उण्हतरेहि य, चालिज्जति वद्धमूलो वि।। कश्चित्पश्चात् कृतः सिद्धपुत्रकादिवेषेण साधूनामागमनभूते कश्चिद् ग्रामे गृहवासमध्यास्य तिष्ठन् यत्तत्र मासकल्पं वर्षाकल्पं वा स्थिताः साधवो ये (वगमित्ति) तत्र गच्छन्त आगता वा द्वित्राणि दिनानि तिष्ठन्ति तैर्दृष्टिरदृष्टैश्च साधुभिर्यथार्ह ग्रथायोग्यं समनुज्ञातः सन्तुष्णरुष्णतरैश्च वचनैरुदकवेगस्थानीयैरनेकशः प्रेर्यमाणः कलत्रादिसपरिग्रहः विस्तरेण बद्धमूलोऽपि चाल्यते। गृहवासं त्याजयित्वा संयमरूपे श्रोतसि प्रक्षिप्य गच्छरन्ताकरं प्राप्यत इति भावः। अथ जानानाजानानविषयविधिविभागमाह / कप्पाकप्पविसेसो, अणधीए जो उसंजमा चलिओ। पुष्वगमो तस्स भवे, जाणते जाइ सुट्टाइ / / वस्त्रपात्रादिविषये कल्प्याकल्प्यविशेषे अनधीते सति यैः संयमाचलितस्तस्य पूर्वः प्राक्तनो नाम प्रकारो भवति यथा शैक्षगृह - स्थस्योक्तः। यस्तुकल्प्याकल्प्यविधिं जानाति तस्य सर्वाणि शुद्धान्येव ग्रहीतुं कल्पन्ते न क्रीतादिदोषदुष्टानि। बृ०३उ०। (11) निर्ग्रन्थ्याः प्रव्रज्यां गृह्णन्त्या उपधिः / (सूत्रम्) निग्गंथीएणं तप्पढमयाए संपव्वयमाणी कप्पइ रयहरणो गोच्छपडिग्गहमायाए चउहिं कसिणेहिं वत्थेहिं आयाए संपटवइत्तए कप्पइ से अहापरिग्गहिएसिं वत्थेहिं आयाए संपव्वइत्ता। अस्यव्याख्या प्राग्वत् नवरं निर्ग्रन्थ्याश्चतुर्भिः प्रत्यवतारैः सहितायाः प्रव्रजितुं कल्पते इति विशेषः / अथ भाष्यम्। एसेव गमो णियमा, णिग्गंथीणं पिहोइ नायव्वो। जाणतीणं कप्पति, घेत्तुं जे आधापरिग्गहितो॥ एष एव गमो निर्ग्रन्थीनामपि भवति ज्ञातव्यः / सा च पूर्वोपस्थिता स्यादित्यत्र सूत्रे तासां कल्प्याकल्प्यविभागं जानतीनां यानि यथापरिग्रहीतानि कल्पन्ते ग्रहीतुम् (जे) इति वाक्यालङ्कारे। समणीणं नाणत्तं, णिजोगा तासिं अप्पणो जोग्गा। चउरो पंच व सेसा, आयरियादीण अट्ठाए।। निर्ग्रन्थेभ्यः सकाशात् श्रमणीनामिदं नानात्वं विशेष उच्यते तासां प्रव्रजन्तीनामात्मनो योग्याश्चात्वारो निर्यो गा भवन्ति शेषास्तु आचार्यादीनामर्थाय चत्वारो वा पञ्च वा / तत्र यदा चत्वारस्तदा एकमाचार्यस्य द्वितीयं प्रवर्तिन्यास्तृतीयं गणावच्छेदिन्याः चतुर्थ संघाटकसाध्व्याः प्रयच्छति। यदा पञ्च तदा तथैवाचार्यादीनां पञ्चमः पुनरुपाध्यायस्य योग्य इति चूर्णिकाभि प्रायः / वृहद्भाष्यकारः पुनराह। चत्तारि अप्पणो से, चउरे पंच बहव सेसगा हुंति / आयरिओवज्झाए, पवत्तिणीमिसे य संघाडे / / पंचेए अभिओगा अभिओगा वजहुंति चत्तारित्ति,