________________ उवहि 1018 - अभिधानराजेन्द्रः - भाग 2 उवहि चंति) परिष्ठापयन्ति। एवं परिष्ठाप्यमानेषु सशैक्षो ब्रूयात्। एतं पिमा उज्जह देह मज्झं, मज्झव्वगा गेण्हह एक दो वा। अत्तट्ठिए होति कदायि सव्वे, सव्वे विकप्पंत विसोधएसा // एतमपि वस्त्रप्रत्यवतारमकल्पनीयतया प्राप्तमाउज्झह किं तु मां प्रयच्छत मदीयप्रत्यवतारान् चैकं द्वौ वा यूयं गृहीत / अथ तेन बहवः प्रत्यवताराः क्रीतास्ततः को विधिरित्याह यान् प्रत्यवतारान् एकं वा द्वौ त्रीन् वा स दाता आत्मार्थयतिस त्रीन् वा कदाचिदात्मार्थ करोति तदा सर्वेऽपि कल्पन्ते एष विशोधिको टिविषयो विधिरुक्तः / अथाविशोधिकोटिविषयं तमेवाह / / उग्गमकोडीए विहु, संछोभ तथव हाति अनिहिडे / इयरम्मि विसंछोभो, जइसेहो सयं भणइ॥ उद्गमकोटिमि आधाकर्मादयोऽविशोधिकोटयो दोषास्तेष्वपि यदि निर्दिष्टमिदं साधूनां दास्यामि इदं मम भविष्यतीति निर्विशेषमन्तरेण वस्त्रादिक्रीतं तन्न कल्पते (संछो होइअनि-द्दित्ति) अनिर्दिष्टऽपि यद्येषां दाता ब्रूयात् यैर्वस्त्रै!यं निमन्त्रिता यदि तानि नेच्छथ तत इमानि मत्परिगृहीतानि गृहीत यानि युष्याभिः प्रतिषिद्धानि तानि मम भविष्यन्ति एवमसौ संक्षोभं प्रक्षेप कंकृत्वा यदि ददाति तर्हि सण्यिपि कल्पन्ते (इतरम्मिविसंछोभोत्ति) इतरन्नाम निर्दिष्ट तथाऽपि संक्षोभो यदि स्यात्ततः कल्पते / संक्षोभः पुनरयं यथाऽसौ गृहस्थशैक्षः स्वयमन्येनानुपदिष्ट आत्मनैवेत्थं भणति।। उकोसगाव दुक्खं व, वजिया के सित्तो हमि विथेव। इति संछोभ तेहिं, वदंति निद्दिष्टोसुं पि।। यानि वस्त्राणि मया युष्मदर्थं कारितानि उत्कृष्टानि बहुमूल्यानि ततः कथं परित्यजन्ति दुःखं वा महता प्रयासेन वाऽपि तानि अतः क्लेशितःक्लेशं प्रापितोऽहं वृथैवामीभिः युष्माकमनुपकरणात् अतो मदीयानि यूयं गृह्णीथ युष्मदीयानि च मम भवन्तु। इत्येवंतत्र निर्दिष्टवपि संयतनिमित्तं निर्दिश्य कृतेष्वपि संक्षोभं कल्पनीयताकरणं वदन्ति तीर्थकरादयः / संयतनिर्दिष्टान्यपि कल्पन्त इति भावः / अत्र मतान्तरमुपन्यस्य दूषयन्नाह। जा संजयणिहिट्ठा, संछोमम्मि विन कप्पते केई। तं तु ण जुन्जइ जम्हा, दिज्जति सेहस्स अविसुद्धं / / या अविशोधिकोटिः संयताय निर्दिष्टा साधून्निर्दिश्य कृता सा संक्षोभे कृतेऽपि न कल्पते एवं केचिदाचार्या ब्रूवते तत्तु न युज्यते यस्मात् शैक्षितस्यानुपस्थापितस्याविशुद्धनेषणीयं वस्त्रपात्रादि दीयते इत्यत्रैव चतुर्थो द्देशकं वक्ष्यतितत्र शैक्षयोग्यमविशुद्धं साधुभिः परिगृहीतं भवति अतो ज्ञायते अविशोधिकोटिदोषैर्दुष्टमपि वस्त्रादिकं संक्षोभेकृते कल्पते। किंचान्यत्॥ जह अप्पट्ठा कम्मं, परिभुत्तं कप्पते य इतरेसिं। एमेव य अम्हाणं, परिगहियं वि कप्पते इयरेसिं॥ यथा गृहस्थेनात्मनोऽर्थायाधाकर्म कृतं तदितरेषां संयतानां परिभोक्तुं कल्पते। इत्यमुनैव ज्ञापकेनास्माकमपिस शैक्षो गृहस्थ एवेति कृत्वा तेन परिगृहीतं ममेदमिति बुद्ध्या स्वीकृतमितरदपि संयतनिर्दिष्टमपि कल्पते। इतरेषां साधूनां ये पुनराचार्या अविशोधिकोटिनिर्दिष्ट संक्षोभेऽपि कृते नेच्छन्ति। ते इदं कारणमुपवर्णयन्ति॥ सहस्साणुवादिणा तेण, णिहिट्टे केहण इच्छंति। अणिदिढे पुण छोभ, वदंति परिफग्गु मंतव्वं // यथा सहस्रानुपाति विषं भक्ष्यमाणं सहस्रान्तरितमपि पुरुषं मारयति। एवमाधाकर्माधुपभुज्यमानं सहस्रान्तरितमपि साधु संयमजीविताद् व्यपनयतिनसहस्रानुपातिविषजातेन केचिदाचार्याः साधुनिमित्तं निर्दिष्ट संक्षोभेऽपि कृतेनेच्छन्ति अनिर्दिष्ट पुनः क्षोभं कृत्वा ददानस्य कल्पनीयं वदन्ति। एतदेव परिफल्गु निस्सारं मन्तव्यम् / कथमित्याह॥ एवं पिसप्पइरमीसेण, परिसरग तेण फग्गुमिच्छामो। दुविधं पि ततो गहियं, कप्पविरतणावउण्णातं // यत्ते आचार्यदेशीया इति निर्दिष्ट संक्षोभे कृते कल्पनीयं ब्रवते एतदपि स्वगृहपतिमिश्रेण सदृशं तेन कारणेन परिफल्गु वयमिच्छामः तदीयानि प्रायेण होतदपि स्वगृहपतिमिति कृत्वा अकल्पनीयं प्राप्नोति तच्चानिष्ट ततो द्विविधमपि निर्दिष्टानिर्दिष्टभेदाद् द्विप्रकारमपि तेन शैक्षण संक्षोभकारणेनागृहीतमात्मीकृतं सत्कल्पते / तथा वाऽत्र रत्नोचयो मेरुमहीधरो ज्ञातदृष्टान्तः / तथा हि तत्र प्रक्षिप्तं तृणादिकमपि सुवर्णी भवति एवं शैक्षगृहस्थेन परिगृहीतं सर्वमपि कल्पनीयं भवति। अपिच॥ जहट्ठकडं चरिमाणं, पडिसिद्धं तं हि मज्झिमो गहियं / पडिवण्णपंचजामे, कप्पति तेसिं तहण्णेसिं॥ यथा चरमतीर्थवर्तिनां पञ्चयामिकानां साधूनामर्थाय किमपि वस्त्रं वा पात्रं वा कृतं तच तैः प्रतिषिद्धं न गृहीतं मध्यमैश्च पार्श्वनाथतीर्थवर्तिभिश्चतुर्याभिकैस्तत्प्रतिगृहीतं ते चतुर्याभिकाः पञ्चयामधर्मप्रतिपन्नास्ततस्तद्वस्त्रादिकं तेषामन्येषामपि पञ्चयामिकानां परिभोक्तुं कल्पते। एवमत्रापि साधूनामर्थाय कृतं तैः प्रतिषिद्धं शैक्षगृहस्थेनात्मार्थकृतं सद्दीयमानं कल्पते। अथ संयोगद्वारं व्याख्याति // उग्गमविसोधिकोटी, दुगादिसंजोगओ बहू वत्थं / पत्तगमीसिगासु य, णिट्ठिातह अणिहिट्ठा।। इहोगमकोटिभेदा आधाकर्ममिश्रजातादयस्तेषां द्विकादिसंयोगतो द्विकत्रिकचतुष्कादिसंयोगनिष्पन्ना बहवोऽत्र भङ्गका भवन्ति / ते च सुगमतया स्वयमभ्यूह्य मत्तव्याः। एवं विशोधिको टिभेदानामपि क्रीतकृतादीनां द्विकादिसंयोगनिष्पन्नाः तथैव बहवो भङ्गकाः / एते च प्रत्येक भङ्ग का उच्यन्ते / एतेषामेवोद्गमकोटिभेदानां च परस्परं द्विकादिसंयोगनिष्पन्ना एवमेव बहवो भङ्गका भवन्ति।तेच मिश्रभङ्गका भण्यन्ते। सर्वेऽप्येते द्विधा निर्दिष्टा अनिर्दिष्टाश्च एतासु प्रत्येकमिश्रासु भङ्गपतिषु कल्प्याकल्प्यविभागाः प्रागुक्तप्रकारेणावसातव्याः / अथ वक्ष्य माणार्थसंबन्धनाय प्रस्तावनां करोति। वत्था व पत्ता परे वि हुजा, दव्वंति कुजा णिवणे सयंपि। णिज्जुत्तभंडं व रयोहरादि, कोई किणे कुत्तियआवणातो।। वस्त्राणि वा पात्राणि वा प्रायो गृहेऽपि भवेयुः / यत्तु निर्युक्तमाण्ड पात्रनिर्योगोपकरणं वाशब्दस्य व्यवहितसंबन्धतया रजोहरणादिकं वा यदन्यत्र दुर्लभमुपकरणं तत् कश्चित्पुनः बुद्धिमान् साधूनां समीपे दृष्ट्वा तदनुसारेण स्वयमपि कुर्यात् / कश्चित्तदेव कुत्रिकापणात् क्रीणीयात् / बृ०३उ०। (कुत्रिकापणवक्रव्यता स्वस्थान एव) अथ सप्त नियोर्गान् व्याचष्टे। तिण्ण य अप्पढेती, चत्तारिय पूयणारिहे देति। दितस्सय चित्तव्वो, सेहस्स विगिचण्णं वावि।।