________________ उवहि 1067- अभिधानराजेन्द्रः - भाग 2 उवहि र्द्धम् 2 छविमान् देव्या सार्द्धम् 3 छविमानछविमत्या 4 अत्र देवशब्देन सामन्यतो भवनपत्यादिनिकायचतुष्टयाभ्यन्तरवर्ती गृह्यते छविमांश्च मनुष्य उच्यते अत एतेषुचर्तुषु भङ्गेषु पूर्वोक्ताः षोडशापि भङ्गाअन्तर्भूता एवं सिद्धान्तं प्रज्ञाप्य प्रस्तुतार्थसाधकं दृष्टान्तमाह पवजा इत्यादि। एकः कश्चित्तरुणः प्रव्रज्यामिमुखो गुरूणां पार्वे प्रस्थितः अन्तरा कस्मिंश्चिद्ग्रामे एकस्यास्तरुण्या गृहे वासार्थमुपगम्यद्वारमूले सुप्तः सा च तरुणी उद्ग्रामिका कुशीला गुह्यकः कश्चिद्यक्षस्तया उद्ग्रामिकया सह रात्रौ वासं कृत्वा प्रभाते स्वस्थानं गच्छति एवं दिवसे दिवसे करोति। तस्मिंश्च दिवसे यज्ञो नोपागमत् द्वितीये दिवसे कोऽपि सलिङ्गीवधावी चौर्य कर्तुकामस्तस्मिन्नेव ग्रामे तस्या एव तरुण्या गृहे तथैव मूले प्रसुप्तः यज्ञश्च तद्दिवसमागतः। वितियणिसाए पुच्छा, एत्थ जती आसि तेण मितअन्नो। जतिवेसो यं चोरो, जो अज्ज तुहं वसति दारे॥ यस्मिन् दिवसे यक्षोऽनायातस्ततो यो द्वितीयो दिवसस्तत्र निशायामागतस्य यक्षस्य पार्श्वे पृच्छाा कृता कल्ये किं नागतोऽसि यक्षः प्राह / अत्र कल्ये यतिरासीत् / तेन कारणेनाहमत्र नायातः। अपि च साधुसंबन्धिता तेजसैव तलुल्लङ्घय गन्तुं न शक्यते सा प्राह किमेवं मृषा भाषसे अयमपि तावदन्यः साधुरिमूले सुप्तस्तिष्ठति / अत एवमुल्लय कथमद्यागतोऽसीति / जक्षः प्राह एष चारित्रं प्रति विपरिणतश्चौर्य कर्तुकामः। अतोयतिवेषेण चौरोऽयं मन्तव्यः यस्तवाद्य द्वारे वसतीति / तदेवमनेन दृष्टान्तेन प्रव्रज्यायामभिमुखः प्रव्रजित एवोच्यते। उक्तंच नैश्चयिकनयवक्तव्यतामङ्गीकृत्य भगवत्याम् “नेरइए णं भंते नेइरेसु उववञ्जइ अनेरइए ? गोयमा ! नेरइएसु उववज्जइ नो अनेरइएसु उववजई"1 अथ रजोहरणादिपदानि व्याचष्टे / / रयहरणे विमज्झिमो, गुच्छग्गहणे जहण्णगग्गहणं / पडिग्गहगहणे गहणं, उक्कोसओ होइ अवहिस्स / / रजोहरणग्रहणेन विमध्यमोपधिर्गहीतो गुच्छकग्रहणेन जघन्योप- | धिग्रहणं भवति प्रतिग्रहणेन चोत्कृष्टस्योपधेर्ग्रहणं मन्तव्यम्। पडिपुण्णा पडुयारा, कसिणग्गहणेण अप्पणो तिण्णि / पुट्विं उवद्वितो पुण, जो पुव्वं दिक्खितो आसी॥ कृत्स्नवस्वग्रहणेनेदमुक्तं भवति / तेन प्रव्रजता आत्मनो योग्यास्त्रयः प्रत्यवताराः प्रतिपूर्णा ग्रहीतव्याः पूर्वमुपस्थितः पुनः स उच्यते यः पूर्वदीक्षित आसीत् एष सूत्रार्थः। अथ नियुक्तिविस्तरः। सोऊण कोइ धम्म, उवसंतो परिणओ य पध्वजं / पुच्छाति पूर्य आयरिय उव-ज्झायपवत्तिसंघाडिए चेव।। इह कश्चित्तथारूपाणां स्थविराणामन्तिके धर्म श्रुत्वा उपशान्तः प्रतिबद्धः प्रव्रज्यायां च परिणतः आचार्यान् पृच्छति आदिशत क्षमाश्रमणाः किं मया कर्त्तव्यम् / सूरयस्तस्य सारसंभवं ज्ञात्वा ब्रुवते (पूयंति) चैत्यानां विपुलां पूजां कुरु श्रमणसंघस्य च वस्त्रादिभिः प्रतिलाभनं कुरु। एवमुक्तेस तथैव चैत्यानां श्रमणसंघस्य च पूजां करोति। अथ श्रमणसङ्घन पूजयितुमीशस्तत आचार्यस्योपाध्यायस्य प्रवर्तिनः संघाटकसाधोश्च वस्त्रादिभिः पूजा विधातव्या। इदमेव भावयति। णंतगघतगुलगोरस, फासुपडिलाभणं समणसंघे। असतिगणिवायगाणं, तदसति सव्वस्सगच्छस्स / / स प्रविव्रजिषुः श्रमणसङ्घस्य सकलस्यापि प्रासुकैः शुद्धैर्वस्त्रघृतगुडगोरसादिभिर्द्रव्यै : प्रतिलाभनां करोति। अथ नास्त्येतावत्सारं ततो ये गणिंन आचार्या ये च वाचका उपाध्यायास्तेषां सर्वेषामपि करोति। अथ मास्त्येतावती शक्तिस्ततो यस्मिन् गच्छेऽसौ प्रव्रजिष्यति तस्य सर्वस्यापि प्रतिलाभनां विघत्ते॥ तदसति पुय्क्त्ताणं, चउण्ह सीसतिय तेसिवावारो। हाणी जा तिण्णि सयं, तदभावे गुरुउ सव्वं पि॥ तस्या अपि सकलगच्छपूजाक्षमायाः सामण्या अभावे ये पूर्वमाचार्या ये च वाचका उपाध्यायास्तेषां सर्वेषामपि करोति आचार्योंपाध्यायप्रवर्तिसंघाटकसाधुलक्षणाश्चत्वार उक्तास्तेषां पूजां करोति। तेषां चाचार्यादीनां व्यापारोऽर्थकथनादिस्तस्य पुरतः शिष्यते कथ्यते यथा आचार्योऽर्थ व्याख्यानयति उपध्यायः सूत्रं वाचयति प्रवर्तते यः स संयमादौ प्रवृत्तिं कारयति संघाटकः साधुभिर्भिक्षाविचारभूम्यादौ गच्छतां साहाय्यं विधत्ते एषां पूजा विधेयेति / अथ नास्त्येतावती शक्तिस्ततो यतो यथामाहात्म्यं प्रथममाचार्योपाध्याययोस्तथाप्यशक्ती केवलस्यैवाचार्यस्य पूजां करोति / एवमप्यशक्तौ स्वयमात्मनो योग्यान् त्रीन् प्रत्यवतारान् तदभावे एकमपि प्रत्यवतारमादाय प्रव्रजति / अथ नास्ति तस्यैकोऽपि प्रत्यवतारस्ततः सर्वमपि पात्रनिर्योगादिकं तस्य गुरवः प्रयच्छन्ति। अथास्य विद्यमानविभवस्योगमकोटिदोषैर्विशोधिकोटिदोषैर्यान्यविशुद्धानि वस्त्राणि प्रयच्छतो ग्रहीतुंकल्पन्ते नवेति चिन्ता चिकीर्षुराह॥ अप्पणो कीतकडं व, आहाकम्मं व घेत्तु आगमणं / संजोए चेव तधा, अणिदिढे मग्गणा हुंति॥ स गृहस्थशैक्ष आत्मनो योग्यं वस्त्रपात्रादि क्रीतकृतं वस्त्वाधाकर्म वा गृहीत्वा गुरुणामन्तिके दीक्षाग्रहणायागमनं कुर्यात्। अत्र क्रीतकृतग्रहणेन विशोधिकोटिदोषा गृहीताः / अमीषां च दोषाणा-मनिर्दिष्टे उपलक्षणत्वान्निर्दिष्ट वा ये संयोगा भङ्गकास्तेषां मार्गण कर्त्तव्या भवतीति द्वारगाथासमासार्थः। सांप्रतमेनामेव विवृणोति / कीयम्मि अणिद्दिहे, तेणोग्गहियम्मि सेसगो कप्पे। निद्दिट्ठम्मि ण कप्पति, अहव विसेसो इमो तत्थ।। क्रीतकृतं द्विधा निर्दिष्टमनिर्दिष्ट च। निर्दिष्ट नाम वस्त्रपात्रादिकं क्रीणीत इत्थमुद्देशं करोति अमूनि मम भविष्यन्ति अमूनि साधूनां दास्यामि तद्विपरीतमनिर्दिष्टम् / एवमन्येष्वपि दोषेषु भावना कर्तव्या तत्र यानि वस्त्राणि तेनानिर्दिष्टानि क्रीतानि तेषां मध्ये यत्तस्याभिरुचितं वस्त्रजातं तेनावगृहीते सति शेषाणि साधूनां कल्पते निर्दिष्ट तु साधूनामर्थाय यत् क्रीतं तत् किमपि न कल्पते अथवा तत्र निर्दिष्टऽयं विशेषो ऽभिधीयते। मज्झंतिगाण गिण्हह, अहं तुज्झव्वए परिधित्थं। सेहेहिं ति व वत्थं, तदभावे विगिचंति॥ मदीयानि मया आत्मार्थ क्रीतानि वस्त्राणि यूयं गृहीथ अहं तु युष्मदीयानि युष्मदर्थं मयैव क्रीतानी वस्त्राणि परिगृहीष्ये एवं तेनोक्ते तान्यात्मार्थकीतानि कल्पन्ते / अथवा स ब्रूयात् यावत् युष्मदर्थतेतानि कीतानि इत ऊर्द्ध यत् जानीथ तत् कुरुथ ततस्तनिर्दिष्ट वस्त्र प्रत्यवताराः शैक्षस्यान पस्थापितस्य प्रयच्छन्ति / अथ नास्ति शैक्षो वा पर कि महं साधुन भवामि यदेवमेतानि मम दीयन्ते इति कृत्वा नेच्छति ततस्तानि (विगि