SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम 87 अभिधानराजेन्द्रः भाग 2 आगम चकः स्यात्। यथा च विकल्पस्य शब्द: कारणम्, एवं परंपरया स्वलक्षणमपि, अतस्तदपि वाचकं भवेदिति प्रतिनियतवाच्यवाचकभावव्यवस्थानं प्रलयपद्धतिमनुधावेत्, तत: शब्द: सामान्यविशेषाऽऽत्मकार्थावबोधनिबन्धनमेवेति स्थितम्। स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धने शब्द: इत्युक्तम् / अथ किमस्य शब्दस्य स्वाभाविक रूपं, किंच परापेक्षमिति विवेचयन्तिअर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवद्यथाऽर्थत्वाऽयथाऽर्थत्वे पुनः पुरुषगुणदोषावनुसरत: इति // 12|| अर्थप्रकाशकत्वम्-अर्थावबोधसामर्थ्यम्। अस्य-शब्दस्य स्वाभाविकम्- पराऽनपेक्षम्। प्रदीपवत्-यथा हि प्रदीप: प्रकाश- मान: शुभम् अशुभं वा यथासन्निहितं भावमवभासयति, तथा शब्दोऽपि वक्त्रा प्रयुज्यमान: श्रुतिवर्तिनीमवतीर्ण: सत्ये अनृतेवा, समन्धिते असमन्विते वा, सफले निष्फले वा, सिद्धे साध्ये वा; वस्तुनि प्रतिपत्तिमुत्पादयतीति तावदेवास्य स्वाभाविक रूपम्। अयं पुन: प्रदीपाच्छब्दस्य विशेष:-यदसौ संकेशव्युत्प- त्तिमपेक्षमाणः पदार्थप्रतीतिमुपजनयति, प्रदीपस्तु तन्निरपेक्ष:। यथाऽर्थत्वाऽयथार्थत्वे- सत्यार्थत्वाऽसत्यार्थत्वे पुन: प्रतिपाद-कनराधिकरणशुद्धत्वाऽशुद्धत्वे अनुसरतः; पुरुषगुणदोषापेक्षे इत्यर्थः। तथाहि-सम्यग्दर्शिनिशुचौ पुरुषे वक्तरियथार्था शाब्दी प्रतीति: अन्यथा तु मिथ्यार्थति। स्वाभाविक तुयाथायें मिथ्यार्थत्वे चाऽस्या: स्वीक्रियमाणे विप्रतारकेतरपुरुषप्रयुक्त- वाक्येषु व्यभिचाराऽव्यभिचारनियमोन भवेत्। पुरुषस्य च करुणादयो गुणा, द्वेषादयो दोषा: प्रतीता एव। तत्र च यदि पुरुषगुणानां प्रामाण्यहेतुत्वं नाभिमन्यते जैमिनीयैस्तर्हि दोषा-णामप्यप्रामाण्यनिमित्तता मा भूत / दोषप्रशमनचरितार्था एव पुरुषगुणा:, प्रामाण्यहेतवस्तु न भवन्तीत्यत्र च कोशपानमेव शरणं श्रोत्रियाणामिति / रत्ना०४ परि०। (19) (शब्दाऽर्थयोर्वाच्यवाचक भाव एव सम्बन्ध: इति 'णिद्देस' शब्दे चतुर्थभागे 1530 विशेषावश्यकगाथाच्याख्यावसरवक्ष्यते) संबन्धस्त्वभिधेयेन सह वाच्यवाचकभावलक्षण:शास्त्रस्यावश्यंभावी, इत्यनुक्तोऽपि अर्थात् गम्यते, इति संबन्धरहितत्वाऽऽशङ्कानुत्थानोपहतैवेति। रत्ना. 1 परि० 1 सूत्रटी (सम्मतितर्क - स्याद्वादमञ्जरी- रत्नाकरावतारिकादिग्रन्थेभ्यो विशेषोऽवगन्तव्यः)। (शब्दस्य पौद्गलिकत्वं नाऽऽकाश-गुणत्वमिति 'सद्द शब्दे७ सप्तमे भागे दर्शयिष्यते) (20) (आगमस्य हेतुवादाऽहेतुवादभेदेन द्वैविध्यम् 'अहेउवाय' शब्दे प्रथमभागे 891 पृष्ठे अहेतुवादस्वरूपं, तत्रैव हेतुवादल-क्षणमपि गतम्) "जीवाऽजीवाऽऽश्रवबन्धसंवरनिर्जरामोक्षास्तत्वम्" (तत्त्वार्थ सू०१४) इत्युभयवाऽऽदागमप्रतिपाद्यान् भावांस्तथैवा-संकीर्णरूपान् प्रतिपादयन् सैद्धान्तिक: पुरुषः, इतरस्तुतद्विराधक इत्याहजो हेउवायपक्ख-म्मि हेउओ आगमे य आगमिओ। सो स समयपण्णवओ, सिद्धतविराहओ अन्नो ||4|| यो हेतुवादाऽऽगमविषयमर्थं हेतुवादाऽऽगमेन,तद्विपरीतागम-विषय चार्थमागममात्रेण प्रदर्शयति वक्ता स स्वसिद्धान्तस्य- द्वादशाङ्गभ्य प्रतिपादनकुशल:, अन्यथाप्रतिपादयश्च- तदर्थस्य प्रतिपादयितुमशक्यत्वात् तत्प्रतिपादके वचसि अनास्थाऽऽदि- दोषमुत्पादयन्सिद्धान्तविराधको भवति सर्वज्ञप्रणीतागमस्य नि:सारताप्रदर्शनात, तत्प्रत्यनीको भवतीति यावत्। तथाहि-पृथिव्यादेर्मनुष्यपर्यन्तस्य षड्विधजीवनिकायस्य जीवत्वमागमेनाऽनुमानादिना च प्रमाणेन सिद्धं तथैव प्रतिपादयन् स्वसमयप्रज्ञापकः, अन्यथा तद्विराधकः / यत: प्रव्यक्तचेतने त्रसनिकाये चैतन्यलक्षणं जीवत्वं स्वसंवेदनाध्यक्षत: स्वात्मनि प्रतीयते, परत्र तु अपरेण-अनुमानतः / वनस्पतिपर्यन्तेषु पृथिव्यादिषु स्थावरेषु त्वनुमानतश्चैतन्यप्रतिपत्तिः / तथाहि- वनस्पतयश्चेतना:, वृक्षायुर्वेदाभिहितप्रतिनियतकालायुष्क-विशिष्टौषधप्रयोगसंपादितवृद्धिहानिक्षतभनसंरोहणप्रतिनियतवृद्धिषड्भावविकारोत्पादनाशावस्थानियतविशिष्टशरीरस्निग्धत्वरूक्षत्वविशिष्टदौहृदबालकुमारवृद्धावस्थाप्रति-नियतविशिष्टरसवीर्यविपाकप्रतिनियतप्रदेशाहारग्रहणादिमत्त्वान्यथानुपपत्ते:, विशिष्टस्त्रीशरीरवदित्याद्यनुमानं भाष्यकृत्प्रभृतिभिर्विस्तस्त: प्रतिपादितं तचैतन्यप्रसाधक- मित्यनुमानतस्तेषां चैतन्यमात्र सिध्यति। साधारणप्रत्येक- शरीरत्वादिकस्तु भेद: (जीवविचारगाथा)"गूढशिरसंधिपव्वं, समभंगमहीरगंच छिन्नरुहं। साहारणं सरीरं, तविवरीयं च पत्तेयं // 12 // " इत्याद्यागमप्रतिपाद्य एव। जीवलक्षणव्यतिरिक्तलक्षणा-स्त्वजीवा धर्माऽधर्माऽऽकाशपुद्गलभेदेन पञ्चविधाः / तत्र पुद्गलास्तिकायव्यति-- रिक्तानां स्वतो मूर्तिमद्रव्यसंबन्धमन्तरेणात्मद्रव्यवदमूर्त्तत्वादनुमानप्रत्ययावसेयता। तथाहि- "गतिस्थित्यवगाहलक्षणं पुद्गलास्तिकायादिकार्य" विशिष्टकारणप्रभवं, विशिष्टकार्यत्वात्, शाल्यडरादिकायवत्, यश्चासौ कारण विशेषः स धर्माऽधर्माऽऽकाशलक्षणो यथासंख्यमवसेयः। कालस्तु विशिष्टपरापरप्रत्ययादिलिङ्गानुमेयः। पुद्रलास्तिकायस्तु प्रत्यक्षानुमानलक्षणप्रमाणद्वयगम्यः यस्तेषां धर्मादीनां संख्ये-यप्रदेशात्मकत्वादिको विशेषस्तत्प्रदेशानां च सूक्ष्मसूक्ष्मतरत्वा- दिको विभाग: स:- "कालो य होइ सुहुमो" इत्याद्यागमप्रति- पाद्य एव नाऽऽगमनिरपेक्षयुक्त्यवसेयः। एवमाश्रवादिष्वपि तत्त्वेषु युक्त्या आगमगम्येषु युक्तिगम्यमंशंयुक्तितएव, आगमगम्यं केवलाऽऽगमत एव प्रतिपादयन् तु स्वसमयप्रज्ञापकः, इतरस्तुतद्विराधक इति प्रज्ञापकलक्षणमवगन्तव्यम्। सम्म. 3 काण्ड। (21) आगमस्य सर्वव्यवहारनियामकत्वम्आगमात्सर्व एवाऽयं,व्यवहारः स्थितो यतः। तत्रापि हाठिको यस्तु, हन्ताऽज्ञानां स शेखरः।।२३९|| आगमाद्- गुरुवचनप्रत्ययरूपात्सर्व एवनिखिलोऽ प्ययम्योगमार्गोपयोगी व्यवहारोहेयोपादेययोहानोपादानरूपः स्थित:प्रतिष्ठितो यत:- यस्मादतीन्द्रियफ लत्वात्तस्यातीन्द्रि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy