________________ आगम 88 अभिधानराजेन्द्रः भाग 2 आगम यफलषु चानुष्ठानेषु शास्त्रस्यैव प्रतीतिहेतुत्वात् ततस्तत्राप्याग-माधीने व्यवहारे किं पुनरितररूपे इत्यपि शब्दार्थ: / 'हाठिकः' | स्वविकल्पप्रवृत्त्यागमनिरपेक्षत्वेन बलात्कारचारी। यस्तु- य: पुनर्योगी हन्तेति सन्निहितसभ्यामन्त्रणमज्ञानाम्-अबुद्धिमतां स शेखर:शिरोमणिवर्ततेऽनुपायप्रवृत्तत्वात्तस्य / किंचतत्कारी स्यात्स नियमात, तवेषी चेति यो जडः। आगमाऽर्थे तमुल्लझ्य, तत एव प्रवर्तते // 240 / / तत्कारी-तत्करणशील: स्याद्-भवेत्स नियमादवश्यंभावेन तद्वेषीचस्वयमेव क्रियमाणवस्तुद्वेषवांश्चेत्येतत्तद्रूप: संपद्यते य:-कश्चिज्जडोमन्दः, आगमार्थे- आगमविहिते चैत्यवन्दनादौ विधातुमिष्टे। तम्आगममुल्लङ्घय- अतिक्रम्य 'तत एव' - आगमादेव प्रवर्ततेआगमनिरूपितविधिनिरपेक्षितया आग-मार्थमनुतिष्ठन्नपि न तद्भक्तः / किंतु- तद्विष एव द्वेषमन्तरेण तदुल्लङ्घनाभावादिति भावः / यो बि। (अतीन्द्रियार्थप्रत्यायकस्त्वागम एव)"आगमश्चोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम्। अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये॥शा आगमो ह्याप्तवचन-माप्तं दाषक्षयाद्विदुः। वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धेत्वसंभवात्" ||2|| दश०४ अ.। अनु। तथा चशास्त्रस्यैवावकाशौ च, कुतर्काऽऽग्रहतस्ततः। शीलवान् योगवानत्र, श्रद्धावाँस्तत्त्वविद्भवेत् ||13|| अत्र- अतीन्द्रियार्थसिद्धौ शास्त्रस्यैवावकाशस्तस्यातीन्द्रियार्थसाधनसमर्थत्वाच्छुष्कतर्कस्यातथात्वात्, तदुक्तम्- "गोचरस्त्वागमस्यैव, ततस्तदुपलब्धितः। चन्द्रसूर्योपरागादि-संवाद्यागमदर्शनात्।।१।" द्वा० / 23 द्वा०। (श्लोकार्थ: 'कुतक्क' शब्दे तृतीयभागे 585 पृष्ठे करिष्यते) अस्थानं रूपमन्धस्य, यथा सनिश्चयं प्रति। तथैवातीन्द्रियं वस्तु, छद्मस्थस्यापि तत्त्वत: / / 25|| हस्तस्पर्शसमं शास्त्र, तत एव कथंचन। अत्र तन्निश्चयोऽपि स्या-त्तथाचन्द्रोपरागवत्।।६।। द्वा० 16 द्वा०। (अनयोरर्थः 'इस्सर' शब्देऽस्मिन्नेवभागे विस्तरत: दर्शयिष्यते) (आगमस्य परलोकादिसाधकत्वम्)आगमप्रमाणबलाद्धि सकलमपि परलोकादिपरस्वरूपं यथावदनुगम्यन्ते नान्यतस्तेन यदुच्यते प्रज्ञाकरगुप्तेन- "दीर्घकालसुखादृष्टा-विच्छा तत्र कथं भवेत्" इति तदपास्तमवसेयम् आगतौ दीर्घकालसुखस्य दर्शनात् / न चागमस्य न प्रामाण्यं तदप्रामाण्ये सकलपरलोकानुष्ठानप्रवृत्त्यनुपपत्ते: उपायान्तराऽ- भावात् / नं०३ गाथाटी। शास्त्रमासन्नमव्यस्य, मानमामुष्मिकेविधौ। सेव्यं यदिचिकित्सायां, समाधिप्रतिकूलता ||30|| द्वा० 14 द्वा०। (अस्य श्लोकस्यार्थ: 'जोग' शब्दे चतुर्थभागे 1632 पृष्ठे दर्शयिष्यते) (22) धर्ममार्गे चाऽऽगमस्यैव प्रामाण्यम्, कुशीलानामागमाऽप्रमाण्यम्) जम्हा न धम्ममग्गे, मोत्तूणं आगमं इह पमाणं / विज्जइछउमत्थेणं, तम्हा एत्थेव जइअव्वं ||1707 / / यस्मान्न धर्ममार्गे-परलोकगामिनि मुक्त्वा आगममेकं परमार्थत इह प्रमाणं- प्रत्याख्यानादि विद्यते छद्मस्थानां प्राणिनां, तस्मादत्रैवागमे कुग्रहान्विहाय यतितव्यम् / जिज्ञासाऽश्रवणश्रवणानुष्ठाने यत्न: कार्यों नागीतार्थ-जनाचरणपरेण भवितव्यमिति गाथार्थः / प्रत्यपायप्रदर्शनद्वारेणैतदेवाहसुअबज्जायरणरया, पमाणयंता तहाविहं लो। मुअणगुरुणो वरागा, पमाणयं नावगच्छंति / / 1708 / / श्रुतबाह्याचरणरता:- आगमबाह्यानुष्ठानसक्ताः प्रमाणयन्त:- सन्त: के नचिचोदनायां क्रियमाणायां तथाविधं लोकं- श्रुतबाह्यमेवाऽगीतादिकं, किमित्याहभुवनगुरो:- भगवतस्तीर्थकरस्य वराकास्तेऽप्रमाणतामापत्तिसिद्धां नावगच्छन्ति, तथाहि- यदि ते सूत्रबाह्यस्य कर्तारः प्रमाणं भगवांस्तर्हि तद्विरुद्धस्त्रार्थवक्ता अप्रमाणमिति महामिथ्यात्वं बलादापद्यत इति गाथार्थः / अत एव प्रक्रमाद्धमानधिकारिणमाहसुत्तेण चोइओ जो, अण्णं उद्दिसिअतण्ण पडिवज्जे। सो तत्तवायबज्मो, न होइ धम्ममि अहिगारी।1१७०६।। सूत्रेण चोदित:- इदमित्थमुक्तम् एवं, य: सत्त्व; अन्य-प्राणिनं मुदिश्यात्मतुल्यमुदाहरणतया तन्न प्रतिपद्यते। सौत्रमुक्तं, स- एवंभूत:तत्त्ववादबाह्यः, परलोकमङ्गीकृत्य परमार्थवादबाह्यो, न भवति, धर्मे सकलपुरुषार्थहेतावधिकारी सम्यग्विवेकाभा- वादिति गाथार्थः / ___अत्रैव प्रक्रमे किमित्याहतीअबहुस्सुयणायं, तक्किरिआदरिसणा कह पमाणं। वोच्छिज्जंती अइमा, सुद्धा इह दीसई चेव / / 1710 / / तीतबहुश्रुतज्ञातम्, अतीता अप्याचार्या बहुश्रुता एव, तैः कस्मादिदं वन्दनं कायोत्सर्गादिनानुष्ठितमित्येवंभूतंकिमि-त्याह- तत्क्रियादर्शनाद् तीतबहुश्रुतसंबन्धिक्रियादर्शनात्का- रणात्कथं प्रमाणं; नैव प्रमाणं, न ज्ञायते ते कथं वन्दनादिक्रियां कृतवन्त इति / नचेदानींतनसाधुमात्रगतक्रियानुसारत: ततथातावगम इत्याहव्यवच्छिद्यमाना चेयं क्रिया शुद्धा आगमानुसारिणी इह लोकेसांप्रतमपि दृश्यत एव, कालदोषादिति गाथार्थ:। उपसंहरन्नाहआगमपरतंतेहि, तम्हा णिचं पिसिद्धिकंखीहिं। सव्वमणुट्ठाणं खलु, कायव्वं अप्पमत्तेहि / / 1711|| यस्मादेवम्-आगमपरतन्त्रैः- सिद्धान्तायत्तै: तस्मान्नित्यमपिसर्वकालमपि सिद्धिकाङ्किभि-भव्यसत्त्वैः सर्वमनुष्ठानं खलु वन्दनादि कर्तव्यमप्रमत्तै:- प्रमादरहितैरिति गाथार्थ: / पंव।