________________ आगम 86 अभिधानराजेन्द्रः भाग 2 आगम वर्णात्मा आवयोः प्रसिद्धः, स स्वाभाविकसामर्थ्यसमयाभ्यां कृत्वा अर्थबोधनिबन्धनमेवेति। अथ स्वाभाविक सामर्थ्य समयाभ्यां शब्दस्यार्थे सामान्यरूपे, विशेषलक्षणे, तदुभयस्वभावे वा वाचकत्वं व्याक्रियेत। न प्रथम, सामान्यस्यार्थक्रियाकारित्वाभावेन नभोऽम्भोजसन्निभत्वात्। न द्वैतीयीके विशेषस्य स्वलक्षणलक्षणस्य वैकल्पिकविज्ञा-नागोचरत्वेन संकेतास्पदत्वाऽसंभवात् / तत्संभवेऽपि विशेषस्य व्यवहारकालाननुयायित्वेन संकेतनैरर्थक्याता तार्तीयीकेतु स्वतन्त्रयोः, तादात्म्यापन्नयोर्वा सामान्यविशेषयो स्तद्गोचरता संगीर्येत। नाद्यः पक्ष:, प्राचिकविकल्पोपदर्शितदोषानुषङ्गात्। न द्वितीयः, सामान्यविशेषयोर्विरुद्धधम्मध्यिासितत्वेन तादात्म्याऽयोगादिति नार्थो वाच्यो वाचाम, अपि तु परमार्थत: सर्वतो व्यावृत्तस्वरूपेषु स्वलक्षणेष्वेकार्थकारित्वेन, एक कारण-त्वेन चोपजायमानैक प्रत्यवमर्शरूपविकल्पस्याकारो बाह्यत्वे-नाभिमन्यमानो बुद्धिप्रतिबिम्बव्यपदेशभाक् अपोहः; शब्दश्रुतौ सत्यां तादृशोल्लेखशेखरस्यैव वेदनस्योत्पादात्। अपोहत्वं चास्य स्वाकारविपरीताकारोन्मूलकत्वेनावसेयम्। अपोह्यते स्वाकाराद्विपरीत आकारोऽनेनेत्यपोह इति व्युत्पत्तेः। तत्त्वतस्तुन किंचिद्वाच्यं वाचकं वा विद्यते, शब्दार्थतया कथिते बुद्धिप्रतिबिम्बात्मन्यपोहे कार्यकारणभावस्यैव वाच्यवाचकतया व्यवस्थापितत्वात्। ''अथ श्रीमदनेकान्त-समुद्घोषपिपासितः। अपोहमापिबामि प्राग, वीक्षन्तां भिक्षवः क्षणम् ॥शा इह तावद्विकल्पानां तथाप्रतीतिपरिहतविरुधर्माध्यासकथंचित्तादात्म्यापन्न-सामान्यविशेषस्वरूपवस्तुलक्षणाक्षणदीक्षादीक्षितत्वं प्राक्प्राक - ट्यता ततस्तत्त्वत: शब्दानामपि तत्प्रसिद्धमेवा यतोऽजल्पि युष्मदीयैः स एव शब्दानां विषयो यो विकल्पानाम्' इति कथम् अपोह: शब्दार्थ: स्यात्। अस्तु वा तथाप्यनुमानवत्किं न शब्द: प्रमाणमुच्यते। अपोहगोचरत्वेऽपि परंपरया पदार्थ प्रतिबन्धात्प्रमाणमनुमानमिति चेत्तत एव शब्दोऽपि प्रमाणमस्तु अतीतानागताम्बरसरोजादिष्वसत्स्वपि शब्दोपलम्भान्ना-त्रार्थप्रतिबन्ध इति चेत्, तीभूद् वृष्टिः, गिरिनदीवेगोपलम्भात्, भावीभरण्युदयः, रेवत्युदयात्, नास्ति रासभशृङ्गं समग्र प्रमाणैरनुपलम्भात् इत्यादेरर्थाभावेऽपि प्रवृत्तेरनुमाने-ऽपिनार्थप्रतिबन्ध: स्यात्। यदि वचोवाच्याऽपोहोऽपि पारंपर्येण पदार्थप्रतिष्ठ: स्यात्। तदानीम्-अलाबूनि मज्जन्तीत्या-दिविप्रतारकवाक्याऽपोहोऽपि तथा भवेदिति चेद्, अनुमेया-ऽपोहेऽपि तुल्यमेतत् प्रमेयत्वादिहेत्वनुमे याऽपोहेऽपि पदार्थप्रतिष्ठताप्रसक्ते / प्रमेयत्वं हेतुरेव न भवति, विपक्षासत्त्वतल्लक्षणाभावादिति कुत्तस्त्या तदपोहस्य तनिष्ठतेति चेत्, तर्हि विप्रतारक वाक्यमप्यागम एव न भवति आप्रोक्तत्वल्लक्षणाभावादित्यादि समस्तं समानम्। यस्तु "नाप्सोक्तत्वं वचसि विवेचयितुं शक्यम्' इति "शाक्यो' वक्ति स पर्यनुयोज्य / किमाप्तस्यैव कस्याप्यभावादेवमभिधीयेत, भावेऽप्यभावस्य निश्चयाभावात्, निश्चयेऽपि मौनव्रतिकत्वात्, वक्तृत्वेऽप्य- नाप्तवचनात्, तद्वचसो विवेकावधारणाभावाद्वा। सर्वमप्येतत् "चार्वाका'' दिवाचां प्रपञ्चात्। मातापितृपुत्रभ्रातृगुरुसुगतादिव-चसां विशेषमातिष्ठमानैरप्रकटनीयमेव नच-नाऽस्ति विशेषस्वीकारः, तत्पठितानुष्ठानघटनायामेव प्रवृत्तेर्निर्निबन्धनत्वाऽऽपत्तेः। अथानुमानिक्येवाप्तदशब्दादर्थ-प्रतीति:; कथम्? ''पादपार्थविवक्षावान्, पुरुषोऽयं प्रतीते। वृक्षशब्दप्रयोतृत्वात्, पूर्वावस्थास्वहं यथा''||१|| इति विवक्षामनुमाय, सत्या विवक्षेषयम, आप्तविवक्षात्वात, मद्विव- क्षावादिति वस्तुनो निर्णयादिति चेत्, तदचतुरस्त्रम्। अमूदृश- व्यवस्थाया अनन्तरोक्तवैशेषिकपक्षप्रतिक्षेपेण कृतनिर्वचन-त्वात्। किंच-शाखादिमतिपदार्थे वृक्षशब्दसंवेते सत्येतद्विवक्षानुमानमातन्येत्, अन्यथा वा न तावदन्यथा। केनचित्कक्षे वृक्षशब्द संकेत्य तदुच्चारणात्, उन्मत्तसुप्तशुकसारिकादिना गोत्रस्खलनवता चान्यथाऽपि तत्प्रतिपादनाच हेतोर्व्यभिचारा- पत्तेः। संकेतपक्षे तु यद्येष तपस्वी शब्दस्तद्वशाद्वस्त्वेव वदेत्तदा किंनाम खूणं स्यात्। न खल्येषोऽर्थाद्विभेति। विशेषलाभश्चैवं सति यदेवंविधाननुभूयमानपारंपर्यपरित्याग इति। यदकथि- 'परमार्थतः सर्वतोऽव्यावृत्तस्वरूपेषु स्वलक्षणेष्वेकार्थकारित्वेन' इत्यादि। तदवद्यम्। यतोऽर्थ स्य वाहदोहादेरेकत्वम्, अद्विरूपत्वं, समानत्वं वा विवक्षितम्। न तावदाद्यः पक्ष:- षण्डमुण्डादौ कुण्डकाण्डभाण्डादिवाहादेरर्थस्य भिन्नस्यैव संदर्शनात्। द्वितीयपक्षेऽपि सदृशपरिणामास्पदत्वम् अन्यव्यावृत्त्य-धिष्ठितत्वं वा समानत्वं स्यात्। न प्राच्यः प्रकारः, सदृशपरि- णामस्थ सौगतैरस्वीकृतत्वात्। न द्वितीयः, अन्यव्यावृत्तेर- तात्विकत्वेन बान्ध्येयस्येव स्वलक्षणेऽधिष्ठानासंभवात्। किंच- अन्यत: सामान्येन विजातीयाद्वा व्यावृत्तिरन्यव्यावृत्तिर्भवेत्। प्रथमपक्षे, न किंचिदसमानं स्यात्, सर्वस्यापि सर्वतो व्यावृत्तत्वात् द्वितीये तु विजातीयत्वं वाजिकुजरादिकार्याणां वाहादि-सजातीयत्वे सिद्धे सति स्यात्, तच्चान्यव्यावृत्तिरूपमन्येषां विजातीयत्वे सिद्धे सति, इतिस्पष्ट परस्पराश्रयत्वमिति। एवं च कारणैक्यं प्रत्यवमर्शक्यं च विकल्प्य दुषणीयम्। अपिच-यदिबुद्धिप्रतिबिम्बात्मा शब्दार्थ: स्यात्तदा कथमतो बहिरर्थे प्रवृत्तिः स्यात्?स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायाचेत्। ननु कोऽयम-र्थाध्यवसायो नाम अर्थसमारोप इति चेत्, तर्हि सोऽयमर्थानर्थयोरग्निमाणवकयोरिव तद्विकल्पविषयभावे सत्येव समुत्पत्तुमर्हति नच समारोपविकल्पस्य स्वलक्षणं कदाचन गोचरतामञ्चति। यदि चाऽनर्थेऽर्थसमारोप: स्यात्, तदा वाहदोहाद्यर्थ-क्रियार्थिन: सुतरां प्रवृत्तिर्न स्यात् / नहि दाहपाकाद्यर्थी समारोपितपावकत्वे माणवके कदाचित्प्रवर्त्तते। रजतरूपतावभा-समानशुक्तिकायामिव रजतार्थिनोऽर्थक्रियार्थिनो विकल्पात्तत्र प्रवृत्तिरिति चेत्। भ्रान्तिरूपस्तॉयं समारोपः, तथा च कथं तत: प्रवृत्तोऽर्थक्रियार्थी कृतार्थ: स्यात्। यथा शुक्तिकायां प्रवृत्तो रजा- तार्थक्रियार्थीति। यदपि प्रोक्तं कार्यकारणभावस्यैव वाच्यवाचक-तया व्यवस्थापित्वादिति। तदप्ययुक्तम्। यतो यदि कार्यकारणभाव एव वावाच्यवाचकभावः स्यात्, तदा श्रोत्रज्ञाने प्रतिभासमान शब्द: स्वप्रतिभासस्य भवत्येव कारणमिति तस्याऽप्य सौ वा