SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम 85 अभिधानराजेन्द्रः भाग 2 आगम कश्चित्प्रतिबन्धकाभावः कारणं, यदभावात्तदानींनकार्य जायते, तद्वदेव त्वन्मतेन सर्वेषामवधृतसामर्थ्यत्वात्। अथ सर्वे प्रतिबन्धकाभावा: समुदिता एव कारणं; न पुनरेकैकश: कुम्भकारवत्, तर्हि कदाचिदपि दाहांदिकार्योत्पत्तिर्न स्यात, तेषां सर्वेषां कदाथिदभावात्, भुवने मणिमन्त्रतन्त्रादिप्रतिबन्धकानां भूयसां संभवात्। अथ ये प्रतिबन्धकास्तं तनूनपातं प्रतिबद्धं, प्रसिद्धसामर्थ्याः, तेषामेवाऽभावा: सर्वे कारणं, नतु सर्वेषां, सर्वशब्दस्य प्रकारकास्न्ये वर्तमानस्य स्वीकारात्, इति चेत्। ननु प्रसिद्धसामा इति सामर्थ्यशब्दस्यातीन्द्रिया शक्ति:, स्वरूपं वा प्रतिबन्धकानां वाच्यं स्यात्। प्राच्यपक्षक क्षीकारे, क्षीणः क्षणेनावयोः कण्ठशोषः। अतीन्द्रियशक्तिस्वीकारात्। द्वितीयपक्षे तु त एव तं प्रति प्रतिबन्धका; नापरे, इति कौतस्कुती नीति:? स्वरूपस्योभयेषामपि भावात्। न खलु मणिमन्त्रादेः कश्चिदेव जातवेदसमाश्रित्य तत्स्वरूपं, न पुनर्जातवेदोऽन्तर-मिति। तथा न प्रतिबन्धकस्यात्यन्ताऽभावस्तावत्कारणतया वक्तुं युक्तः, तस्याऽसत्त्वाद, अन्यथाजगति प्रतिबन्धककथां प्रत्यस्तमयप्रसङ्गात्। अपरे पुन: प्रतिबन्धकाभावा एकैकश: सहकारितां धीरन्, द्वित्रा वा। प्रथमपक्षे; प्रागभावः, प्रध्वंसाऽभावः, परस्पराऽभाव:, य: कश्चिद्वा सहकारी स्यात् / न प्रथमः, प्रतिबन्धक प्रध्वंसेऽपि पावकस्य प्लोषकार्योपलम्भात्। न द्वितीय:, प्रतिबन्ध-कप्रागभावेऽपि दहनस्य दाहोत्पादकत्वात्।न तृतीय:, प्रतिबन्धकसंबन्धबन्धोरपि धनञ्जयस्य स्फोटघटनप्रसङ्गात्, तस्य तदानीमपि भावात्। न चतुर्थः, प्ररूपयिष्यमाणानियत-हेतुकत्वदोषानुषङ्गात्। द्विवप्रतिबन्धकाभावभेदे तु किं प्रागभा- वप्रध्वंसाऽभावौ, प्रागभावपरस्पराऽभावौ , प्रध्वंसाऽभावपरस्प- राऽभावौ, त्रयोऽपि वा हेतवो भवेयुः / नाद्य: पक्ष:, उत्तम्भकनैकट्ये तावन्तरेणापि पावकस्य प्लोषकार्याऽजनदर्शनात्। न द्वितीयतृतीयतुरीया:, प्रतिबन्धकपरस्पराऽभावस्य प्राक तदकारणत्वेन वर्णितत्वात्, भेदत्रयस्यापि चास्य परस्पराभावसंबलितत्वात्। अथ प्रागभावप्रध्वंसाभावोत्तम्भकमणिमन्त्र-तन्त्रायो यथायोगं कारणमिति चेत् / तदस्फुटम्। स्फोटादिकार्यस्यैवमनियतहेतुकत्वप्रसङ्गात् / अनियतहेतुकं चाऽहेतुकमेव / तथाहिअन्वयव्यतिरेकावधार्य: कार्यकारभावो भावानाम्, धूमधूमध्वजयोरिव / प्रस्तुते तु प्लोषादि यदेकदैकस्मादुत्पद्यनमामीक्षामासे, तदन्यदा यद्यन्यतोऽपि स्यात्, तर्हि तत्कारण-कमेव तन्न भवेदिति कथं नाऽहेतुकं स्यात् ? अथ गोमायात्, वृश्चिकाच वृश्चिकोत्पाद: प्रेक्ष्यते / न च तत्रानियतहेतुकत्वं स्वीकृतं त्वयाप्रीति चेत्। तदपि त्रपापात्रम्। सर्वत्र हि शालू कगोमयादौ वृश्चिक डिम्भारम्भशक्तिरेकास्ति इति यानि तच्छक्तियुक्तानि तानि तत्कार्योत्पादकानि, इति नायं न: कलङ्क: सङ्क्रामति / भवतां पुनरत्राप्ययं प्रादुर्भवन् दुष्प्रतिषेधः, येषां वृश्चिकगोमयसाधारणमेकं किंचिन्नास्तीति / नच प्रागभावप्रध्वंसाभावोत्तम्भकादीनामप्येकं किंचित्तुल्यं रूपं वर्त्तने / इति नानियतहेतुक त्वेन दुर्विधदैवेनेवाऽमी मुच्यन्ते / एतेन 'भावस्वभावोऽप्य भाव एवास्तु हेतुर्नत्वतीन्द्रियशक्तिस्वीकार: सुन्दर:' इत्यप्युच्यमानमपास्तम्। उक्ताभावविकल्पानामत्राप्य-विशेषात्। अथ शक्तिपक्षप्रतिक्षेपदीक्षिता"आक्षपादा" एवं साक्षेपमाचक्षते-ननुभवत्पक्षे प्रतिबन्धकोऽकिंचित्कर: किंचित्करो वा भवेत्। अकिंचित्करप्रकारेऽतिप्रसङ्गः, शृंङ्गभृङ्ग- भृङ्गाराऽऽदेरप्यकिंचित्करस्य प्रतिबन्धकत्वप्रसङ्गात्। किंचित्करस्तुकिंचिदुपचिन्वन् अपचिन्वन्वा स्यात्। प्राचिपक्षे, किं दाहकशक्तिप्रतिकूला शक्तिं जनयेत्, तस्या एव धर्मान्तरं वा / न प्रथमः, प्रमाणाभावात् / दाहाऽभावस्तु, प्रतिबन्धक - सन्निधिमात्रेणैव चरितार्थ इतिन तामुपपादयितुमीश्वरः। धन्तिरजनने तदभावे सत्येव दाहोत्पाद इत्यभावस्य कार- णत्वस्वीकारः, त्वदुक्ताशेषप्रागभावाऽऽदिविकल्पाऽवकाशश्च / अपचयपक्षे तु प्रतिबन्धकस्तां शक्तिं विकुट्टयेत, तद्धम वा / प्रथमप्रकारे-कुतस्त्यं कृपीटयोने: पुन: स्फोटघटनपाटवम्।तदानीमन्यैव शक्ति: संजातेति चेत्। ननु सा संजायमाना किमुत्तम्भकात्प्रतिबन्धकाभावात् देशकालादिकारकचक्रात् अतीन्द्रियार्थान्तरादा जायते। आद्यभिदायाम्, उत्तम्भकाभावे- ऽपि प्रतिबन्धकाभावमात्रात्कौतस्कुतं कार्याऽर्जनं जातवेदसः। द्वितीयभेदे-ततएव स्फोटोत्पत्तिसिद्धेः शक्तिकल्पनावैयर्थ्यम्। तृतीयेदेशकालादिकारकचक्रस्य प्रतिबन्धकालेऽपि सद्भावेन शक्त्यन्तरप्रादुर्भावप्रसङ्गः। चतुर्थे- अतीन्द्रियार्थान्तरनिमित्त- कल्पने तत एव स्फोट: स्फूट भविष्यति, किमनया कार्यम्? तन्न शक्तिनाश: श्रेयसः। तद्वदेव तद्धर्मनाशपक्षोऽपि प्रतिक्षेपणीयः। अत्राभिद्धमहे। एतेषु शक्तिनाशपक्ष एव कक्षीक्रियत इत्यपरविकल्पशिल्पकल्पनाजल्पाकता कण्ठशोषाशयैव व: संबभूवा यत्तूक्तम्- कुत: पुनरसावुत्पद्येतेति। तत्र शक्त्यन्तर- सहकृता कृपीटयोनेरेवेतिब्रूमः। ननु प्रतिबन्धकदशायां सा शक्तिरस्ति; न वा। नास्ति चेत् कुत: पुनरुत्पद्येता शक्त्यन्तरसहकृतादग्नेरेवेति चेत्, तर्हि साऽपि शक्त्यन्तरसध्रीचस्तस्मादेवोन्मज्जेदित्यनवस्था। अथाऽस्ति, तदानीमपि स्फोटो-त्पादिकां शक्तिं संपादयेत् ततोऽपि स्फोट: स्फुटं स्यादेवेति। अत्रोच्यतेप्रतिबन्धकावस्थायामप्यस्त्येव शक्त्यन्तरं, घटयति च स्फोटघटनलम्पटां शक्तिं तदापि। यस्तु तदा स्फोटानुत्पादः, स प्रतिबन्धकेनोल्पनोत्पन्नायास्तस्याः प्रध्वंसात्। प्रतिबन्धकापगमे तु स्फोट: स्फुटीभवत्येवेत्यतीन्द्रियशक्तिसिद्धिः। अत्रा- ऽऽशङ्कान्तरपरिहारप्रकारमौक्तिककणप्रचयावचाय: स्याद्वादर-त्नाकरात् तार्किकै कर्त्तव्यः। एवं च स्वाभाविकशक्तिमान् शब्द: अर्थबोधयतीति सिद्धम्, अथ तदङ्गीकारे तत एवार्थसिद्धेः संक्तकल्पनाऽनर्थिकैव स्यादिति चेत्, मैवम् / अस्य सहकारितया स्वीकाराद्; अङ्कुरोत्पत्तौ पय:पृथिव्यादिवत् / अथ स्वाभाविक-संबन्धाभ्युपगमे देशेभेदेन शब्दानामर्थभेदो न भवेत् भवतिचायम्, चौरशब्दस्य दाक्षिणात्यैरोदने प्रयोगादिति चेत् / तदशस्यम् / सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात्। यत्र च देशे यदर्थप्रति-पादनशक्तिसहकारी संकेत:, स तमर्थ तत्र प्रतिपादयतीति सर्वमवदातम्। सौगतांस्तु प्रत्येवंविधेयानुवाद्यभाव: योऽयं शब्दो
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy