SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम 84 अमिधानराजेन्द्रः भाग२ आगम प्रतीयते, तथाभूतादेव मणिमन्त्रयन्त्रतन्त्रौषधादिसन्निधाने सति न प्रतीयते। यदि हि दृष्टमेव रूपं स्फुटं स्फोट घटयेत्, तदा तदानीं तस्य समस्तस्य सद्भावात्तदनुत्पादो न स्याद्। अस्ति चासौ, ततो दृष्टरूपस्य व्यभिचारं प्रपञ्चयन्नतीन्द्रियायाः शक्तेः सत्त्वं समर्थ(प) यति। तथा च "स्वरूपात्वाऽप्यनुद्यत्तत्सह-कार्युपहितात्। किं न कल्पयितुं शक्तं, शक्तिमन्यामतीन्द्रियाम् // 12 // यत्तूक्तम्- "दाहादावन्धयव्यतिरेकाभ्यां वृद्धव्यवहाराद्वा ज्वलनादेरेव कारणत्वमवगच्छामः" इति। तदुक्तिमात्रमेव / यत एव हि दाह-दहनयो: कार्यकारणभावनियमः प्रसिद्धिपद्धति-प्रतिबद्ध एव, तत एव प्रसङ्ग प्रवर्तते। यदि कृशानु: स्वरूपमात्रादेव दाहमुत्पादयेत्, तर्हि तदविशेषादुदन्यापनोदमपि विदध्यादिति। अथ न मणिमन्त्रादिप्रतिबन्धकनैकट्ये सति स्फोटानुत्पत्तिर दृष्टं रूपमाक्षिपति, यथा ह्यन्वयव्यतिरेकाभ्यामवधृतसामर्थ्यो दहनो दाहहेतुः, तथा प्रतिबन्धकाभावोऽपि। स च प्रतिबन्धक-योगे विनिवृत्त इति सामग्रीवैगुण्यादेव दाहस्यानुत्पत्तिः, नतु शक्तिवैकल्यादिति चेत् तदयुक्तम्। यतः प्रतिबन्धकाभावो भावादेकान्तव्यतिरिक्तः कथं किंचित्कार्य कुर्यात् ? कूर्मरोमराजीवत्। ननु नित्यानां कर्मणामकरणात्प्रागभावस्वभावात्प्रत्यवाय उत्पद्यते, अन्यथा नित्याऽकरणे प्रायश्चित्तानुष्ठानं न स्यात्, वैयर्थ्यात् / तन्न तथ्यम् / नित्याकरणस्वभावात्क्रियान्तरकरणा-देव प्रत्यवायोत्पत्तेभ्युपगमात्, त्वन्मतस्य तस्य तद्धेतुत्वाऽसिद्धेः। यदप्युच्यते- "सुखदु:खसमुत्पत्तिरभावे शत्रुमित्रयोः।। कण्टकाऽभावमालक्ष्य, पादः पथि निधीयते" ||1|| तत्राऽप्य-मित्रमित्रकण्टकाभावज्ञानानामेव सुखदु: खा िनिधानकार्यकारित्वं, नत्वभावानाम् / तज्ज्ञानमप्यमित्रमित्रकण्टकविविक्तप्रतियोगिस्त्वन्तरसंपादितमेव, नतुत्वदभिमताभावकृतम्। अथ भाववदभावोऽपि भावजननसमर्थोऽस्तु: को दोषः / न हि नि:शेषसामर्थ्यरहितत्वमभावलक्षणम् अपितुनास्तीति ज्ञानगम्यत्वम् / सत्प्रत्ययगम्यो हि भाव उच्यते, असत्य-प्रत्यगम्यस्त्वभाव इति चेत्। तदयुक्तम्। त्वदभ्युपगताभावस्य भावात्सर्वथा पार्थक्येन स्थितस्य भावोत्पादत्वविरोधात्। तथाहि- विवादास्पदीभूतोऽभावो भावोत्पादको न भवति, भावादेकान्तव्यतिरिक्तत्वात्, यदेवं तदेवं यथा तुरङ्गशृङ्गम्। तथा चायं तस्मात्तथा / प्रागभावप्रध्वंसाभावपरस्पराभावस्वभावो ह्यभावो वस्तुनो व्यतिरिक्तमूर्तिर्भावोत्पादक: परैरिष्टः, सोऽत्र विवादपदशब्दित: / अन्यथा-जैनस्य भावाविष्वग्भूताभावैर्भावोत्पादकत्वेनाङ्गीकृतैर्बाधा स्यात्। यौगस्य चात्यन्ताभावेन भावानुत्पादकेन सिद्धसाध्यता भवेत्। नन्वयं धर्मित्वे-नोपात्तोऽभावो भवद्भिः प्रतिपन्नो न वा! यदि प्रतिपन्नः; किं प्रत्यक्षाद्, अनुमानात्, विकल्पाद्वा; उपमानादेरत्रानुचितत्वात्। यदि प्रत्यक्षात्; तदा कथमभावस्य भावोत्पादनापवादस्सूपपाद: स्यात्? प्रत्यक्षस्यवोत्पादित्वात् / अथानुमानात्तत्प्रतिपत्तौ; तत्राप्यभावधर्मिणः प्रतीतिर-नुमानान्तरादेव, इत्यत्राऽनवस्थादौस्थ्यस्थेमा / विकल्पादपि तत्प्रतीतिः; प्रमाणमूलात्, तन्मात्रादेव वा / न प्रथमात्; प्रमाणप्रवृत्तेस्तत्र तिरस्कृतत्वात्। विकल्पमात्रात्तु तत्प्रतीति-रसत्कल्या, तत: कस्यापि प्रतिपत्तेरनुपपत्तेः / अन्यथा- प्रामाणिकानां प्रमाणपर्येषणमरमणीयं स्यात् / तथा चाश्रयासिद्धो हेतुः। अथाप्रतिपन्न:, तर्हि कथं धर्मितयोपादायि? उपात्ते चास्मिन्। हेतुराश्रयासिद्धएव। अत्रोच्यतेविकल्पमात्रादेव तत्प्रतिपत्तिं ब्रूमहे ! नचाश्रयासिद्धिः, अवस्तुनि विकल्पा-त्प्रसिद्धेरवश्याश्रयणीयत्वाद्। अन्यथा बन्ध्यास्तनन्धयादिशब्दानुयारणप्रसङ्गात्। नच-नोचार्यत एवायं मयेति वाच्यम् / बान्ध्येयोऽस्ति, नास्ति वेति / पर्यनुयोगे पृथ्वीपतिपरिषद्यवश्यं विधिनिषेधान्यतराभिधायिवचनस्यावकाशात् / तूष्णीं पुष्णतोऽस्याप्रतिपित्सितं, किंचिदुचारयतो वा पिशाचकित्व-प्रसङ्गात्। तथाविधवचनोच्चारणे च कथमेतदिति प्रमाणगवेषणे अनुमानमुच्चार्यमाणमाश्रयासिद्धिग्रस्तम्। समस्तं निष्प्रमाणकं वचनमात्रं प्रेक्षावता प्रश्नकृताऽनपेक्षितमेव। न चोभया-भावोऽभिधातुं शक्यः। विधिनिषेधयोर्भावाभावस्वभावत्वात्, एकनिषेधेनापरविधानात्। विधिप्रतिषेधो हि निषेधः, निषेधप्रतिषेधश्च विधिः। अस्तु वोभयप्रतिषेधप्रतिज्ञाहेतोस्तु तत्रोपादीयमानस्य नाश्रया सिद्धिपरिहारः / तदुक्तम्-"धर्मस्य कस्यचिदवस्तुनि मानसिद्धाबाधाविधिव्यवहृति: किमिहास्ति नो वा अस्त्येव चेत्कथमियन्ति न दूषणानि, नास्त्येव चेत् स्वक्चनप्रतिरोधसिद्धिः // 1 / / (अस्य व्याख्या)अवस्तुनि बाधाविधिव्यवहारो नास्तीत्येतदनेनैव स्ववचनेन प्रतिरुध्यते; नास्तीति प्रतिषेधस्य स्वयं कृतत्वाद्, इत्यन्त्यपादस्यार्थः। तुरङ्गशृङ्गदृष्टान्तोऽपि विकल्पादेव प्रसिद्धः स्वीकर्तव्यः। तत्र च वस्त्वेकान्तव्यतिरे के सति भावानुत्पादकत्वमपि प्रतीतम्, इति नास्य साध्यसाधनोभयवैकल्पम्। ननु जैनेर्भावादभित्रस्याभावस्याभ्युपगमात् वाद्यसिद्धो हेतुरिति चेत्, तदसत्। पराभ्युपगताभावस्य धर्मीकृतत्वात्, तस्य च भावादेकान्तेन पृथग्भूततया जैनैरपि स्वीकारात्। न खल्ववस्तु वस्तुभूतादावादभिन्नमिति मन्यन्ते जैनाः। ततो नाभावो भावोत्पादकस्तवास्तीति सिद्धम् / / किंच यदाप्रतिबन्धकाभावो विभावसुस्वरूपादेकान्तभिन्नोऽभ्युपागामि, तदा विभावसुः प्रतिबन्धकस्वभावस्स्वीकृत: स्यात्, प्रतिबन्धकाभावाह्यावर्त्तमानत्वान्मणिमन्त्रादिप्रतिबन्धकस्वरूपवत्। तथा च कथं कदाचिद्दाहादिकार्योत्पादो भवेत् ? विभावसोरेव प्रतिबन्धक-त्वात् / अथ कथं विभावसुः प्रतिबन्धक: स्यात्? तत्र प्रतिबन्धकप्रागभावस्य विद्यमानत्वात् / तदनवदातम् / एतावता हि तत्र वर्तमान: प्रतिबन्धकप्रागभाव एव प्रतिबन्धकस्वभावो मा भूत्, विभावसुस्वरूपं तु तदभावाव्यावर्तमान प्रतिबन्धकतां कथं न कलयेत्? यथाहि-प्रतिबन्धकः स्वभावाद्यावर्तमान: प्रतिबन्धकतां दधाति, तथा-तनूनपादपि प्रतिबन्धकाभावाव्यावर्त्तमानमूर्ति: कथं न प्रतिबन्धरूपता प्रतिपद्येत? स्याद्रादिनां तुभावाऽभावोभयात्मकं वस्त्विति प्रतिबन्धकाभावा-त्मन: कृष्णवर्मनी न प्रतिबन्धकरूपता। किं च-प्रतिबन्धकाभावस्य कारणत्वे, प्रतिबन्धकस्य कस्यचि-नैकठ्येऽपिप्रतिबन्धकाभावा-न्तराणामेकेषां भावात्कथं न कार्योत्पाद:? नहि कुम्भकारकारण: कुम्भः कुम्भकारस्यैकस्याभावेऽपि कुम्भकारान्तरव्यापारान्न भवति नचैक एव
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy