________________ आगम 83 अभिधानराजेन्द्रः भाग 2 आगम था अयमपि गकारः, अयमपि गकारः, इत्येकाकारा प्रतीतिः, तथा नाकाराद्यशेषवर्णेषु अपीति चेत्। नैवम्। अयमपि वर्णः, अयमपि वर्ण:, इत्येकप्रत्यवमर्शोत्पत्तेः। सामान्यनिमित्तक एवायमितिचेत्, तर्हि गकारादावपि तथाऽस्तु। अथाकारेकारादौ विशेषोऽनुभूयते, नतु गर्गादिगकारेषु, तेषां तुल्यस्थाना- ऽऽस्यप्रयत्नादित्वादिति चेदेवं तर्हि "सहर्ष हेषन्ते हरिहरिति हम्मीरहरयः" इत्यादिहकारात्कण्ठ्यादह्निजिह्मादिहकारस्य, ह "उरस्यो वह्निजिह्यादौ, वर्गपञ्चमसंयुतः" इति वचनादुरस्य- त्वेन स्थानभेदप्रतीतेः। ततो भिन्नोऽयं वर्णो भवेत्। नच गकारे नास्ति विशेषावभासः, तीव्रोऽयं मन्दोऽयं गकार इति तीव्रतादिविशेषस्फुरणात् व्यञ्जकगतास्तीव्रतादयस्तत्र स्फुरन्तीति चेत्, कृतोत्तरमेतत्। अकारेकारादावप्यनुभूयमान: स विशेषस्तद्गत एवाऽस्तु, तथा चैक एव वर्ण: किन्न भवेत् ? मा भूद्वा विशेषावभासो गकारेषु भेदावभासस्तु विद्यत एव, बहवोऽभी गकारा इति प्रतीतेः। भवति च विशेषावभासं विनापि भेदस्फूर्तः, सर्षपराशौ गुरुलाघवादिविशेषावाभासं विनाऽपि तद्भेदप्रतिभासवद्। इति सिद्धो गकारभेद:। तथाचतदादिवर्णवर्तिसामान्यानामेव वाचकत्वमस्तु तत्त्वतस्तुगोशब्द- त्वमेव सदृशपरिणामात्मकं वाचकं क्रमाभिव्यज्यमानं वर्णद्वय- मेवैतत्, नैका गोशब्दव्यक्तिरिति च न वाच्यम्। नित्यत्वा-प्रसिद्धावद्याप्यस्योत्तरस्य कूपरकोटिसंटङ्कितगुडायमानत्वात्। तस्मात्क्रमोत्पदिश्नु तत्तद्गकारादिपर्यायोपहितभाषाद्रव्यात्मको गोशब्द एव सदृशपरिणामात्मा वाचकोऽस्तु। तथा च क्षीणा-ऽर्थाऽऽपत्ति:।। अस्तु अनित्यो ध्वनि:, किंतु-नाऽयं पौद्गलिक: संगच्छत इति यौगा: संगिरमाणा: सप्रणयप्रणयिनीनामेव गौरवार्हाः / यतः कोऽत्र हेतुः, स्पर्शशून्याश्रयत्वम्, अतिनिविडप्रदेशे प्रवेश-निर्गमयोरप्रतिघात:, पूर्व पश्चाचाऽवयवानुपलब्धिः / सूक्ष्म- मूर्तद्रव्यान्तराऽप्रेरकत्वं, गगनगुणत्वं वा? नाद्य पक्षः। यत: शब्दपर्यायस्याश्रये भाषावर्गणारूपे स्पर्शाभावो न तावदनुपलब्धिमात्रात्प्रसिध्यति, तस्य सव्यभिचारत्वात् / योग्यानुपलब्धि- स्त्वसिद्धा, तत्र स्पर्शस्यानुभूतत्त्वेनोपलब्धिलक्षणप्राप्तत्वा- भावात्, उपलभ्यमानगन्धाऽऽधारद्रव्यवत् / अथ घनसारगन्ध- साराऽऽदौ गन्धस्य स्पर्शाव्यभिचारनिश्चयादत्रापि तन्निर्णयेऽ- प्यनुपलम्भादनुद्भूतत्वंयुक्तं, नेतरत्र, तन्निर्णायकाभावाद, इति चेत्, मा भूत्तावत्तन्निर्णायकं किंचित् / किंतु-पुद्गलानामुद्भूतानुभूतस्पर्शानामुपलब्धे: शब्देऽपि पौगलिकत्वेन परैः प्रणिगद्यमाने बाधकाभावे च सति संदेह एव स्यात्, नत्वभावनिश्चयः, तथा च संदिग्धाऽसिद्धो हेतुः। नच नास्ति तन्निर्णायकम् / तथाहिशब्दाश्रयः स्पर्शवान्, अनुवातप्रतिवातयोर्विप्रकृष्टनिकटशरीरिणोपलभ्यमानानुपलभ्यमानेन्द्रिया-र्थत्वात्, तथाविधगन्धाऽऽधारद्रव्यवद्, इति। द्वितीयकल्पेऽपि गन्धद्रव्येण व्यभिचार: वर्तमानजात्यकस्तूरिकाकप्रकश्मीरजादिगन्धद्रव्यं हि 'पिहितकपाटसंपुटापवरकस्यान्तर्विशति, बहिश्व निस्सरति, नचापौगलिकम्। अथ तत्र सूक्ष्मरन्ध्रसंभवेनातिनिविडत्वा भावात्तत्प्रवेशनिष्काशौ; अत एव तदल्पीयस्ता, नत्वपावृतद्वारदशायामिव तदेकार्णवत्त्वं, सर्वथा नीरन्ध्रेतुप्रदेशे नैतौ संभवत इति चेद, एवं तर्हि शब्देऽपि सर्वस्य तुल्ययोगक्षेमत्वादसिद्धता हेतोरस्तु। पूर्व पश्चाचावयवानुपलब्धिः, सौदामिनीदामोल्कादिभिरनै कान्तिकी। सूक्ष्ममूर्तद्रव्यान्तराप्रेरकत्वमपिगन्धद्रव्याविशेषसूक्ष्मरजोधूमाऽऽदिभियभिचारिश न हि गन्धद्रव्यादिकमपि मसि निविशमानं तद्विवरद्वारदेशोदिन्नस्मश्रुप्रेरकं प्रेक्ष्यते। गगनगुणत्वं त्वसिद्धम्। तथाहि-न गगनगुण शब्द: अस्मदादिप्रत्यक्षत्वात्, रूपादिवदिति। पौगलिकत्वसिद्धिः पुनरस्य, शब्द: पौगलिक: इन्द्रियार्थत्वात्, रूपादिवदेवेति। रत्ना० 4 परि। अथ संकेतमात्रेणैव शब्दोऽर्थ प्रतिपादयति; नतु स्वाभाविकसंबन्धवशादिति गदतो नैयायिकान्, समयादपि नायं वस्तु वदतीति वदत: सौगतांश्च पराकुर्वन्ति स्वाभाविक सामर्थ्य समयाभ्यामर्थबोधनिबन्धनं शब्दः इति||१|| स्वाभाविकम् - सहजम्। सामर्थ्य - शब्दस्यार्थ-प्रतिपादनशक्तिः योग्यतानाम्नी। समयश्च-संकेत: ताभ्यामर्थ-प्रतिपत्तिकारणं शब्द इति। तत्र नैयायिकान्प्रत्येवं विधेयानुवाद्यभावः, योऽयम् अर्थबोधनिबन्धनं शब्द: अभ्युपगतोऽस्ति, सस्वाभाविक सामर्थ्यसमयाभ्या-द्वाभ्यामपि, नपुन: समयादेव केवलात्। समयो हि पुरुषाऽऽयत्तवृत्तिः; नथपुरुषेच्छया वस्तुनियमो युज्यते। अन्यथा तदिच्छाया अव्याहतप्रसरत्वादर्थोऽपि वाचकः, शब्दोऽपि वाच्य: स्यात्। अथ गत्वौत्वादिसामान्यसंबन्धो यस्य भवति, स वाचकत्वे योग्य:, इतरस्तु वाच्यत्वे, यथा द्रव्यत्वाविशेषेऽप्यग्नित्वादिसा-मान्यविशेषवत् एव दाहजनकत्वं, न जलत्वादिसामान्यविशेषवत् इति चेत्। तदयुक्तम् / अतीन्द्रियां शक्ति विनाऽग्नित्वादेरपि कार्यकारणभावनिययामकत्वानुपपत्तेः। अग्नित्वं हि दाहवद्विजातीयकारणजन्यकार्येष्वपि तुल्यरूपम् / नहि दाह प्रत्येवाऽग्नेरग्नित्वं, यथा पुत्रापेक्षं पितुः पितृत्वम् / ततश्चाग्नि हवत्पिपासापनोदमपि विदध्यादिति नातीन्द्रियां शक्तिमन्तरेणाग्नित्वादीनां कार्यकारणभावव्यवस्थाहेतुत्वं, तद्वदेव च गत्वौत्वादिसामान्यानामपि न वाच्यवाचकभावनियम- हेतुत्वमिति नियामिका शक्तिः स्वीकर्तव्यैव / अथ किमनेनातीन्द्रियशक्तिकल्पनाक्लेशेन ? करतलानलसंयोगादिसहकारिकारणनिकरपरिकरितं कृपीटयोनिस्वरूपं हि स्फोटघटनपाटवं प्रकटयिष्यति, किमवशिष्टं यदनया करिष्यते। तथा च जयन्तः"स्वरूपादुद्भवत्कार्य, सहकार्युपबृंहितात्। नहि कल्पयितुं शक्तं,शक्तिमन्यामतीन्द्रियाम्।।१|" यत्तूक्तम्-अग्निहिवत्पिपासापनोदमपि विदट्यादिति। तन्न सता नहि वयमद्य कश्चिदभिनवं भावानां कार्यकारणभावमुत्थापयितुं शक्नुम: किंतु यथा प्रवृत्तमनुसरन्तो व्यवहराम:। नह्यस्मदिच्छया आप: शीतं शमयन्ति कृशानुर्वा पिपासा, किंतुतत्र दाहादावन्वयव्यतिरेकाभ्यां वा वृद्धव्यवहारादा ज्वलनादेरेव कारणत्वमवगच्छाम इति तदेव तदर्थन उपादध्महे, न जलादि। तदेतदतथ्यम् / यतो यथाभूतादेव विभावसोहोत्पत्ति: