________________ उवहि 1088 - अमिधानराजेन्द्रः - भाग 2 उवहि उपदधातीत्युपधिः / वस्त्रपात्राद्यनेकविधे परिग्रहे, द० १अ० प्रश्न स्था०। कल्पादौ,ध०३अ०स०ा प्रज्ञा०। स्था०। (1) उपधेर्भेदाः। (2) भेदेन सविस्तरतः प्रतिपादनम्। (3) द्वारसंग्रहः। (4) जिनकल्पिकानां स्थविरकल्पिकानां चोपधिः / (5) जिनकल्पिकानां (स्थविरकल्पिकानां) गच्छवासिनां चोपधेरु त्कृष्टविभागप्रमाणम्। (6) आर्यिकाणामुपधिप्रमाणम् / (7) औपग्रहिकोपधेरुत्कृष्टादिभेदाः। (8) औपग्रहिकोपधयः। (6) उपधिन्यूनाधिक्ये प्रायश्चित्तम्। (10) प्रथमसमवसरणे उपधिग्रहणम्। (11) प्रथमं प्रव्रजत उपधिः। (12) प्रव्रज्यां गृह्णन्त्या निन्थ्या उपधिः / (13) रात्रौ विकाले वोपधिग्रहणम्। (14) भिक्षणाय गतस्य भिक्षोरुपनिमन्त्रणा। (15) भिक्षार्थं गतस्योपकरणपतने विधिः। (16) स्थविराणां ग्रहणयोग्या उपधयः। (17) निर्ग्रन्थीभ्य उपकरणदाने निन्थीनामागमनपथे उपकरणानि स्थापयितव्यानि। (18) पात्रवन्धादिप्रमाणं, उपधिविषयोऽवग्रहः, तीर्थकृतां सोपधित्वं, पादप्रोच्छनं यान्त्रित्वा प्रत्यर्पणम्, उपधीनां धावनं, परिष्ठापनं, प्रत्युपेक्षणंच, प्रलम्बग्रहणेक उपधिग्राह्य इत्यादिस्वस्वस्थाने। (16) उपकरणप्रयोजनं विहारशब्दे ऋतुबद्धे वस्त्रग्रहणं व स्त्रयाचन विधिश्च वत्थशब्दे भिक्षाचर्यायां क उपधि नेंतव्य इत्येषणा विहारादिशब्देषु उपधेरवश्यकरणीयत्वं वोटियशब्दे मध्यमतीर्थकृतां महामूल्यानि वास आदीनीत्यचेलशब्दे धर्मोपकरणे परिग्रहदोषो नेति परिग्गहशब्दे विलोकनीयम्) (1) त्रिविध उपधिः। तिविहा उवही पण्णत्ता? तंजहा कम्मोवही सरीरोवही बाहिरभंडनत्तोवही। एवं असुरकुमाराणं भाणियव्वं / एवं एगिदिय नेर-- इयवज्ज जाव वेमाणियाणं॥ कर्म एवोपधिः कर्मोपधिः एवं शरीरोपधिः। बाह्यं शरीरबहिर्वर्ती भाण्डानि च भाजनानि मृण्मयानि मात्राणि मात्रायुक्तानि कांस्यादिभाजनानि भोजनोपकरणमित्यर्थः / भाण्डमात्राणि तान्येवोपधिर्भाण्डमात्रोपधिरथवा भाण्ड वस्त्राभरणादि तदेव मात्रा परिच्छेदः सैवोपधिरिति ततो बाह्यशब्दस्य कर्मधारय इति चतुर्विंशतिदण्डकचिन्तायामसुरादीनां त्रयोऽपि वाच्याः / नारकै केन्द्रियवर्जास्तेषामुपकरणस्याभावात् द्वीन्द्रियादीनान्तूपकरणं दृश्यते / एवं केषाञ्चिदिति / अत एवाह / एवमित्यादि। अहवा तिविहा उवही पण्णत्ता ? तंजहा सचित्ते अचित्ते मीसए। एवं नेरइयाणं निरंतरं जाव वेमाणियाणं / / (अहवेत्यादि) सचित्तोपधिर्यथा शैलभाजनमचित्तोपधिर्वस्त्रादिः मिश्रः परिणतप्रायं शैलभाजनमिवेति / दण्डकचिन्ता सुगमा / नवरं सचित्तोपधि रकाणां शरीरमचेतन उत्पत्तिस्था नम्मिश्रः शरीरमेवोच्छ्वासादिपुद्गलयुक्तं तेषां सचेतनाचेतनत्वेन मिश्रत्वस्य विवक्षणादिति / एवमेव शेषाणामप्यूह्यमिति / स्था०३ठा०नि० चू०॥ तत्वभेदपर्यायव्याख्येति पर्यायान् प्रतिपादयन्नाह / “उवही उवग्गहे संगहे य तह य वगहे चेव। भंडग उवगरणे विय, करणे विय हुंति एगहा" सर्वेषां व्याख्यात्रैवोपरि (ओधनियुक्ती) द्रष्टव्या।। (2) इदानीं भेदतः प्रतिपादयन्नाह / / ओहे उवग्गहम्मि य, दुविहो उवही उ होइ नायव्वो। एक्कको विय दुविहो, गणणापमाणओ चेव / / उपधिर्द्विविधः ओघोपधि उपग्रहोपधिश्चेति। एवं द्विविधा विज्ञेयः इदानीं स एवैकैको द्विविधः कथं गणनाप्रमाणेन प्रमाणतश्च तत एतदुक्तंभवति ओधोपधेः गणनाप्रमाणेन तथा प्रमाणप्रमाणेन च द्वैविध्यम् / अवग्रहोपधेरपि ग्रहणाप्रमाणेन प्रमाणप्रमाणेन भवेद् द्वैविध्यम् / तत्र ओघोपधिर्नित्यमेव यो गृह्यते अवग्रहोपधिस्तुकारणे आपन्ने संयमार्थयोगृह्यतेसोऽवग्रहोपधिरिति। ओघोपधिगणनाप्रमाणमेकद्व्यादिभेदं वक्तव्यं प्रमाणप्रमाणं च वक्तव्यं दीर्घपृथुतया / तथा अवग्रहोपधेरपि एकट्यादिप्रमाणं प्रमाणप्रमाणं च दीर्घप्रयुत्वद्वारेण वक्तव्यमिति (ओ०) (ओहोवधेत्ति) ओहः संक्षेपः स्तोकः लिङ्गकारकोऽवश्यं ग्राह्यः / "उवग्गहोवहीं" उत्पत्तिकं कारणमपेक्ष्य संयमोपकरण इति गृह्यते एस संखेवतो दुविधो वही। उवग्गहिओ तिविधो जहण्णो मज्झिमो उक्कोसो उवहीगणप्पमाणेण पमाणपमाणेण य जुत्तो भवति इमं गणणप्पमाणं। वारस चोद्दस पणवीस, उय ओघोवधी मुणेयव्यो। जिणकप्पो थेराण य, अद्धाणं चेव कप्पम्मि / वारसविहो चोद्दसविधो पणवीसविहो ओहोवही एएअंगणप्पमाणं यथासंख्यं जिणाण थेराण अजाण या कल्पशब्दोऽपि प्रत्येक योज्यः। ओघोवधी जिणाणं,थेराणोहे उवग्गहो चेव। ओहोवधिमज्जाणं, उवग्गहिओ अण्णा तय्वो।। जिणाणं एगविहो ओहोवधी भवति थेराण अजाण य ओहिओ उवग्गहिओय दुविधो भवति। नि०चू०२उ० प्र० जीता (3) द्वारसंग्रहःअथ प्रमाणादिस्वरूपनिरूपणाय द्वारगाथामाह दवप्पमाणअइरे-गहणे परिकम्मविभूसणामुच्छाए। उवहिस्स पमाणाजिणं, थेरं अहक्कम वोच्छं। इह द्रव्यं वस्त्रं तस्य प्रमाणं गणनया प्रमाणेन च द्विविधं वक्तव्यम् अतिरिक्तहीने वा वस्त्रे दोषा अभिधातव्याः परिकर्मणं सीवनभित्येकोऽर्थः तन्निरूपयितव्यम्। (विभूसणयत्ति) विभूषणार्थ यदि वस्त्र क्षालयति वा रजति वा घर्षति वा संप्रमार्टि वा तदा प्रायश्चितं भवतीति कर्तव्यम् / मूर्च्छया यदि वस्त्रं न परिभुङ्क्ते तदाऽपि प्रायश्चित्तं वक्तव्यम् / तत्र प्रथमद्वारे तावदुपधेः प्रमाणं जिनकल्पिकस्थविरकल्पिकानाङ्गीकृत्य यथाक्रममहं वक्ष्ये / प्रतिज्ञातमेव निर्वाहयितुं जिनकल्पिकानामुपधिगणनां प्रमाणतो निरूपयति। बृ०३ उ०। (4) जिनकल्पिकानामुपधिमाह / जिणकप्पिया उदुविधा, पाणीपाता पडिग्गहधराय। पाउरणमपा उरणा, एक्केक्का ते भवे दुविधा / / जिणकप्पिया दुविधा भवन्ति पाणिपात्रभोजिनः प्रतिग्रहणा