________________ उवहाणसुय 1087 - अभिधानराजेन्द्रः - भाग 2 उवहि अथ भिक्षांपर्यटतो भगवतः पथि वायसाः काका (दिगिंच्छित्ति) वुभुक्षा तया आ ये चान्ये रसैषिणः पानार्थिनः कपोतपारावतादयः सत्वाः / तथा ग्रासैषणार्थमन्वेषणार्थञ्च येतिष्ठन्ति तान् सततमनवरतं निपतितान् भूमी प्रेक्ष्य दृष्ट्वा तेषां वृत्तिव्यवच्छेदं वर्जयन्मन्दमाहारार्थी पराक्रमते। किञ्च // अदु माहणं च समणं वा, गामपिंडोलगं च अतिहिं वा। सोवागमूसियारिं वा, कुक्करं वा चिट्ठियं वा पुरओ।।११।। वित्तिच्छेदं वजंतो, तेसप्पत्तियं परिहारंतो। मंदंपरिक्कमे भगवं, अहिंसमाणो घासमेसित्था / / 12 / / अथ ब्राह्मणं लाभार्थमुपस्थितं दृष्ट्वा तथा श्रमणं शाक्याजीवकपरिवाट्तापसनिर्गन्थानामन्यतमंग्रामपिण्डोलक इति भिक्षयोदरभरणार्थं ग्राममासृतस्तुन्दपरिमृजो द्रमक इति तथाऽतिथिं वा आगन्तुकं तथा श्वपाकं चाण्डालं मार वा कुक्करं वाऽपि श्वानं विविधं स्थित पुरतोऽग्रतः समुपलभ्य तेषां वृत्तिच्छेदं वर्जयन्मनसो दुष्प्रणिधानञ्च वर्जयन्मन्दमनास्तेषां त्रासमकुर्वन् भगवान् पराक्रमते / तथाऽपरांश्च कुन्थुकादीन् जन्तून् अहिंसन् ग्रासमन्वेषितवानिति। किञ्च / आविसुइयं च सुक्कं वा, सीयपिंड पुराणकुम्मासं! अदु बकसं पुलागं वा, लद्धेपिंडे अलद्धए दविए।॥१३॥ "सूइयंति” दध्यादिना भक्तामार्दी कृतमपि तथाभूतं शुष्कं वा वल्लचनकादि शीतपिण्डं वा पर्युषितभक्तं तथा पुराणं कुल्माष वा बहुदिवससिद्धस्थितकुल्माष (वक्कसंति) चिरन्तनधान्यौदनं यदि वा पुरातनं सत् कुपिण्ड बहुदिवससम्भृतगोरसगोधूममण्डकञ्चेति तथा पुलाकं जवनिष्पादितं तदेवंभूतं पिण्डमवाप्य रागद्वेषविरहाद्दविको भगवांस्तथाऽन्यस्मिन्नपि पिण्डे लब्धे अलब्धे या द्रविकएव भगवानिति / तथा हि लब्धे पर्याप्त शोभने वा नोत्कर्ष याति नाप्यलब्धे अपर्याप्त अशोभने वात्मानमाहारं दातारं वा जुगुप्सति। किञ्च // अवि ज्झाति से महावीरे, आसणत्थे अकुकुए ज्झाणं। उड्ढ अहे तिरियं च, लोए ज्झायती समाहिमपडिण्णे // 14 // तस्मिंस्तथाभूत आहारे लब्ध उपभुक्ते अलब्धे वाऽपि ध्यायति स महावीरो दुष्प्रणिधानादिना नापध्यानं विधत्ते किमवस्थो ध्यायतीति दर्शयत्यासनस्थ उत्कुटुकागोदोहिकावीरासनाद्यवस्थोऽकौत्कुच ईषन्मुखविकारादिरहितो ध्यानं धर्मशुक्लयोरन्यतरदारोहति किं पुनस्तत्र ध्येयं ध्यायतीति दर्शयितुमाह। ऊर्द्धमधस्तिर्यक् लोकस्य ये जीवपरमाण्वादिका भावा व्यवस्थितास्तान् द्रव्यपर्यायनित्यानित्यादिरूपतयाध्यायति। तथा समाधिमन्तःकरणशुद्धिञ्च प्रेक्षमाणोऽप्रतिज्ञो ध्यायतीति। किञ्च॥ अकसाई विगतगेहिय, सद्दरूवेसु अमुच्छिए ज्झाए। छउमत्थो वि परक्कम-माणो ण पमायं सयं पि कुव्वित्था।।१५।। न कषायी तदुदयापादितभूकुट्यादिकार्याभावात् / तथा विगता गृद्धिद्धर्य यस्यासौ विगतगृद्धिः तथा शब्दरूपादिष्विन्द्रियार्थे - ध्वमूर्छितो ध्यायति मनोऽनुकूलेषु न रागभुपयाति नापीतरेषु द्वेषवशगोऽभूदिति। तथा छद्मनि ज्ञानदर्शनावरणमोहनीयान्तरायात्मके तिष्ठतीति छद्मस्थ इत्येवं भूतोऽपि विविधमनेकप्रकारं सदनुष्ठाने पराक्रममाणो न प्रमादं कषायादिकं सकृदपि कृतवानिति / किञ्च। सयमेव अभिसमागम्म, आययजोगमायसोहीए। अभिनिव्वुडे अमाइल्ले, आवकहं भगवं समितासी।।१६।। . स्वयमेवात्मना तत्वमभिसमागत्य विदितसंसारस्वभावः स्वयं बुद्धः सन् तीर्थप्रवर्तनायोद्यतवांस्तथा चोक्तम् / आदित्यादिर्विबुधगण इम विस्मरन्त्यां त्रिलाक्या मास्कन्दन्तं पदमनुपयं यच्छिवंत्वामुवाच / तीर्थनाथालघुभवच्छेदि तूर्ण विधत्स्वे त्येतद्वाक्यं त्वदवगतये नाकिमुस्यान्नियोग इत्यादि कथं तीर्थप्रवर्तनायोद्यत इति दर्शयत्यात्मसुद्ध्या कर्मक्षयोपशमक्षयलक्षणया आयतयोगं सुप्रणिहितमनोवाक्कायात्मकं विधाय विषयकषायाद्युपशमादिभिनिर्वृतः शीतीभूतः तथा इमायावी मायारहित उपलक्षणार्थत्वादस्याऽक्रोधाद्यपि द्रष्टव्यं यावत्कथमिति यावज्जीवं भगवान् पञ्चभिः समितिभिः समितस्तथा तिसृभिर्गुप्तिभिर्गुप्तश्चासीदिति / श्रुतस्कन्धाध्ययनोद्देशकार्थमुपसंजिहीर्षुराह। एसविहीं अणुक्कते, माहणेणं मईमया। बहुसो अपडिण्णेणं, भगवया एवं रीयंते ति बेमि॥ ओहाणं सुयं सम्मत्तं // एषोऽनन्तरोक्तः शस्त्रपरिज्ञादेरारभ्य योऽभिहितः सोऽनुक्रान्तोऽनुष्ठित आसेवनापरिज्ञया सेवितः केन श्रीवर्द्धमानस्वामिना मतिमता ज्ञानचतुष्टयान्वितेन बहुशोऽनेकशोऽप्रतिज्ञेनानिदानेन भगवतैश्वर्यादिगुणोपेतेनातोऽपरोऽपि मुमुक्षुरनेनैव भगवदाचीर्णन मोक्षप्रगुणेन यथा आत्महितमाचरन् रीयते पराक्रमते इतिरधिकारपरिसमाप्तौ ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिने कथयति साऽहं ब्रवीमि येन मया भगवद्वदनारविन्दादर्थजातं निर्यातमवधारितमिति उक्तोऽनुगमः / आचा०१श्रु०६अ। उवहाणाइयार पुं० (उपधानातिचार) आचाराम्लादितपसा योगविधानरूपस्योपधानस्याऽकरणे, जीत०॥ उवहारपुं० (उपहार) उप-ह-घञ्-उपढौकने, उपायने, कर्म-णिघञ् / उपढौकनीये, उपायनद्रव्ये, उपगतः हारम् अत्या०स० हारसमीपस्थेतदुपशोभके द्रव्ये, वाच०। उप-ह-भावे-घञ्। विस्तारणे, "पहासमुदओ वहारेहिं सव्वओ नेया दीवयंत" कल्प०। (मातृग्रामस्य मैथुनप्रतिज्ञयोपहारसंपादनं महुणशब्दे) उवहारणयास्त्री० (उपधारणता) अविच्युतिस्मृ-तिवासनाविषयीकरणे,“सुयाणं धम्माणं उवहारणयाए अब्भुट्ठयव्यं भवइ" स्था०६ ठा०॥ उवहारिय त्रि० (उपधारित) अवधारिते, सूत्र०२ श्रु०। उवहासपुं० (उपहास) उप-हस्-भावे घञ्। निन्दासूचके हासे, "अरे मए समं मा कारेसु उवहासं" पा०। उवहि पुं० (उपधि) उपधीयते संगृह्यते इत्युपधिः। द्रव्यतो हिरण्यादी, भावतो मायायाम् आचा०१ श्रु०४ अ०१ उ०। सूत्र। उपधीयते ढोक्यते दुर्गतिं प्रत्यात्मा येनासावुपधिः मायायाम, अष्टप्रकारे वा कर्मणि, सूत्र 01 श्रु०२ अ०। प्रश्न० स० छले, अमर० / उप-धा-भावे-किअन्यस्थास्थितस्य वस्तुनोऽन्यथाप्रकाशरूपे, व्यापारे आधारे-किश्थचक्रे, हेम० / उपधीयते येनाऽसावुपधिः / कञ्चनीयसमीपगनहेती भावे, भ०१२श०५ उ०। उपधिच्छामायेत्यनन्तरम् / द०१ अ०। उपधीयते जीवतो दुर्गतौ स्थाप्यते ऽनेनायत्नव्यापारितेनत्युपधिः / आतुका उप सामीप्येन संयमं दधाति पोषयति चेत्युपधिः / ध०३१०