________________ उवहाणसुय 1053 - अभिधानराजेन्द्रः - भाग 2 उवहाणसुय सेवते इति दर्शयति / यत्किञ्चित्पापकं पापोपादानकारणं तद्भगवानकुर्वन्धिकटं प्रासुकमभुङक्त उपभुक्तवान्। किञ्च णो सेवतीय परवत्थं, परपाए वि से ण भंजित्था। परिवजियाण उमाणं, गच्छति संखडिं असरणाए|१८|| नासेवते च नोपभुडक्तेच परवस्त्रं प्रधानं वस्त्रं परस्य वा वस्त्र परवस्त्रं नासेवते। तथा परपात्रेऽप्यसौनो भुडक्ते तथा परिव्रज्यापमानमवगणय्य गच्छत्यसावाहाराय संखण्ड्यन्ते प्राणिनोऽस्यामिति संखण्डिस्तामाहारपाकस्थानभूतामशरणाय शरणमनालम्बमानोऽदीनमनस्ककल्प इति कृत्वा परीषहविजयार्थे गच्छतीति। किञ्च मायण्णे असणपाणस्स, णाणुगिद्धे रसेसु अपडिण्णे। अस्थि पिणोपमजिजा, णो वि कंड्रयए मुणी गायं // 16 // आहारस्य मात्रां जानातीति मात्रझः कस्याश्यत इत्यशनं शाल्योदनादि पीयत इति पानंद्राक्षापानकादितस्य च। तथा नानुगृद्धो रसेषु विकृतिषु भगवतो हि गृहस्थभावेऽपि रसेषु गृद्धिर्नासीत्। किं पुनः प्रव्रजितस्येति / तथा रसेष्वेव ग्रहणं प्रत्यप्रतिज्ञो यथा मयाऽद्य सिंहकेसरामोदका एव ग्राह्या इत्येवंरूपप्रतिजारहितोऽन्यत्र कुल्माषादौ सप्रतिज्ञ एव। तथा अक्षयपि रजःकणकाद्यपनयनाय नो प्रमार्जयेन्नापि च गात्रं मुनिरसौ कण्डूयते काष्ठादिना गात्रस्य कण्डूत्यपनोदं न विधत्त इतिकिञ्च। अप्पं तिरियं पेहाए, अप्पं पिट्ठउ पेहाए। अप्पं वुइए पडिभाणी, पंथपेही चरेजते माणे // 20 // अल्पशब्दोऽभावे वर्तते अल्पं तिर्यक तिरश्चीनं गच्दन प्रेक्षते तथाऽल्पं पृष्ठतः स्थित्वोत्प्रेक्षते तथा मार्गदिः केनचित्पृष्टः सन्नसाधुप्रतिभाषी सन्नल्पं ब्रूते मौनेन गच्छत्येव के वलमिति दर्शयति पथिप्रेक्षी चरेद्गच्छेद्यतमानः प्राणिविषये यत्नवानिति। किञ्च सिसरंसि अद्धपडिवण्णे, तं वोसिरिज वत्थमणगारे। पसारेतु वाहुं परक्कमे, णो अवलंवियाण खंधंसि // 21 // अर्द्धप्रतिपन्ने शिशिरे सति तद्देवदूष्यवस्त्र व्युत्सृज्यानगारो भगवान् प्रसार्य वाहुं पराक्रमते / न तु पुनः शीतादितः सन् संकोचयति नापि स्कन्धो वलं व्यतितिष्ठतीति। सांप्रतमुपसं जिहीर्षुराह / / एस विही अणुक्कते, माहणेण मइमया। बहुसो अपडिण्णणे, भगवता एवं रीयंति त्ति वेमि॥ एष चर्याविधिरनन्तरोक्तोऽन्वाक्रान्तोऽनुचीर्णः(माहणेत्ति) श्रीवर्द्धमानस्वामिना मतिमता विदितवेद्येन बहुशोऽनेकप्रकारमप्रतिज्ञेनानिदानेन भगवता ऐश्वर्यादिगुणोपेतेन एवमनेन यथा भगवदनुचीर्णेनान्ये मुमुक्षवोऽशेषकर्मक्षयाय साधवो रीयन्ते गच्छन्तीति इत्यधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववदुपधानश्रुताध्ययनस्य प्रथमोद्देशक इति उक्तः प्रथमोद्देशकः। सांप्रतं द्वितीय आरभ्यते। अस्य चायमभिसंबन्ध इहानन्तरोद्देशके भगवतश्चयोऽभिहिता। तत्र चावश्यं कदाचिद्यथाऽवसत्या भाव्यमतस्तत्प्रतिपादनायायमुद्देशकः प्रतन्यते इत्यनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्।। चरियासणाइंसेजाओ, एगतियाओज ओम्मइत्ताओ। आइक्खताइंसयणासणाई, जाई सेवित्थ से महावीरे॥ चर्यायामवश्यंभावितया यानि शय्यामनान्यभिहितानि सामर्थ्या-- यातानि शयनासनानि शय्याफलकादीन्याचचक्षे सुधर्मस्वामी जम्बूनाम्नाऽभिहितो यानि सेवितवान्महावीरोवर्द्धमानस्वामी-त्ययञ्च श्लोकश्चिरन्तनटीकाकारेण नव्याख्यातः। तत्र कि सुगमत्यादुताभावात् सूत्रपुस्तकेषु तु दृश्यते तदभिप्रायं च वयं न विद्य इति प्रश्नवति प्रतिवचनमाह (आवेसण इत्यादि) भगवतो ह्याहाराभिग्रहवत्प्रतिमाव्यतिरेकेण प्रायशो न शय्याऽभिग्रह आसीत् नवरं यत्रैव चरमपौरुषी भवति तत्रैवानुज्ञाप्य स्थितवान् / तद्दर्शयति।। आवेसणसभापवासु, पणियसालासु एगया वासो। अदुवा पलियट्ठाणेसु, पलालपुंजेसु एगदा वासो // 2 // आ समन्ताद्विशन्ति यत्र तदावेशनं शून्यगृहं सभा नाम ग्रामनगरादीनां तदसिलोकाच्छायिकार्थमागन्तुकशयनार्थ च कुड्याद्याकृतिः क्रियते। प्रपा उदकस्थानम् आवेशनंचसभा च प्रपा चेत्यावेशनसमाप्रपास्तासु। तथा पण्यशालासु हट्टेषु एकदा कदाचिद्वासो भगवतोऽथवा (पालियंति) कर्म तस्य स्थानं कर्मस्थानम्। अयस्कारवर्द्धकिकुजादिकम् / तथा पलालपुजेषु मञ्चोपरिव्यवस्थितेष्वधो न पुनस्तेष्वधः सुषिरत्वादेति। किञ्च।। आगंतारे आरा-मागारे णगरे वि एगदा वासो। सुमसाणे सुण्णगारे वा, रुक्खमूले वि एगदा वासो ||3|| प्रसङ्गायाता आगत्य वा यत्र तिष्ठति तदागन्तारं तत्पुनामानगराहिःस्थानं तत्र यथा आरामे आगारं गृहमारामागारं तत्र वा तथा नगरे वा एकदा वासस्तथा श्मशाने शून्यागारे वा आवेशनशून्यागारयोर्भदः स कुड्याकुड्यकृतो वृक्षमूले वा एकदा वासः किञ्च।। एतेहिं मुणी सयणेहिं, समणे आसि पतेरसवासे। राइंदियं पि जयमाणे, अप्पमत्ते समाहिए ज्झाति // 4 // एतेषु पूर्वोक्तेषु शयनेषु वसतिषु स मुनिर्जगत्त्रयवेत्ता ऋतुबद्ध वर्षासु वा श्रमणस्तपस्युद्युक्ता समना वासीनिश्चलमना इत्यर्थः / कियन्तं कालं यावदिति दर्शयति (पतेरसवासेत्ति) प्रकर्षण त्रयोदश वर्ष यावत्समस्तं रात्रिन्दिवमपि यतमानः संयमानुष्ठान उद्युक्तवांस्तथा अप्रमत्तो निद्रादिप्रमादरहितविश्रोतसिकारहितो धर्मध्यानं शुक्लध्यानं वा ध्यायतीति। किञ्च। णि पिणो पगामाए, सेवइय भगवं उठाए। जग्गावतिय अप्पाणं, इसिं सातिय अपडिण्णे ||5|| निद्रामप्यसावपरप्रमादरहितो न प्रकामतः सेवते तथा च किल भगवतो द्वादशसुसंवत्सरेषु मध्येऽस्थिकग्रामे व्यन्तरोपसर्गान्ते कायोत्सर्गव्यवस्थितस्यैवान्तर्मुहूर्त यावत् स्वप्नदर्शनाध्यासितः सकृन्निद्राप्रमाद आसीत्ततोऽपि चोत्थायात्मानां जागरयति कुशलानुष्ठाने प्रवर्तयति / यत्रापीषच्छय्यासीत्तत्राप्यप्रतिज्ञः प्रतिज्ञारहितो न तत्रापि स्वापाभ्युपगमपूर्वकं शयीत इत्यर्थः / किञ्च। संवुज्झमाणे पुणरवि, आसंसु भगवं उठाए। णिक्खम्म एगया पराओ, बहिं चंकमित्ता मुहुत्तमं / / 6 / / स मुनिर्निद्राप्रमादाद्युत्थितचित्तः संबुध्यमानः संसारपातायायं प्रमाद इत्येवमवगच्छन् पुनरप्रमत्तो भगवान् संयमोत्थानेनोत्थाय यदि तत्रान्तर्व्यवस्थितस्य कु तश्चिन्निद्राप्रमादः स्यात् तत