________________ उवहाणसुय 1052- अभिधानराजेन्द्रः - भाग 2 उवहाणसुय प्रासुकाहारानुवासीत्। श्रूयते च किल पञ्चत्वमुपगते माता-पितरि समाप्तप्रतिज्ञोऽभूत् / ततः प्रविव्रजिषुः ज्ञातिभिरभिहितो यथा हि भगवन्मा कृथाः क्षतिक्षारावसेचनमित्येवमाभिहितेन भगवताऽवधिना व्यज्ञायि यथा मय्यस्मिन्नवसरे प्रवजति सति बहवो नष्ट चित्ता विगतासवश्च स्युरित्यवधार्य तामुवाच कियन्तं कालं पुनरत्र मया स्थातव्यमिति। त ऊचुः संवत्सरदयेनास्माकं शोकापगमो भावीति भट्टारकोऽप्योमित्युवाच / किं कृत्वाऽऽहारादिकं मया स्वेच्छया कार्य नेच्छाविघाताय भवद्भिरुपस्थातव्यं तैरपि यथाकथंचिदार्य ! तिष्ठत्विति तैः सर्व तथैव प्रतिपेदे / ततो भगवांस्तद्वचनमनुवात्मीयञ्च निष्क्रमणावसरमवगम्य संसारासारतां विज्ञाय तीर्थप्रवर्तनायोद्यत इति दर्शयितुमाह। अवि साहिए दुवे वासे, सीतोदगं अमुचा णिक्खंते। एगत्तगए पिहियचे, से अभिण्णायदंसणे संते // 10 // पुढविंच आउकायंच, तेउकायं च वाउकार्य च। प्रणगाइं वीयहरियाई, तसकायं सव्वसो णचा // 11 // एयाई संति पडिलेहे, चित्तमत्ताईसे अभिण्णाय। परिवज्जियाण विहरित्था, इति संखाय से महावीरे / / 12 / / अपि साधिकेद्वेवर्षे शीतोदकमभुक्त्वा अनभ्यवहृत्यापीत्वेत्यर्थः अपरा अपि पादधावनादिकाः प्रासुकेनैव प्रकृत्या ततो निष्क्रान्तो यथा च प्राणातिपातंपरिहृतवानेवं शेषव्रतान्यपि पालितवानिति तथा एकत्वमिति तत एकत्वभावनाभावितान्तःकरणः पिहिता स्थगिताएं क्रोधज्वाला येन स तथा / यदि वा पिहिता! गुप्ततनुः स भगवांश्छद्मस्थकालेडभिज्ञातदर्शनः सम्यक्त्वभावतया भावितः शान्त इन्द्रियनोइन्द्रियैः स एवंभूतो भगवान् गृहवासेऽपिसावद्यारम्भत्यागी किं पुनः प्रव्रज्यायामिति दर्शयितुमाह "पुढविंच इत्यादिएयाइं इत्यादि श्लोकद्वयस्याप्ययमर्थः / एतानि पृथिव्यादीनि चित्तमन्त्यभिज्ञाय तदारम्भंपरिवर्त्य विहरति स्म क्रियाकारकसंबन्धस्तत्र पृथ्वीसूक्ष्मबादरभेदेन द्विधा सूक्ष्मा सर्वगा बादराऽपि श्लक्ष्णकठिनभेदेन द्विधैव। तत्र श्लक्ष्णा शुक्लादिपञ्चवर्णा कठिनातुपृथिवी शर्करावालुकाषट्त्रिंशद्भेदा शस्त्रपरिज्ञानुसारेण द्रष्टव्या / अप्कायोऽपि सूक्ष्मबादरभेदात् द्विधा तत्र सूक्ष्मः सर्वगो बादरस्तु शुद्धोदकादिभेदेन पञ्चधा। तेजः कायोऽपि पूर्ववन्नवरं बादरोगारादि पञ्चधा / वायुरपि तथैव नवरं बादर उत्कलिकादिभेदेन पञ्चधा। वनस्पतिरपि सूक्ष्मबादरभेदेन द्विधा / तत्र सूक्ष्मः सर्वगो बादरोऽप्यग्रमूलस्कन्धपर्ववीजसंमूर्च्छनभेदात्सामान्यतः षोढा पुनर्द्विधा प्रत्येकः साधारणश्च / तत्र प्रत्येको वृक्षगुच्छादिभेदात् द्वादशधा साधारणस्त्वनेकविध इति स एवं भेदभिन्नोऽपि वनस्पतिः सूक्ष्मस्य सर्वगतत्वादतीन्द्रियत्वाच तद्व्युदासेन बादरो भेदत्वेन संगृहीतस्तद्यथा पनकग्रहणेन वीजाडरभावरहितस्य पनकादेरुल्यादिविशेषापन्नस्य ग्रहणं वीजग्रहणेन त्वग्रवीजादेरुपादानं हरितशब्देन शेषस्येत्येतानि पृथिव्यादीनि भूतानि सन्ति विद्यन्त इत्येवं प्रत्युपेक्ष्य तथा (चित्तमंति) सचित्तान्यभिज्ञाय इत्येतत्संख्ययाऽवगम्य स भगवान्महावीरस्तदारम्भं परिवयं विहृतवानिति पृथिवीकायादीनां जन्तूनां त्रसस्थावरत्वेन भेदमुपदी सांप्रतमपरस्परतोऽनुगमनमप्यस्तीत्येतदर्शयितुमाह।' अदु थावरा य तसत्ताए, तसजीवा यथावरत्ताए। अदुवा सव्वजोणिया सत्ता, कम्मणा कप्पिया पुढोवाला||१३|| भगव च एवमण्णेसिं, सोवहिए हु लुप्पती वाले। कम्मं च सव्वसो णचा, तं पडियाइक्खपावगं भगवं // 14|| दुविहं समेच मेहावी, किरियमक्खायमणेलिसंणाणी। आयाण सोय मतिवाय, सो यं जोगं च सव्वसो णचा // 15 // अथानन्तर्ये स्थावरा:पृथिव्यप्तेजोवायुवनस्पतयः ते त्रसतया द्वीन्द्रियादितया विपरिणमन्ते कर्मवशाद्गच्छन्ति चशब्द उत्तरापेक्षया समुच्चयार्थस्तथा त्रसजीवाश्च कृम्यादयः स्थावरतया पृथिव्यादित्वेन कर्मनिघ्राः समुत्पद्यन्ते / तथा चान्यत्राप्युक्तम् “अयणं भंते ! जीवे पुढविकाइयत्ताए उव्यवण्णपुव्वे हंता गोयमा ! असई अदुवा अणंतखुत्तो जाव वाणपुव्वेति" अथवा सर्वा योनय उत्पत्तिस्थानानि येषां सत्वानां ते सर्वयोनिकाः सत्वाःसर्वगतिभाजस्तेघवाला रागद्वेषाकलिताः स्वकृतेन कर्मणा पृथक्तया सर्वयोनिमुक्तेन च कल्पिता व्यवस्थापिता इति। तथा चोक्तं “णत्थि किर सो पएसो लोए वालग्गको डिमेत्तो वि / जम्मणमरणावाहाणेगसो जत्थ णवि पत्ता" अपिच / रङ्गभूमिर्न सा काचिच्छुद्धा जगति विद्यते। विचित्रैः कर्मनेपथ्यैर्यत्र सत्वैर्न नाटित" मित्यादि / किच (भगवं च इत्यादि) भगवांश्च वीरवर्द्धमानस्वाम्येवमवगम्य ज्ञातवान् सह उपधिना वर्तत इति सोपधिकः द्रव्यभावोपधियुक्तः हुरवधारणे लुप्यत एव कर्मणः क्लेशमनुभवत्येवाज्ञा बाल इति। यदि वा हुर्हेतौ यस्मात् सोपधिकः कर्मणा लुप्यते वालस्तस्मात्कर्म सर्वशो ज्ञात्वा तत्कर्मप्रत्याख्यातवां स्तदुपादानं च पापकर्मानुष्ठानं भगवान् वर्द्धमानस्वामीति। किञ्च (दुविहं इत्यादि) द्वे द्विधे प्रकारावस्येति द्विविधं किं तत्कर्म तच्चेर्याप्रत्येयं सांपरायिकञ्च तद्विविधमपि समेत्य ज्ञात्वा मेधावी सर्वभावज्ञः क्रियां संयमानुष्ठानरूपा कोच्छेत्री मनीदृशीमनन्यसहशीमाख्यातवान् किम्भूतो ज्ञानी केवलज्ञानवानित्यर्थः / किं वा परमाख्यातवानिति दर्शयति आदीयते कम्मनिनेत्यादानं दुष्प्रणिहितमिन्द्रियमादानञ्च श्रोतश्च आदानश्रोतस्तज्ज्ञात्वा तथाऽतिपातश्रोतश्चोपल क्षणार्थत्वादस्य मृषावाददिकमपि ज्ञात्वा तथा योगञ्च मनोवाक्कायलक्षणं दुष्प्रणिहितं सर्वशः सर्वप्रकारैःकर्मबन्धायेति ज्ञात्वा श्रोतः क्रियासंयमलक्षणामाख्यातवानिति संबन्धः ।किञ्च। अतिवातियं अणाउटिं, सत्तमणेसिं अकरणयाए। जस्सित्थि उपरिण्णाया, सव्वकम्मावहा उसे अदक्खु / 16 / आकुट्टिर्हिसा न आकुट्टिरनाकुट्टिरहिंसेत्यर्थः / किंभूतामतिक्रान्तां पातकादतिपातका निदोषा तामाश्रित्य स्वतोऽन्येषां वा करणतया व्यापारतया प्रवृत्त इति। तथा यस्याः स्त्रियाः स्वरूपतस्तद्विपाकतश्च परिज्ञाता भवन्ति / सर्वं कविहन्तीति सर्वकर्मावहाः सर्वपापोपादानभूताः स एवाद्राक्षीत्स एव यथाऽवस्थितं संसारस्वभाव ज्ञातवान्। एतदुक्तं भवति / स्त्रीस्वभावपरिज्ञानेन तत्परिहारेण च स भगवान् परमार्थदर्श्यभूदिति / मूलगुणानाख्यायोत्तरगुणप्रचिकट-विषयाह / / अहागणं ण से सेवे, सव्वसो कम्मुणा अदक्खू / यं किंचि पावर्ग भगवं, तं अकुव्वं वियणं भुजित्था / 17 / यथा येन प्रकारेण पृष्ट वाऽपृष्ट वा वा कृतं यथाकृतमाधाकर्मादिनाऽसौ सेवते कि मिति / यतः सर्वैः प्रकारैस्तदासे वनेन कर्मणाऽष्टप्रकारेण बन्धमद्राक्षीत् दृष्टवानन्यदप्येवं जातीयकं न