________________ उवहाणसुय १०८४-अभिधानराजेन्द्रः - भाग 2 उवहाणसुय स्तस्मान्निष्क्रम्यैकदा शीतकालराज्यादौ बहिश्चक्रम्य मुहूर्तभावं निद्राप्रमादापनयनाथ ध्याने स्थितवानिति / किञ्च / सयणेहिं तस्सुवस्सग्गा, भीमा आसी अणेगरूवा। संसप्पगाय जे पाणा, अदुवा पक्खिणो उवचरंति|७|| शय्यते स्थीयते उत्कुटुकाशनादिभिर्येष्विति शयनान्याश्रयस्थानानि तेषु तैर्वा तस्य भगवत उपसर्गा भीमा भयानका आसन्ननेकरूपाश्च शीतोष्णादिरूपतया अनुकूलप्रतिकूलरुपतया वा। तथा संसप्पन्तीति संसर्पकाः शून्यगृहादावहिनकुलादयो ये प्राणिन उपचरन्त्युप सामीप्येन मांसादिकमश्नन्त्यथवा श्मशानादौ पक्षिणोगद्धादय उपचरन्तीति वर्तते। किञ्च। अदुवा कुचरा उवचरंति, गामरक्खाय सात्त हत्था य। अदु गामिया उवसग्गा, इत्थी एगतिया पुरिसो वा // 8 // अथानन्तरं कुत्सितं चरन्तीति कुचराश्चौरपारदारिकादयस्ते च कचिच्छून्यगृहादावुपचरन्त्युपसर्गयन्ति / तथा ग्रामरक्षकादयश्च त्रिकचत्वारादिव्यवस्थितं शक्तिकुन्तादिहस्ता उपचरन्तीति / अथ ग्रामैका ग्रामधर्माश्रिता उपसर्गा एकाकिनः स्युस्तथाहि काचित्स्त्री रूपदर्शनाध्युपपन्ना उपसर्गयेत्पुरुषो वेति। किञ्च।। इहलोइयाइं परलोइयाई, भीमाई अणेगरूवाई। अविसुभिदुब्मिगंधाई, सहाई अणेगरूवाइं / / 6 / / अहियासए सयासमिते, फासाई विरूवरूवाई। अरतिं रति अभिभूय, रीयति माहणे अबहुवाई ||10|| इह लोके भवा ऐहिलौकिका मनुष्यकृताः के ते स्पर्शा दुःखविशेषा दिव्यास्तैरश्चाश्च पारलौकिकास्तानुपसर्गापादितान् दुःखविशेषानध्यासयत्यधिसहते। यदिवाइहैव जन्मनिये दुःखयन्ति दण्डप्रहारादयः प्रतिकूलोपसर्गास्त ऐहलौकिकास्त द्विपर्ययाश्च पारलौकिका भीमा भयानका अनेकरूपा नानाप्रकारास्तानेव दर्शयति सुरभिगन्धयः स्रक्चन्दनादयो दुर्गन्धाः कुथितकलेवरादयस्तथा शब्दाश्चानेकरूपा वीणावेणुमृदङ्गादिजनितास्तथा क्रमेलकारटिताद्युत्थापितास्तांश्चाविकृतमना अध्यासयत्यधिसहते। सदा सर्वकालं सम्यगितः समितः पञ्चभिर्युक्तस्तथा स्पर्शान् दुःखविशेषानरतिं संयमे रतिं चोपभोगाभिष्वड्ने अभिभूय तिरस्कृत्य रीयते संयमानुष्ठाने व्रजति (माहणत्ति) पूर्ववत् / तथोभयभाषी एकद्विव्याकरणं क्वचिन्निमित्ते कृतवानिति भावः। किञ्च // सजणेहिं तत्थ पुच्छिंसु, एगचरा वि एगदाराओ। अवाहिते कसाइच्छा, पेहमाणे समाहिं अपडिण्णे // 11 // सभगवानद्धत्रयोदशपक्षाधिकाः समा एकाकी विचरंस्तत्रशून्यगृहादौ व्यवस्थितः सन् जनैलॊकैः पृष्टस्तद्यथा को भगवान् किमत्र स्थितः इत्येवं पृष्टोऽपि तूष्णींभावमभजत। तथा उपपत्त्याद्या अपि एकचरा एकाकिन एकदा कदाचिद्रात्रावह्नि वा पप्रच्छु रव्याकृते च भगवता कषायितास्ततोऽज्ञानावृतद्दष्टयो दण्डमुष्ट्यादिना ताडनतोऽनार्यत्वमाचरन्ति भगवांस्तुसमाधि प्रेक्षमाणो धर्मध्यानोपगतचित्तः सन्सम्यक् तितिक्षते / किं भूतोऽप्रतिज्ञो नास्य वैरनिर्यातनप्रतिज्ञा विद्यत इत्यप्रतिज्ञः / कथं ते पप्रच्छुरिति दर्शयितुमाह / / अयमंतरंसि को एत्थं, अहमंसो ति भिक्खु आहटु / अयमुत्तमे से धम्मे, तुसिणीए सकसाइए ज्झाति ||12| अयमन्तमध्ये कोऽत्र व्यवस्थित एवं सङ्केतागता दुश्चारिणः पृच्छन्ति कर्मकरादयो वा तत्र नित्यवासिनो दुष्प्रणिहितमानसाः पृच्छन्ति तत्र चैवं पृच्छतामेषां भगवास्तूष्णींभावमेव भजते। क्वचिद्बहुतरदोषापनयनाय जल्पत्यपि कथमिति दर्शयति / अहं भिक्षुरस्मीत्येवमुक्ते यदि तेऽवधीरयन्ति ततस्तिष्ठत्येवाभिप्रेतार्थव्याघातात्कषायिता महान्धाः। सांप्रतेक्षितया एवं ब्रूयुर्यथा तूपर्णस्मात् स्थानान्निर्गच्छ ततो भगवानपीयत्ताऽवग्रह इति कृत्वा निर्गच्छत्येव भगवान् किन्तु सोऽयमुत्तमप्रधानोधर्म आचार इति कुत्वा सकषायितेति तस्मिन् गृहस्थे तूष्णींभावव्यवस्थिते यद्भविष्यतया ध्यायत्येव न ध्यानात् प्रच्यवते / किञ्च जं सिप्पेगे पवेवंति, सिसिरे मारुए पवायंते। तं सिप्पेगे अणागारा, हिमवाए णिवायमेसंति।।१३।। यस्मिन् शिशिरादावप्येके त्वत्राणाभावतया प्रवेपन्ते दन्तवीणादिसमन्विताः कम्पन्ते यदि वा प्रवेदयन्ति शीतजनितं दुःखस्पर्शमनुभवन्ति आर्तध्यानवशगा भवन्तीत्यर्थः / तस्मिश्च शिशिरे हिमकणिनि मारुते च प्रवाति सत्येके न सर्वेऽनगारास्तीर्थिकप्रद्रजिता हिमवाते सति शीतपीडितास्तदपनोदाय पावकं प्रज्वालयन्त्यङ्गारशकटिकामन्वेषयन्ति प्रावरिकं याचन्ते / यदिवाऽनगारा इति पार्श्वनाथप्रव्रजिता गच्छवासिन एव शीतार्दिता निवातमेषयान्ति घंघशालादिवसतीर्वातायनादिरहिताः प्रार्थ यन्ति। किञ्च। संघाडिओ पविसिस्सामो, पहा य समादहमाणा। पिहितावासक्खामो, अतिदुक्खहिमगसंफासा।।१४।। इह संघाटीशब्देन शीतापनोदक्षम कल्पद्वयं त्रयं वा गृह्यते ताः सङ्घाटीः शीतार्दिता वयं प्रवेक्ष्याम एवं शीतार्दिता अनगारा अपि विदधति तीर्थिकप्रव्रजिताः। तथा समिधः काष्ठानीति यावदेताश्च समादहन्तः शीतस्पर्श सोढुं शक्ष्यामस्तथा सङ्घाट्या वाऽभिहिताः स्थगिताः कम्बलाद्यावृतशरीरा इति / किमर्थमेतत्कुर्वन्तीति दर्शयति / यतो अतिदुःखमेतदतिदुःसहमेतदभूत् हिमसंस्पर्शाः शीतस्पर्शवेदनादुःखेन सह्यन्त इति यावत् / तदेवम्भूते शिशिरे यथोक्तानुष्ठानवत्सु वा स्वयूथोत्तरेष्वनगारेषु यद्भगवान् व्यधात्तद्दर्शयितुमाह / / तंसि भगवं अप्पडिण्णे, अधो वियडे अहियासए। दविए णिक्खम्म एग-दारा उ वा एति भगवं समियाए।१५।। तस्मिन्नेवंभूते शिशिरे हिमवाते शीतस्पर्श च सर्वकषे भगवानैश्वर्यादिगुणोपेतस्तं शीतस्पर्शमध्यायत्यधिसहते। किंभूतोऽसावप्रतिज्ञोन विद्यते निवातवसतिप्रार्थनादिका प्रतिज्ञा यस्य स तथा क्वाध्यासयत्यधो विकटे अधः कुड्यादिरहिते छन्नेऽप्युपरितदभावे चेति पुनरपि विशिनष्टि रागद्वेषविरहाद् द्रव्यभूतः कर्मग्रन्थिद्रावणाद्वा द्रवः संयमः स विद्यते यस्यासौ द्रविकः स च तथाऽध्यासयत् यथाऽत्यन्त शीतेन वाध्यते तत स्तस्मात्स्थानानि कम्य बहिरेकदा रात्रौ मुहूर्त्तमात्रं स्थित्वा पुनः प्रविश्य सभगवान् समितया समतयावाव्ययस्थितस्तंशीतस्पर्श रासभदृष्टान्तेन सोढुं शक्त इत्यधिसहत इति। एतदेवोद्देशकार्थमुपसजिहीर्षुराह। एस विही अणुक्कतो, माहणेणं मइमया। बहुसो अप्पडिण्णेणं, भगवया एवं रीयंते त्तिवेमि।।१६।।