________________ उवसमसेढि 1075 - अभिधानराजेन्द्रः - भाग 2 उवहड स्मिन् भवे एकामेव श्रेणिप्रतिपद्यत्ते उक्तं च कल्पाध्ययने एव अप्परिवडिए, सम्मत्ते देवमणुयजम्मेसु। अन्नयरसेढिवजं, एग भवेणं च सव्वाई" सर्वाणि सम्यक्तवदेशविरत्यादीनि। अन्यत्राप्युक्तम्। “मोहोपशम एकस्मिन् भवे द्विः स्यादसन्ततः / यस्मिन् भवे तूपशमः क्षयो मोहस्य तत्र नेति" / तदेवमभिहिता सप्रपञ्चमुपशमश्रेणिः / कर्म०। विशे०। वृ०। आचा०। आ० म०प्र०।क० प्र०1 पं० सं०1(उवशमणा-ऽधिकारेऽप्युपशमश्रेणिवक्तव्यतोक्ता इतः संयोज्या) उवसामइत्तु अव्य०(उपशमय्य) उप-शम् ल्यप् / उपशमं नीत्वेत्यर्थे , "उवसामइत्तु चउहा अंतमुहूत्तं धिऊणं बहुकालं" पं० सं० उवसामगपुं (उपशामक) उपशान्तमोहे, आव० 4 अ०। उवसामिय त्रि०(उपशामित) उपशमं नीते, "उवसामिए परेण व” उपशामिते परेणोपशमं नीते / व्य०१ उ० / उपशमं ग्राहिते, व्य० ६उ०॥ उवसामेमाण त्रि० (उपशमयत् ) उपशमंकारयति, क्षुद्रव्यन्तरा-घिष्ठितं समयप्रसिद्धविधिनोपशमयति, स्था०६ ठा०। उवसुद्ध त्रि०(उपशुद्ध) उप सामीप्येन शुद्धम् / निर्दोषे, सूत्र०१ श्रु० 7 अ०। उवसोभिय त्रि० (उपशोभित) सामस्त्येन शोभिते, / आ० म०प्र०। रा०। “कविसीसएहिं उवसोभिए" रा०। हारद्धहारउवसोभिए"। रा०। समारचितकेशत्वादिना जनितशोभिते, ज्ञा०६अ० उवसोहिय त्रि०(उपशोधित) निर्मलीकृते, ज्ञा०६ अ०। उवस्तिद-त्रि०(उपस्थित)उप-स्था--क्त- स्थर्थयोस्तः 54 / 261 / इति स्थस्थाने सकाराक्रान्तस्तकारः। समीपस्थिते,प्रा० उवस्सय-पुं०(उपाश्रय)उपाश्रीयते सेव्यते संयमात्मपालनायेत्युपाश्रयः / स्था०५०। उपाश्रीयते भज्यते शीतादित्राणार्थ यः स उपाश्रयः। वसतौ,स्था 03 ठा०। आचा०। ज्ञा०। उपाश्रयक्षेपः।। नाम ठवणा दविए, भावे य उवस्सओ मुणेयव्वो। एएसिं नाणत्तं,वोच्छामि अहाणुपुथ्वीए।। नामोपाश्रयः स्थापनोपाश्रयः द्रव्योपाश्रयः भावोपाश्रयश्चेत्युपाश्रयश्चतुर्द्धा मन्तव्यः / एतेषामुपाश्रयाणां नानात्वविशेषमहमानुपूर्व्या वक्ष्यामि / तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यभावोपाश्रयौ प्रतिपादयति। दवम्मि उ उवस्सओ, कीरइ कडवुत्थमेव सुत्तम्मि। भावम्मि निसिद्धे जं, एसु दवम्मि इयरेसु॥ द्रव्यं तु द्रव्यविषयं पुनरुपाश्रयो यः संयतार्थं क्रियते क्रियमाणे वर्तते कृतोवा परमथापिन संयतेभ्यो वितीर्यते।यो गृहस्थैरात्मार्थे निष्पादितः परं यत्र संयता मासकल्पं वा (वयत्ति) उषित्वा अन्यत्र गताः सांप्रतमुपाश्रयः शून्यस्तिष्ठति एष द्रव्योपाश्रयः। भावोपाश्रयो नाम यः संयतेभ्यो निसृष्टः प्रदस्तैः परिभुज्यमान इत्यर्थः / यः पुनरितरेषां पार्श्वस्थादीनां सृष्टः सोऽपिद्रव्योपाश्रयो विज्ञेयः। आह च वृहद्भाष्यकृत् “जो समणट्ठाय कतो, वुच्छा वा आसि जत्थ समणाओ। अहवा दव्वउवस्सओ, पासत्थादीपरिग्गहिओ" वृ०। उ०। (उपाश्रयस्य सर्वो विषयो वसतिशब्दे वक्ष्यते) कर्मणि अच्आश्रयणी ये, भावे अच्। आश्रये, वाच०। उवस्सयअसंकिलेसपुं० (उपाश्रयासक्लेश) उपाश्रयविषये असंक्लेशे असंक्लेशभेदे, स्था०१० ठा०। उवस्सयसंकिलेस पुं०(उपाश्रयसंक्लेश) उपाश्रयो वसतिस्तद्विषयः संक्लेशः। संक्लेशभेदे, स्था० 10 ठा०। उवस्सा स्री०(उपश्रा) द्वेषे, व्य०१ उ०। उवस्सिय त्रि०(उपाश्रित) उपाश्रा नाम द्वेषः सजातोऽस्योति उपाश्रितः। द्वेषवति, व्य०१ उ०। अङ्गीकृते, वैयावृत्यकरत्वादिना प्रत्यासन्नतरे, उप-आ-श्रि० भावे-त-द्वेष, शिष्यप्रतीच्छक कुलाद्यपेक्षायाम् स्था० 5 ठा०। उवहड त्रि०(उपहृत) उपह-त-उपढौकिते, उपहाररूपेण दत्तेच। उपहिते भोजनस्थाने, ढौकिते, भक्ते,। तिविहे उवहडे पण्णत्ते तं जहाफलिह उवहडे सुद्धोवहडे संसट्ठोवहडे॥ त्रिविधमुपहृतं प्रज्ञप्तं तद्यथा सिद्धोपहृतं फलितोपहृतं संसृष्टोपहृत्तं च। स्था० 3 ठा०। अमीषा पदानां व्याख्यानं भाष्यकृत्करिष्यति अधुना भाष्यप्रपञ्चः। सुद्धे संसट्टे य, फलितोवहडे य तिविहमेकेकं / तिन्नेगद्गमा तिम्नि य, तिगसंजोगे भवे एको। उपहृतशब्दः प्रत्येकमभिसंबध्यते त्रिविधमुपहृतं सूत्रेऽभिहितं तद्यथा शुद्धोपहृतं संसृष्टोपहृतं फलितोपहृतं च / एकैकं पुनस्त्रिविधं यदवगृह्णाति यच संहरतियचाऽऽस्ये प्रक्षिपतिएतदनन्तरसूत्रे वक्ष्यते। अत्रैकैकसंयोगे त्रयो भङ्गास्तद्यथा / शुद्धोपहृतं वा गृह्णाति 1 फलितोपहृतं गृह्णाति 2 संसृष्टोपहृतं गृह्णाति३ द्विकसंयोगेऽपि त्रयस्तद्यथा शुद्धोपहृतं फलितोपहृतं च१ / शुद्धोपहृतं संसृष्टोपहृतम् ।श फलितोपहृतं संसृष्टोपहृतं च / / त्रिकसंयोगे एकः / शुद्धोपहृतं फलितोपहृतं संसृष्टोपहृतं च गृह्णाति / सर्वसंख्यया सप्त भङ्गाः। एतेषामेकतरमभिगृह्णात्यभिग्रही। संप्रति शुद्धादिपदानामर्थमाचष्टे / सुद्धं तु अलेवकडं, अहवणसुद्धोदणो भवे सुद्धं / संसर्ट आदत्तं, लेवाणमलेवर्ड चेव। फलियं पहेणयादी, वंजणभक्खेहि वा विरइयं तु / भोत्तुंमणसोपहियं, पंचमपिंडेसणा एसा॥ यत् अलेपकृतं काजिकेनपानीयेन वा सन्मिश्रीकृतं तच्छुद्धम्।अथवा शुद्धोदनो व्यञ्जनरहितो भवति। शुद्धं तदपि नियमादलेपकृतम्। संसृष्टं नाम भोक्तुकामेन तद् गृहीतम्। किमुक्तं भवति / यत् स्थाले परिवेषितं तत्र ग्रहणाय हस्तः क्षिप्तो न तावदद्यापि मुखे प्रक्षिपति / अत्रान्तरे साधुरागतो भिक्षार्थं ततः लेपकृतमलेपकृतं वा संसृष्टमित्युच्यते। फलितं नाम यद् व्यञ्जनैर्भक्ष्यैर्वा नानाप्रकारैर्विरचितं पहेणकादि प्रहेणकं लाभनकमादिशब्दात्सरजस्कानां दानाय कल्पितं परिगृह्यते / उपहृतशब्दस्यार्थमाह। यत्र भोक्तुमनस उपहृतं तदुपहृतमित्युच्यते एषा च पञ्चमी पिण्डेषणा। सुद्धग्गहणेणं पुण, होइ चउत्थी वि एसणा गहिया। संसहेउ विमासा, फलियनियमा उ लेवकडं / / शुद्धग्रहणेन चतुर्थ्यप्येषणा अल्पलेपकृता नामिका गृहीता द्रष्टध्या / संसृष्ट विभाषा / कदाचिल्लेपकृतं कदाचिन्नेति। फलितं तु