________________ उवसमसेढि 1074 - अभिधानराजेन्द्रः - भाग 2 उवसमसेढि युगपप्रत्याख्यानावरणप्रत्याख्यानावरणलोभावुपशमयति तत्समयवमेव संज्वलनलोभस्य बन्धोदयोदीरणाव्यवच्छेदः / ततः संज्वलनलोभमुपशमयंस्त्रिधा करोति द्वौ भागौ युगपदुपशमयति तृतीयभागं संख्येयखण्डनि करोति दान्यपि पृथक् पृथक् कालभेदेनोपशमयति पुनः संख्येयानां खण्डानां किट्टीकृत्य परपर्यायाणां चरमखण्डमसंख्येयानि खण्डानि सूक्ष्मकिट्टीकृत्य परपर्यायाणि करोति ततःसमये समये एकैकं खण्डमुपशयमयतीति / इह च दर्शनसप्तके उपशान्ते निवृत्तिबादरोडभिधीयते तत उर्द्धमनिवृत्तिबादरो यावल्लोभस्यासंख्येयान्तिमचरमखण्ड इति प्ररूपिता मोहनीयस्याष्टाविंशतिभेदभिन्नस्याप्युपशमना / संप्रति गाथार्थो विव्रियते। इहोपशमश्रेणिप्रारम्भको भवत्यप्रमत्तसंयत एव / अन्ये तु प्रतिपादयन्ति / अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम इति श्रेणिपरिसमाप्तौवाऽविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमो भवति / स च प्रथमं युगपत् (अणत्ति) अनन्तानुबन्धिनः क्रोधमानमायालोभानुपशमयति ततो “दर्शनंदर्शस्तं" दर्श मिथ्यात्वसम्यग्मिथ्यात्वसम्यग्दर्शनं युगपदुपशमयति / ततोऽनुदीर्णमपि नपुंसकवेदं यदि पुरुषः प्रारम्भकस्ततःप्रथमं नपुंसकवेद ततः पश्चात्स्वीवेदंततः षट्कं हास्यरत्यरतिशोकमयजुगुप्सालक्षणं ततः पुरुषवेदम् अथ स्त्री प्रारम्भिका ततः प्रथमं नपुंसकवेदं ततः पुरुषवेदं ततः षट्कं ततः स्त्रीवेदमिति। अथ नपुंसकवेद एव प्रारम्भकस्ततोऽसावनुदीर्णमपि प्रथमं स्त्रीवेदमुपशमयति ततः पुरुषवेदं ततः षट् के ततो नपुंसक वेदमिति / पुनश्च द्वौ द्वौ क्रोधाद्यावेकान्तरितौ संज्वलनविशेषक्रोधाधन्तरितौ सदृशौ तुल्यावुपशमयति / अयमर्थः / अप्रत्याख्यानावरणप्रत्याख्यानावरणक्रोधौ सदृशौ क्रोधत्वेन युगपदुपशमयति ततः संज्वलनक्रोधमेकाकिनं ततोऽप्रत्याख्यानावरणप्रत्याख्यानावरणमानौ युगपदुपशमयति ततः संज्वलनमानं ततोऽप्रत्याख्यानावरणप्रत्याख्यानावरणमाये युगपदुपशमयति ततः संज्वलनमायां ततोऽप्रत्याख्यानावरणप्रत्याख्यानावरणलो भौ युगपदुपशमयति ततः संज्वलनलोभमिति / स्थापना चेयम् ननु संज्वलनादीनां युक्त उपशमोऽनन्तानुबन्धिनां तु दर्शनप्राप्तादेवोपशमितत्वान्न युज्यते न दर्शनप्रतिपत्तौ तेषां क्षयोपशमादिह चोपशमादित्यविरोध इति / आह क्षयोपशमोपशमयोः कः प्रतिविशेषे उच्यते / क्षयोपशमो ह्युदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकानुभवापेक्षयोपशमः प्रदेशानुभवतस्तूदयोऽस्त्येव उपशमे तु प्रदेशानुभवोऽपि नास्तीति। यदाह भाष्यपीयूषपाथोधिः “वेएइ संतकम्म, खओवसमिएत्थ नाणुभावं सो। उक्संतकम्मओपुण, वेएइन संतकम्मंपि" अन्यत्राप्युक्तम्। "उवसंतकम्मंजन, तउ कढेइ न देइ उदएवि। न य गमयइ परपगई, न चेव उ कड्डएतं तु"। अस्या अक्षरगमनिका सर्वोपशमेन यदुपशान्तं मोहनीयकर्म अन्यस्य सर्वोपशमायोगात् “सर्बोवसमो मोहस्सचेवेति" वचनात् न तदपकर्षति न तदपवर्तनाकरणेन स्थितिरसाभ्यां हीनं करोतीत्यर्थः / अपिशब्दस्य भिन्नक्रमत्वान्नाप्युदये तद्ददाति नापि तद्वेदयतीत्यर्थः / उपलक्षणात्तदविनाभाविन्यामुदरिणायामपि न ददातीत्यपि मन्तव्यम् / न च बध्यमानसजातीयरूपांपरप्रकृति संक्रमणकरणेन गमयति संक्रमयति। नच तत्तकर्मोपशान्तं सदुत्कर्ष यत्युद्वर्तनाकरणेन स्थितिरसाभ्यां वृद्धि नयति निधत्तिनिकाचनायास्तु प्रागपूर्वकरणकाल एव निवृत्तत्यान्नेहोपशान्तत्वेन तन्निषेधः क्रियते इति। आह संयतस्यानन्तानुबन्धिनामुदयो निषिद्धस्तत्कथमुपशम इत्युच्यते स ह्यनुभागकङ्गिीकृत्य न तु प्रदेशकर्मेति तथा चाभ्यधायि परमगुरुणा "जीवेणं भंते ! सयंकडं कम्म वेएइ अत्थेगइयं नो वेएइ। से केणद्वेणं पुच्छा दुविहे कम्मे पन्नते तं जहा पएसकम्मे य अणुभागकम्मे य। तत्थ णं जं पएसकामं तं नियमा वेएइ तत्थणंजं अणुभागकम्मतं अत्थेगइयं वेएइ अत्थेगइयं नो वेएई" इत्यादि ततश्च प्रदेशकमप्यभावोदयस्येहोपशमो द्रष्टव्यः / आह यद्येवं संयतस्यानन्तानुबन्ध्युदयतः कथं दर्शनविधातो न भवतीत्युच्यते प्रदेशकर्मणो मन्दानुभावत्वात्। तथा कस्यचिदनुभागकर्मानुभागोऽपि नात्यन्तमपकाराय भवन्नुपलभ्यते यथा संपूर्णमत्यादिचतुानिनस्तदावरणोदय इति ततः सूक्ष्मलोभचरमकिट्युपशमे संज्वलनलोभ उपशान्तो भवति तत्समयमेव च ज्ञानावरणपञ्चकदर्शनावरणचतुकान्तरायपञ्चकयशःकीर्युच्चैर्गोत्राणां बन्धव्यवच्छेदस्ततोऽनन्तरसमयेऽसावुपशान्तकषायो भवति स च जघन्येनैकं समयमात्रमुत्कर्षेण त्वन्तर्मुहूर्तकालं यावत् तत उर्द्ध नियमादसौ प्रतिपतति / प्रतिपातश्च द्विधा भवक्षयेण अद्धाक्षयेण च तत्र भवक्षयो म्रियमाणस्य अद्धाक्षय उपशान्ताद्धायां समाप्तायाम् / अदाक्षयेण च प्रतिपतन् यथैवारूढस्तथैव प्रतिपतति। यत्र यत्र बन्धोदयोदीरणाव्यव-च्छिन्नास्तत्र तत्रपतता सता ते आरभ्यन्त इति यावत् प्रतिपतितश्च तावत्प्रतिपतति यावत्प्रमत्तसंयतगुणस्थानकम् / कश्चित्पुनस्ततोऽप्य-धस्तनं गुणस्थानकद्वयं याति कोऽपि सास्वादनभावमपि / यः पुनर्भवक्षयेण प्रतिपतति स प्रथमसमय एव सर्वाण्यपि बन्धनादीनिकरणानि प्रवर्तयतीति शेषः / उत्कर्षतश्चैकस्मिन भवे द्वौ वारावुपशमश्रेणिं प्रतिपद्यते यश्च द्वौ वारावुपशमश्रेणिं प्रतिपद्यते तस्य नियमात्तस्मिन् भवे क्षपकश्रेण्यभावः / यः पुनरेकं वारं प्रतिपद्यते तस्य क्षपकश्रेणिभवेदपि उक्तं च सप्ततिकाचूर्णी “जोदुवारे उवसमसेढं पडिवज्जइ तस्स नियमा तम्मि भवेखवगसेढी नत्थि इक्कसिंउवसमसेढिपडिवाइतस्स खवगसेढी हुजति" एष कार्मग्रन्थिकाभिप्रायः / सिद्धान्ताभिप्रायेण त्वेक संज्वलनलोभः अप्रत्याख्यानप्रत्याख्यानक्रोधः अप्रत्याख्यानप्रत्याख्यानलोभः। पुरुषवेदः संज्वलनमाया हास्यादिषट्कः अप्रत्याख्यानप्रत्याख्यानमाया। स्त्रीवेदः संज्वलनमानः। नपुंसकवेदः अप्रत्याख्यानप्रत्या-- || मिथ्यात्वमिश्रसम्यख्यानमानः। क्त्वम् अप्रत्याख्यानसंज्व अनन्तानुबन्धिक्रोधलनक्रोधः मानमायालोभः