________________ उवसमसेढि 1073 - अभिघानराजेन्द्रः - भाग 2 उवसमसेढि पञ्चेन्द्रियसंज्ञी सर्वाभिः पर्याप्तिभिः पर्याप्तः करणकलात्पूर्वमप्यन्तर्मुहूर्त्तकालं प्रतिसमयमनन्तगुणवृद्ध्या विशुद्ध्या प्रवर्द्धमानोऽभव्यसिद्धिकविशुद्ध्यपेक्षयाऽनन्तगुणविशुद्धिको मतिश्रुताज्ञानविभङ्गज्ञानानामन्यतमस्मिन् साकारोपयोगे उपयुक्तोऽन्यतस्मिन् योमे वर्तमानो जघन्यपरिणामेन तेजोलेश्यायां मध्यमपरिणामेन पद्मलेश्यायामुत्कृष्टपरिणामेन शुक्ललेश्यायां वर्तमानो मिथ्यादृष्टिश्चतुर्गतिकोऽन्तः सागरोपमकोटीकोटीस्थितिसत्कर्मा इत्यादि पूर्वोक्तं तावद्वाच्यं यावद्यथाप्रवृत्तिकरणमपूर्वकरणं च परिपूर्ण भवति नवरमिहापूर्वकरणे गुणसंक्रमो नो वक्तव्यः किं तु स्थितिघातरसघातस्थितिबन्धगुणश्रेणय एव वक्तव्याः / गुणश्रेणिदलिकरचनाप्युदयसमयादारभ्यवेदितव्या ततोऽनिवृत्तिकरणेऽप्येवमेव वक्तव्यम् अनिवृत्तिकरणाद्धायाश्च संख्येयेषु भागेषु गतेषु सत्सु एकस्मिन् संख्येयतमे भागेऽवतिष्ठमानेऽन्तर्मुहूर्त्तमात्रमधो मुक्तवा मिथ्यात्वस्यान्तरकरणमन्तर्मुहूर्तप्रमाणं प्रथमस्थितेः किं चित्समधिकं न्यूनं वाऽभिनवस्थितिबन्धाद्धा समेनान्तर्मुहूतें न कालेन करोति अन्तरकरणसत्कं च दलिकमुत्कीर्य प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति। प्रथमस्थितौ च वर्तमानोदीरणाप्रयोगेण यत्प्रथमस्थितिगतं दलिकं समाकृप्योदये प्रक्षिपति सा उदीरणा यत्पुनर्द्धितीयस्थितेः सकाशादुदीरणाप्रयोगणैव दलिकं समाकृष्य उदये प्रक्षिपति सा उदीरणाऽपि पूर्वसूरिभिर्विशेषप्रतिपत्त्यर्थमागाल इत्युच्यते उदयोदीरणाभ्यां च प्रथमस्थितिमनुभवन् तावद्गतो यावदावलिकाद्विकं शेषं तिष्ठति तस्मिश्च स्थिते आगालो व्यवच्छिद्यते तत उदीरणैव केवला प्रवर्तते साऽपि तावद्यावदावलिका शेषो न भवति आवलिकायां तु शेषीभूतायामुदीरणाऽपि निवर्तते ततः केवलेनैवोदयेनावलिकामात्रमनुभवति आवलिकामात्रचरमसमये च द्वितीयस्थितिगतं दलिकमनुभागभेदेन त्रिधा करोति तद्यथा सम्यक्त्वं सम्यग्मिथ्यात्वं मिथ्यात्वं चेति। उक्तं च कर्मप्रकृतिचूर्णी “चरमसमयमिच्छदिट्ठी से काले उवसमंसम्मट्ठिी होहिई ताहे विइयट्टिइं तिहाणुभागं करेइतंजहा सम्मत्तं सम्मामिच्छत्तं मिच्छत्तं चेति" स्थापना चेयम् 000 ततोऽनन्तरसमये मिथ्यात्वस्योदयाभावादौपशमिकं सम्यक्तव-वाप्नोति / उक्तं च कर्मप्रकृतौ / “मिच्छत्तुदए खीणे, लहए सम्मत्तमोवसमियंसो। लंभेण जस्स लब्भइ, आयहियमलद्धपुव्वं जं" अन्यत्राप्युक्तम् “जात्सन्धस्य यथापुंसश्चक्षुलभि, शुभोदये। सद्दर्शनं तथैवास्य,सम्यक्तवेसतिजायते" 1 आनन्दो जायतेऽत्यन्तं सात्विकोऽस्य महात्मनः / सद्व्याध्यपगमो यद्वद्व्याधितस्य सदौषधात्" 2 एष च प्रथमसम्यक्तवलाभो मिथ्यात्वस्य सर्वोपशमनाद्भवति उक्तं च "सम्मत्तपढमलम्भो, सव्वोवसमा" इति / सम्यक्तवं चेदं पतिपद्यमानः कश्चिद्देशविरतिसहितं प्रतिपद्यते कश्चित्सर्वविरतिसहितम् उक्तंच पञ्चसंग्रह "सम्मत्तेणं समगं, सव्वं देसं चकोइ वडिवज्जे। वृहच्छतकचूर्णावप्युक्तम् “उवसमसम्मदिट्ठी अंतरकरणे ठिओ कोई देसविरइं पलिहेइ, कोइ पमत्तभावं पि सामायणो पूण न किं पि लहेइत्ति" (कर्म०) जिनभद्रगणिक्षमाश्रवणोऽपि “उवसामगसेढीए, पढवओ अप्पमत्तविरओ उ / पज्जवसाणे सो वा, होइ पमत्तो अविरओ वां / “अण्णेभणंति अविरयसपमत्तापमत्तविरयाणं। अन्नयरोपडिवज्जइ, द्रंसणसमणम्मि उ नियट्टी द्वे अपि गतार्थे नवरमविरताद्यप्रमत्तानां मध्यात्केनापि दर्शनसप्तके उपशमिते ततो (नियट्टित्ति) निवृतिबादरो भवति (विशे०) ततो देशविरतप्रमत्ताप्रमत्तसंयतेष्वपि मिथ्या त्वमुपशान्तं लभ्यते / संप्रति वेदकसम्यग्दृष्टस्त्रयाणामपि र्दशनमोहनीयानामुपशमनाविधिरुध्यते। इह वेदकसम्यग्दष्टिसंयमे वर्तमानः सन्नन्तर्मुहूर्त्तमात्रेण कालेन दर्शनत्रितयमुपशमयति उपशमयतश्च करणत्रिकादिविधिर्यथा कर्मप्रकृतिटीकार्या तथा वेदितव्यः / एवमुपशान्तदर्शनमोहनीयत्रिकश्चारित्रमोहनीयमुपशमयितुकामः पुनरपि यथाप्रवृत्तादीनि त्रीणि करणानि करोति करणानां च स्वरूपं प्राग्वत् केवलमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थानकेद्रष्टव्यं पूर्वकरणमपूर्वकरणगुणस्थानके अनिवृत्तिकरणमनिवृत्तिबादरसंपरायगुणस्थानके अत्रापि स्थितिघातादयः पूर्ववदेव प्रवर्तन्ते नवरमिह सर्वासामशुभप्रकृतीनाभवध्यमानानां गुणसंक्रमः प्रवर्तत इति वक्तव्यम् / अपूर्वकरणाद्धायाश्च संख्येयतमे भागे गते सति निद्राप्रचलयोर्बन्धव्यवच्छेदः ततःप्रभूतेषु स्थितिखण्डसहस्रेषुगतेषुसत्सुअपूर्वकरणाद्धायाश्च संख्येयतमो भागो गतो भवति एकोऽवशिष्यते अत्र चान्तरे देवगतिदेवानुपूर्वी पञ्चेन्द्रियजातिवैक्रि यशरीरवैक्रियागोपाङ्गाऽऽहारकशरीराऽऽहारकाङ्गोपाङ्गतैजसकामणसमचतुरस्रवर्णचतुष्कागुरुलघूपघातपराघातोच्छ्वासत्रसबादरपर्याप्तप्रत्येकप्रशस्तविहायोगत्यसुभसुभगसुखरादेयनिर्माणतीर्थकरसंज्ञितानां त्रिंशतः प्रकृतीनां बन्धव्यवच्छेदः / ततः स्थितिखण्डपृथक्तवे गते सति अपूर्वकरणाद्धायाश्चरमसमये हास्यरत्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः / हास्यरत्यरतिशोकभयजुगुप्सानामुदयः सर्वकर्मणां देशोपशमनानिधत्तिनिकाचनाकरणव्यवच्छेदश्च ततोऽनन्तरसमये निवृत्तिकरणे प्रविशत्यपि स्थितिघातादीनि पूर्ववत्करोति ततोऽनिवृत्तिकरणाद्धायाः संख्ये येषु भागेषु सत्सु दर्शनसप्तके शेषाणामेकविंशतिमोहनीयप्रकृतीनामन्तरकरणं करोति तत्र चतुर्णा संज्वलनानामन्यतमस्य वेद्यमानस्य संज्वलनस्य त्रयाणां वेदानामन्यतमस्य वेदस्य प्रथमा स्थितिः स्वोदयकालप्रमाणा शेषाणां त्वेकादशकषायाणामष्टानां च नोकषायाणामावलिकामात्रं स्वोदयकालप्रमाणं च चतुर्णा संज्वलनानां त्रयाणां च वेदानामिदं स्त्रीवेदनपुंसकवेदयोरुदयकालः सर्वस्तोकः स्वस्थाने च परस्परं तुल्यः ततः पुरुषवेदस्य संख्येयगुणः ततःसंज्वलनक्रोधस्य विशेषाधिकः ततः संज्वलनमानस्य विशेषाधिकः ततः संज्वलनमायाया विशेषाधिकः ततः संज्वलनलोभस्य विशेषाधिकः / इहानिवृत्तिकरणे बहु वक्रव्यं तत्तु ग्रन्थगौरवभयानोच्यते केवलं विशेषार्थिना कर्मप्रकृतिटीका निरीक्षितव्या। अन्तरकरणं च कृत्वा ततो नपुंसकवेदमन्तर्मुहूर्तेमात्रेण उपशमयति ततोऽन्तर्मुहूर्तमात्रेण स्त्रीवेदं ततोऽन्तर्मुहूर्तमात्रेण हास्यादिषट्कं तम्मिश्चोपशान्ते तस्मिन्नेव समये पुरुषवेदस्य बन्धोदयोदीरणाव्यवच्छेदः ततः समयोनावलिकाद्विकेन पुरुषवेदमुपशमयति ततो युगपदन्तर्मुहूर्त्तमात्रेणाप्रत्याख्यानावरणप्रत्याख्यानावरणक्रोधौ तदुपशान्तौ च तत्समयमेव संज्वलनक्रोधोदयोदीरणाव्यवच्छेदः ततः समयोनावलिकाद्विकेन संज्वलनक्रो-- धमुपशमयति ततोऽन्तर्मुहूर्त्तमात्रेणाप्रत्याख्यानावरणप्रत्याख्यानावरणमानौ युगपदुपशमयति तदुपशान्तौ च तत्समयमेव संज्वलनमानस्य बन्धोदयोदीरणाव्यवच्छेदः ततः समयोनावलिकाद्विकेन संज्वलनमानमुपशमयति ततो युगपदन्तर्मुहूर्तमात्रेण अप्रत्याख्यानावरणप्रत्याख्यानावरणमाये उपशमयति तदुपशान्तौ च तत्समयमेव संज्वलनमायाया बन्धोदयो दीरणाव्यवच्छे दः ततः समयोनावलिकाद्रिके न संज्वलनमायामुपशमयति ततो