SearchBrowseAboutContactDonate
Page Preview
Page 1073
Loading...
Download File
Download File
Page Text
________________ उवसमणा 1065 - अभिधानराजेन्द्रः - भाग 2 उवसमणा यसमयश्च संख्येयगुण एवं प्रतिसमयं संख्येयगुणं तावद्वक्तव्यं यावश्चरमसमयः परप्रकृतिषु च प्रतिसमयमुपशमितदलिकापेक्षया अंसख्येयगुणं तावत्संक्रमयति यावद् द्विचरमसमये पुनरुपशमय्यमानं दलिकं परप्रकृतिषु संक्रमेण दलिकापेक्षया असंख्येयगुणं / द्रष्टव्यं नपुंसकवेदोपशमनारम्भप्रथमसमयादारभ्य सर्वकर्मणामावलिकापेक्षया सर्वस्तोका उदयसंख्येयगुणाः। अंतरकरणपविट्ठो, संखासंखं समोहइयराणं। बंधादुत्तरबंधा, एवं इच्छे इ संखंसो॥ अन्तरकरणे प्रविष्ठ, सन् जीवः प्रथमसमय एव बन्धादुत्तरबन्धस्य संख्येयगुणा अन्तरकरणे विवद्धाःसंख्याः सन्तीत्यर्थः। वो हि यदपेक्षया संख्येयभागमात्रकल्पः स तदपेक्षया संख्यये गुणहीन एवेति मोहनीयवर्जानां तु शेषाणां कर्मणां बन्धादुत्तरबन्धमसंख्येयभोग करोति असंख्येयगुणहीनं करोतीत्यर्थः एवं नपुंसकवेदमुपशमयति तदुपशमनानन्तरंच स्थितिबन्धसहस्रेष्वतीतेष्वेवमनन्तरोक्तेन प्रकारेण स्त्रीवेदमुपशमयति स्त्रीवेदस्य च संख्येयतमे भागे उपशान्ते यद्भवति तदुपदर्शयन्नाह। उवसंते घाईणं, संखेजसमा परेण संखंसो। बंधो सत्तण्हेव, संखेजवसंति उवसंते॥ स्त्रीवेदस्य संख्येयतमे भागे उपशान्ते सति घातिनां घातिकर्मणां ज्ञानावरणदर्शनावरणान्तरायाणां संख्येयसमाः संख्येयवर्षप्रमाणो बन्धः स्थितिबन्धो भवति (परेणत्ति) ततः संख्येयवर्षप्रमाणात् स्थितिबन्धव्यापारादन्यः संस्थितिबन्धघातिस्वरूपाणां पूर्वस्मात् संख्येयांशः संख्येयभागकल्पः संख्येयगुणहीन इत्यर्थः। तस्मादेव च संख्येयवर्षप्रमाणात् स्थितिबन्धादारभ्य देशघातिनां के वलज्ञानावरणकेवलदर्शनावरणवर्जानां ज्ञानावरणदर्शनावरणकर्मणां नैकस्थानकं बध्नाति तत एवं स्थितिबन्धसहस्रेषु गतेषु सत्सु त्रिधा वेद उपशान्तो भवति ततः स्त्रीवेद उपशान्ते शेषाणां नोकषायाणामेवं नपुंसकवेदोक्तेन प्रकारेण संख्येयतमे भागे उपशान्ते किमित्याह। . नामगोयाण संखा, बंधावो सा असंखिया तइए। तो सव्वाण वि संखा, तत्तो संखेज्जगुणहीणा / / नामगोत्रयोः संख्येयाः समाः संख्येयवर्षप्रमाणो बन्धः स्थितिबन्धो भवति तृतीयस्य वेदनीयस्य कर्मणः स्थितिबन्धोऽसंख्येयानि वर्षाणि असंख्येयवर्षप्रमाण इत्यर्थः तस्मिंश्च स्थितिपूर्णे सत्यन्यः स्थितिबन्धो वेदनीयस्यापि संख्येयवर्षप्रमाणो भवति (ततोत्ति) ततस्तस्माद्भेदनीयसत्कसंख्येयवार्षिक स्थितिबन्धात्प्रभृति सर्वेषामपि कर्मणां स्थितिबन्धः संख्येयवार्षिक: प्रवर्तते सच पूर्वस्मात्पूर्वस्मादन्योऽन्यः प्रवर्तमानः संख्येयगुणहीनः प्रवर्तते इत्यर्थः ततः स्थितिबन्धसहस्रेषु गतेषु सत्स्वपि नोकषाय उपशान्तो भवति। जं समयं उवसंतं, छक्कं उदयट्ठिई यता सेसा। पुरिसे समओणावलि, दुगेण बद्धअणुवसंतं / / यस्मिन् समये षट् नोकषाया उपशान्ता जलसिक्तदूषणं कुट्टितभूमि रजांसीवोपशमं नीतास्तदा पुरुषवेदस्य एका उदयस्थितिः समयमात्रा शेषा तदानीं च स्थितिबन्धः षोडश वर्षाणि तस्मिश्च समये सा एका उदयस्थितिर्यच समयोनावलिकाद्विकेन कालेन बद्धमेतावदेवानुपशान्तं वर्तते शेषं सर्वमप्युपशान्तम् / इयमत्र भावना पुरुषवेदस्य प्रथमस्थितौ / व्यावलिकाशेषायां प्रागुक्तस्वरूपायामेव व्यवच्छिद्यते उदीरणा तु भवति तस्मादेव च समयादारभ्य प्रधाननोकषायाणां सत्कं दलिकं पुरुषवेदेन संक्रमयति किंतु संज्वलनक्रोधादिषु यदाच पुरुषवेदस्य सत्का प्रागुक्ता एकाप्युदयस्थितिरतिक्रान्ता भवति तदाऽसौ वेदको भवति अवेदकाद्धायाश्च प्रथमसमये समयद्वयोनावलिकाद्विकेन कालेन यद्द्धं तदेव केवलमुपशान्ते तिष्ठति शेषं सकलमपि नपुंसकवेदोक्तेन प्रकारेणोपशमितं तदपि च तावता कालेनोपशमयति एतदेवाह! आगालेणं समगं, पडिगहिया फिडइ पुरिसवेयस्स। सोलसवासियबंधा, चरमो चरमेण उदएण।। तावइ कालेणं विय, पुरिसं उवसामए अविएसो। बद्धो वत्तीससमा, संजलणियराण उसहस्स।। यदा पुरुषवेदस्य प्रागुक्तस्वरूप आगालो व्यवच्छिद्यते तदा तेन समकं तत्कालमेव तस्य पुरुषवेदस्य यत ईहता शेषदलिकसंक्रमाधारता स्फिटति अपगच्छति योऽपि च चरमः पर्यन्तेऽपि षोडशवार्षिक स्थितिबन्धः पुरुषवेदस्य सोऽपि चरमेण प्रथमस्थितिचरमसमयभाविना उदयेन सहापगच्छति यदा च पुरुषवेदस्य स्थितिबन्धः षोडशवार्षिकस्तदा संज्वलनानां संख्येयानि वर्षसहस्त्राणि स्थितिबन्धः यदपि च वेदकाद्धाप्रथमसमये समयोनावलिकाद्विकबद्ध पुरुषवेददलिकमस्ति तदपि वेदोदयरहितः सन् स उपशमको जीवस्तावतैव समयद्वयोनावलिकालिकाद्विकप्रमाणेन कालेन पुरुषवेदद लिकमुपशमयति द्वितीयसमये असंख्येयगुणं तृतीयसमये असंख्येयगुणमिदं तावद्वक्तव्यं यावत्कालद्वयोनावलिकाद्विक चरमसमयः परप्रकृतिषु प्रतिसमयद्वयोनावलिकाद्विककालं यावद्यथाप्रवृत्तं संक्रमेण संक्रमयति तद्यथा प्रथमसमये प्रभूतं द्वितीयसमये विशेषहीनं तृतीयसमयेऽपि विशेषहीनमेवं तावत् यावचरमसमयः ततः पुरुष उपशान्तस्तदानीं च संज्वलनानां द्वित्रिंशत्समा द्वात्रिशद्वर्षप्रमाणः स्थितिबन्ध इतरेषां ज्ञानावरणदर्शनावरणान्तरायनामगोत्राणां संख्येयानि वर्षसहस्राणि स्थितिबन्धः अवेदप्रथमसमयादारभ्य क्रोधत्रिकाप्रत्याख्यानप्रत्याख्याना-वरणसंज्वलनरूपमुपशमयति / कोहतिगं आढवेई उवसमिउं तिसुपडिगहणाएगाचउय उदीरणा बंधो पिटुंति आवलीए सेसाए इति / यस्मिन् समये पुरुषवेदस्यावेदकालस्ततस्तस्मादेवैकप्रथमसमयादारभ्य क्रोधत्रिकाप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपं युगपदुपशमयितुमारभते उपशमनां च कुर्वतः प्रथमे स्थितिबन्धे पूर्ण सत्यन्यः स्थितिबन्धः संज्वलनानां ससंख्येयभागहीनशेषाणां च संख्ययगुणहानः शषं स्थितिघातादि तथैव संज्वलनक्रोधस्य च प्रथमस्थिता समयानावलिकात्रिक शेषायां पतद्ग्रहतापगच्छति अप्रत्याख्यानप्रत्याख्यानावरणक्रोधदलिकं न तत्र प्रक्षिपति संज्वलनमानादाविति आवः। ततोऽद्धादलिकाशेषायां प्रथमस्थितौ संज्वलनक्रोधस्यागालो भवति। किंतदुदीरणा तावत्प्रवर्तते यावदेका आवदका आवलिका शेषा भवति उदीरणावलिकायाश्चरमसमये स्थितिबन्धश्चत्वारो मासाः शेषकर्मणां तु संख्येयानि वर्षसहस्राणि संज्वलनक्रोधस्यच बन्धोदयोदीरणाव्यवच्छेदात्तथा चाह एकस्यामावलिकायां शेषायामुदय उदीरणा बन्धश्च एते त्रयोऽपि पदाथा युगपत् स्फुटन्त्यपगच्छन्ति तदानीं वाप्रत्याख्यानप्रत्याख्यानावरणक्रोधानुपश्यन्तौ तदा चैकामावलिकासमयोनावलिकां द्विकबद्धञ्चदलिकं मुक्त्वा शेषमन्यत्सर्वां संज्वलनां क्रोस्योपशान्तसमयो
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy