________________ उवसमणा 1066 - अभिधानराजेन्द्रः - भाग 2 उवसमणा नावलिकाद्विकबद्धं च दलिकपुरुषवेदोक्तेन प्रकारेणोपशमयति तथा चाह "सेसयं तु पुरिससम, एवं सेसकसायादेय इति दुगेणं आवलिया" संज्वलनक्रोधस्य बन्धादौ व्यवच्छित्रेशेषं पुरुषवेदं समं वक्तव्यम्। एवं क्रोधत्रिकोक्तेन प्रकारेण शेषानप्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनमानमायालोभरूपान् कषायानुपशमयति याश्च शेषीभूता आवलिकास्ता उन्तरस्मिन् कषाये स्तिवुकेन स्तिवुकसंक्रमेणानुभवति / इयमत्र भावना संज्वलनक्रोधस्य बन्धादिव्यवच्छिन्ने या प्रथमस्थितिरेका आवलिका तिष्ठति तां स्तिवुकसंक्रमेण माने प्रक्षिप्य वेदनीयान् यदपि च समयोनाबलिकाद्विकबद्धं सदस्ति तदपि तावंता कालेनोपशमयति द्यथा प्रथमसमये स्तोकमुपशमयति द्वितीये असंख्येयगुणं ततोऽपि तृतीयसमये असंख्येयगुणमेवं यावत्समयोनावलिकाद्विकचरमसमयः परप्रकृतिषु चसमयोनावलिका द्विककालं यावत् यथा-प्रवृत्तं संक्र मेण पूर्ववत् संक्रमयति एवं संज्वलनक्रोधे सर्वात्मनोपशमयति यदेव संज्वलनक्रोधस्य बन्धादयः उदीरणाव्यवच्छिनास्तदेव संज्वलनमानस्य द्वितीयस्थितेः सकाशात् दलिकमाकृष्य प्रथमस्थितिं करोति निवेदयते च तत्रोदयसमये स्तोकं प्रक्षिपति द्वितीयस्थितावसंख्येयगुणं तृतीयस्थितावसंख्येयगुणमेवं तावत् यावत् प्रथमस्थितेश्वरमः समयः प्रथमस्थितिप्रथमसमये संज्वलनमानस्य स्थितिबन्धश्चत्वारो मासाः शेषाणां तु ज्ञानावरणीयादीनां संख्येयानि वर्षसहस्राणि तदानीमेव च त्रीनपि मानान् युगपदुपशमयितुमारभते संज्वलमानस्य च प्रथमस्थितौ समयोनावलिकात्रिकशेषमप्रत्याख्यानप्रत्याख्यानावरणमानदलिकं संज्वलनमानं प्रक्षिपति किं तु संज्वलनमायादौ आवलिकाद्विकशेषायां त्वागालो व्यवच्छिद्यते तत उदीरणैव के वला प्रवर्तते साऽपि तावत् यावदावलिकाचरमसमयः तत एका प्रथमस्थितेरावलिका शेषीभूता तिष्ठतितस्मिश्च समये संज्वलनानां द्वौ मासो स्थितिबन्धः कर्माशेषाणां तु संख्येयानि वर्षाणि तदानीं संज्वलनमानस्य बन्धोदयोदीरणा व्यवच्छिन्नाः। अप्रत्याख्यानप्रत्याख्यानावरणमानौ चोपशान्तौ तदानीं च संज्वलनमानस्य प्रथमस्थितिरेकामावलिकां समयोनावलिकाद्विकबद्धाश्च लता मुक्त्वा विशेषमन्यत्सर्वमुपशान्तं तदानीमेव च संज्वलनमानस्य प्रथमस्थितेरेकामावलिकां लोभमावलिकाद्विकबद्धाश्च लता मुक्त्वा विशेषमन्यत्सर्वमुपशान्तं तदानीमेव च संज्वलनमायायां द्वितीयस्थितेदलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च पूर्वाक्तां संज्वलनमानस्य प्रथमस्थितिसत्कामेकामावलिकां स्तिवुकसंक्रमेण संज्वलनमायायां प्रक्षिपति समयोनावलिकाद्धिबद्धाश्च लताः पुरुषवेदोक्तक्रमेणोपशमयति संक्रमयन्ति च संज्वलनमायोदयप्रथमसमयेच मायालोभयो मासौ स्थितिबन्धः शेषकर्माणां तु संख्येयानि वर्षाणि तत्समयादेव चारभ्य तिस्रोऽपि माया युगपदुपशमयितुमारभते ततः संज्वलनमाया प्रथमस्थितौ समयोनावलिकाविशेषायामप्रत्याख्यानप्रत्याख्यानावरणमाया दलिकसंज्वलनमायायांन प्रक्षिणति किं तु संज्वलनलोभे आवलिकाविशेषायां त्वागालो व्यवच्छिद्यतेतत उदीरणव केवला प्रवर्तते साऽपि तावत् यावदावलिकाचरमसमयः तस्मिश्च समये संज्ववलमायालोभयोः स्थितिबन्धयोरेको मासः शेषकर्मणां तु संख्येयानि वर्षाणि तदानीमेव च संज्वलनमायायां बन्धोदयोदीरणाव्यवच्छेदः अप्रत्याख्यानप्रत्याख्यानावरण-मायोपशान्ते संज्वलनमायायाश्च प्रथमस्थितिसत्कामेकावलिकां समयोनावलिकां द्विकबद्धाश्च लता मुक्त्वा शेषमन्यत्सर्वमुपशान्तंततो निरन्तरसमये संज्वलनलोभस्य द्वितीयस्थितेः सकाशात् दलिकमाकृष्य प्रथमस्थितिं करोति वेदयतेच पूर्वोक्तां च मायायाः प्रथमस्थितिसत्कां समयावलिकास्तिवुकसंक्रमण संज्वलनलोभे संक्रमयति समयोनावलिकाद्विकबद्धाश्च लताः पुरुषवेदक्रमेणोपशमयति संक्रमयति च संज्वलनक्रोधादीनां सूक्ष्मोदयचरमसमये यावत्प्रमाणस्थितिबन्धोऽनन्तरमुक्तस्तावत्प्रमाणमत्र साक्षात्सूत्रकृत् संवादयति। चरिमुदयम्मि जम्हा, तब्बंधो दुगुणो उ होइ उवसमगे। तयणंतरपगईए, चउगुणोऽण्णेसु संखगुणो॥ इह यः क्षपक श्रेण्या क्षपकस्य संज्वलनक्रोधादी स्वस्वचरमोदयकाले जघन्यः स्थितिबन्ध उक्तः स उपशमके द्विगुणो भवति तदनन्तरं प्रकृतेः पुनश्चतुर्गुणः अन्येषु तु संख्येयगुण इति ततोऽपि परस्याः प्रकृतेरष्टगुण इत्यर्थः / यथा क्षपकमाधिकृत्य संज्वलन क्रोधस्य मासद्वयं जघन्यस्थितिबन्ध एको मासस्ततस्तस्य क्रोधचरमोदयकाले चतुर्मासप्रमाणो बन्धः प्रवर्त्तमानःस्वजघन्यबन्धापेक्षया चतुर्गुणो भवति ततोऽपि परा प्रकृतिर्माया स्यात् तदानीमष्टगुणो बन्धस्तस्या हि क्षपकमधिकृत्य स्वचरमोदयकाले जघन्यः स्थितिबन्धोऽर्द्धमासस्ततः क्रोधचरमोदयकाले चतुर्मासिको बन्धः प्रवर्त्तमानः स्वजघन्यबन्धापेक्षया अष्टगुणो भवति तथा मानस्य क्षपकमधिकृत्य जघन्यो बन्ध एको मासः स चोपशमके मन्दपरिणामत्वात् द्विमासप्रमाणो भवतिमानस्य चानन्तरा प्रकृतिर्माया तस्यास्तदानीं चतुर्गुणः पक्षापेक्षया मासद्वयरय चतुर्गुणत्वात् तथा मायायाः क्षपकमधिकृत्य जघन्यो बन्धः एकः पक्षः सर्वोपशमे मन्दपरिणामत्वात् चरमोदये मासप्रमाणप्रवर्तमानद्विगुणो भवति शेषकाणां तु ज्ञानावरणीयादीनां सर्वत्रापि संख्येयवर्षप्रमाणः स्थितिबन्ध केवलं पूर्वस्मातहीनो हीनतर इति। संप्रतिसंज्वलनलोभवक्तव्यतामाह। लोभस्स उ पढमठिई, विइओ य कुणइ तिविभागं / दो पुग्गलनिक्खेवो, ततिइओ पुण किट्टिवेयद्धा / / लोभस्य द्वितीयस्थितेदलिकमाकृष्य प्रथमस्थितिं करोति सा त्रि भागा त्रिभागोपेता तद्यथा प्रथमो विभागोऽश्वकर्णकरणाद्धासंज्ञः द्वितीयः किट्टिकरणाद्धासंज्ञः तयोश्च द्वयोरपि विभागयोदलि कनिक्षेपो भवति किमुक्तं भवति द्वितीयस्थितेर्दलिकमाकृष्य द्विभागप्रमाणां प्रथमां स्थिति करोतीति / तृतीयःपुनःविभागः किट्टिवेदनाद्धा संज्वलनलोभोदये वाश्वकर्णकरणाद्धायां वर्तमानः प्रथमसमय एव त्रीनपि लोभान् अप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपान् युगपदुपशमितुमारभते अन्यच्च यत्करोति प्रथमे अश्व कर्णकरणाद्धासंज्ञे विभागे तदाह। संतावज्झमाणग, सरूवउप्फुड्डगाणि जं कुणइ। सा अस्सकण्णकरणद्धति माकिट्टिकरणद्धा॥ सन्ति विद्यमानानि यानि संक्रमितानि मायाकर्मदलिकानि पूर्वे बद्धसज्वलनलोभे दलिकानि वा तानि वध्यमानस्वरू-पतस्तत्कालवध्यमानंसंज्वलनलोभरूपतया किमुक्तं भवति तत्कालवध्यमानसंज्वलनलोभस्य द्विकानि चात्यन्तिरसानि यत्र करोति सा अश्वकर्णकरणाद्धा इयमत्र भावना अश्वकर्णकरणाद्धासंज्ञे प्रथमे त्रिभागे वर्तमानसंक्रमितमायादलिकेभ्यः संज्वलनलोभसत्केभ्यो वा पूर्वस्पर्द्धकेभ्यः प्रतिसमयं दलिकं गृहीत्वा तस्य चात्यन्तदीनरसतामापाद्य पूर्ण च प्रतिसमयं दलिकं गृह्णन् अपूर्वाणि स्पर्द्धकानि करोति आसंसारे हि